🪷 सुन्दरकाण्ड · Sarga 35
Sundara-Kāṇḍa · The Book of Beauty · Sarga 35 · 89 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 5.35local sarga route with all Sanskrit ślokasSundara-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तां तु रामकथां श्रुत्वा वैदेही वानरार्षभात् ।उवाच वचनं सान्त्वमिदं मधुरया गिरा ।। ५.३५.१।।।।
क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ।वानराणां नराणां च कथमासीत् समागमः ।। ५.३५.२।।।।
यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर ।तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ।। ५.३५.३।।।।
कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् ।कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ।। ५.३५.४।।।।
एवमुक्तस्तु वैदेह्या हनुमान् मारुतात्मजः ।ततो रामं यथात्त्वमाख्यातुमुपचक्रमे ।। ५.३५.५।।।।
जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि ।भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च ।। ५.३५.६।।।।
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै ।लक्षितानि विशालाक्षि वदतः शृणु तानि मे ।। ५.३५.७।।।।
रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः ।रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ।। ५.३५.८।।।।
तेजसा ऽ ऽदित्यसङ्काशः क्षमया पृथिवीसमः ।बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ।। ५.३५.९।।।।
रक्षिता जीवलोकस्य स्वरजनस्याभिरक्षिता ।रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः ।। ५.३५.१०।।।।
रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता ।मर्यादानां च लोकस्य कर्ता कारयिता च सः ।। ५.३५.११।।।।
अर्चिष्मानर्चितो ऽत्यर्थं ब्रह्मचर्यव्रते स्थितः ।साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ।। ५.३५.१२।।।।
राजविद्याविनीतश्च ब्राह्मणानामुपासिता ।श्रुतवान् शीलसम्पन्नो विनीतश्च परन्तपः ।। ५.३५.१३।।।।
यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः ।धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः ।। ५.३५.१४।।।।
विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः ।गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः ।। ५.३५.१५।।।।
दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् ।समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः ।। ५.३५.१६।।।।
त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः ।त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः ।। ५.३५.१७।।।।
त्रिवलीवांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान् ।चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुः समः ।। ५.३५.१८।।।।
चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्वर्गतिः ।महोष्ठहनुनासश्च पञ्चस्निग्धो ऽष्टवंशवान् ।। ५.३५.१९।।।।
दशपद्मो दशबृहत् त्रिभिर्व्याप्तो द्विशुक्लवान् ।षडुन्नतो नवतनुस्त्रिभिर्वाप्नोति राघवः ।। ५.३५.२०।।।।
सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः ।देशकालविभागज्ञः सर्वलोकप्रियंवदः ।। ५.३५.२१।।।।
भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः ।अनुरागेण रूपेण गुणैश्चैव तथाविधः ।। ५.३५.२२।।।।
तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ ।विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ ।। ५.३५.२३।।।।
त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् ।ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ।। ५.३५.२४।।।।
ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले ।भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम् ।। ५.३५.२५।।।।
वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम् ।परिचर्यास्महे राज्यात् पूर्वजेनावरोपितम् ।। ५.३५.२६।।।।
ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ ।ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ।। ५.३५.२७।।।।
स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः ।अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ।। ५.३५.२८।।।।
ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः ।तयोः समीपं मामेव प्रेषयामास सत्वरम् ।। ५.३५.२९।।।।
तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू ।रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः ।। ५.३५.३०।।।।
तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ ।पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौः ।। ५.३५.३१।।।।
निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने ।तयोरन्योन्यसंलापाद्भृशं प्रीतिरजायत ।। ५.३५.३२।।।।
ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ ।परस्परकृताश्वासौ कथया पूर्ववृत्तया ।। ५.३५.३३।।।।
ततः स सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः ।स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा ।। ५.३५.३४।।।।
ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ।लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ।। ५.३५.३५।।।।
स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः ।तदा ऽ ऽसीन्निष्प्रभो ऽत्यर्थं ग्रहग्रस्त इवांशुमान् ।। ५.३५.३६।।।।
ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया ।यान्याभरणजालानि पातितानि महीतले ।।। ५.३५.३७।।।।
तानि सर्वाणि रामाय आनीय हरियूथपाः ।संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ।। ५.३५.३८।।।।
तानि रामाय दत्तानि मयैवोपहृतानि च ।स्वनवन्त्यवकीर्णानि तस्मिन् विगतचेतसि ।। ५.३५.३९।।।।
तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव ।तेन देवप्रकाशेन देवेन परिदेवितम् ।। ५.३५.४०।।।।
पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः।प्रादीपयन् दाशरथेस्तानि शोकहुताशनम् ।। ५.३५.४१।।।।
शयितं च चिरं तेन दुःकार्तेन महात्मना ।मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थिपितः पुनः ।। ५.३५.४२।।।।
तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः ।राघवः सहसौमित्रिः सुग्रीवे संन्यवेदयत् ।। ५.३५.४३।।।।
स तवादर्शनादार्ये राघवः परितप्यते ।महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ।। ५.३५.४४।।।।
त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् ।तापयन्ति महात्मानमग्न्यागारमिवाग्नयः ।। ५.३५.४५।।।।
तवादर्शनशोकेन राघवः प्रविचाल्यते ।महता भूमिकम्पने महानिव शिलोच्चयः ।। ५.३५.४६।।।।
काननानि सुरम्याणि नदीः प्रस्रवणानि च ।चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे ।। ५.३५.४७।।।।
स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः ।समित्रबान्धवं हत्वा रावणं जनकात्मजे ।। ५.३५.४८।।।।
सहितौ रामसुग्रीवावुभावकुरुतां तदा ।समयं वालिनं हन्तुं तव चान्वेषणं तथा ।। ५.३५.४९।।।।
ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः ।किष्किन्धां समुपागम्य वाली युद्धे निपातितः ।। ५.३५.५०।।।।
ततो निहत्य तरसा रामो वालिनमाहवे ।सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत् पतिम् ।। ५.३५.५१।।।।
रामसुग्रीवयोरैक्यं देव्येवं समजायत ।हनुममन्तं च मां विद्धि तयोर्दूतमिहागतम् ।। ५.३५.५२।।।।
स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरान् ।त्वदर्थं प्रेषयामास दिशो दश महाबलान् ।। ५.३५.५३।।।।
आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा ।अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ।। ५.३५.५४।।।।
ततस्ते मार्गमाणा वै सुग्रीववचनातुराः ।चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ।। ५.३५.५५।।।।
अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः ।प्रस्थितः कापिशार्दूलस्त्रिभागबलसंवृतः ।। ५.३५.५६।।।।
तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे ।भृशं शोकपरीतानामहोरात्रगणा गताः ।। ५.३५.५७।।।।
ते वयं कार्यनैराश्यात् कालश्यातिक्रमेण च ।भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ।। ५.३५.५८।।।।
विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च ।अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः ।। ५.३५.५९।।।।
दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुङ्गवान् ।भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः ।। ५.३५.६०।।।।
तवनाशं च वैदेहि वालिनश्च वधं तथा ।प्रायोववेशमस्माकं मरणं च जटायुषः ।। ५३.५.६१।।।।
तेषां नः स्वामिसन्देशान्निराशानां मुमूर्षताम् ।कार्यहेतोरिवायातः शकुनिर्वीर्यवान् महान् ।। ५.३५.६२।।।।
गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट् ।श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ।। ५.३५.६३।।।।
यवीयान् केन म भ्राता हतः क्व च निपातितः ।एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ।। ५.३५.६४।।।।
अङ्गदो ऽकथयत्तस्य जनस्थानेः महद्वधम् ।रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ।। ५.३५.६५।।।।
जटायुषो वधं श्रुत्वा दुःखितः सो ऽरुणात्मजः ।त्वां शशंस वरारोहे वसन्तीं रावणालये ।। ५.३५.६६।।।।
तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम् ।अङ्गप्रमुखास्तूर्णं ततः संप्रस्थिता वयम् ।। ५.३५.६७।।।।
विन्ध्यादुत्थाय संप्राप्ताः सागरस्यान्तमुत्तरम् ।त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः ।। ५.३५.६८।।।।
अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपस्थिताः ।चिन्तां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः ।। ५.३५.६९।।।।
तथा ऽहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः ।व्यवधूय भयं ताव्रं योजनानां शतं प्लुतः ।। ५.३५.७०।।।।
लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला ।रावणश्च मया दृष्टस्त्वं च शोकपरिप्लुता ।। ५.३५.७१।।।।
एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते ।अभिभाषस्व मां देवि दूतो दाशरथेरहम् ।। ५.३५.७२।।।।
तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ।सुग्रीवसचिवं देवि बुध्यस्व पवनात्मजम् ।। ५.३५.७३।।।।
कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः ।गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ।। ५.३५.७४।।।।
तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः ।अहमेकस्तु संप्राप्तः सुग्रीववचनादिह ।। ५.३५.७५।।।।
मयेयमसहायेन चरता कामरूपिणा ।दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा ।। ५.३५.७६।।।।
दिष्ट्या ऽहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ।अपनेष्यामि सन्तापं तवाभिगमशंसनात् ।। ५.३५.७७।।।।
दिष्ट्या हि मम न व्यर्थं देवि सागरलङ्घनम् ।प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः ।। ५.३५.७८।।।।
राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ।समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ।। ५.३५.७९।।।।
माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः ।ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ।। ५.३५.८०।।।।
स च देवर्षिभिर्दिष्टः पिता मम महाकपिः ।तार्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ।। ५.३५.८१।।।।
तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि ।हनुमानिति विख्यातो लोके स्वेनैव कर्मणा ।। ५.३५.८२।।।।
विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ।अचिराद् राघवो देवि त्वामितो नयिता ऽनघे ।। ५.३५.८३।।।।
एवं विश्वासिता सीता हेतुभिः शोककर्शिता ।उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति ।। ५.३५.८४।।।।
अतुलं च गता हर्षं प्रहर्षेण च जानकी ।नेत्राभ्यां वक्रपक्ष्मभ्यां मुमोचानन्दजं जलम् ।। ५.३५.८५।।।।
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ।। ५.३५.८६।।।।
हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा ।अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ।। ५.३५.८७।।।।
एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि ।किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ।। ५.३५.८८।।।।
हते ऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात् ।ततो ऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ।। ५.३५.८९।।
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 34
- Next: Sundara-Kāṇḍa Sarga 36 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷