🪷 सुन्दरकाण्ड · Sarga 35
Sundara-Kāṇḍa · The Book of Beauty · Sarga 35 · 89 ślokas
🪷 Devanāgarī Ślokas
तां तु रामकथां श्रुत्वा वैदेही वानरार्षभात् ।उवाच वचनं सान्त्वमिदं मधुरया गिरा ।। ५.३५.१।।।। ॥५-३५-१॥
क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ।वानराणां नराणां च कथमासीत् समागमः ।। ५.३५.२।।।। ॥५-३५-२॥
यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर ।तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ।। ५.३५.३।।।। ॥५-३५-३॥
कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् ।कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ।। ५.३५.४।।।। ॥५-३५-४॥
एवमुक्तस्तु वैदेह्या हनुमान् मारुतात्मजः ।ततो रामं यथात्त्वमाख्यातुमुपचक्रमे ।। ५.३५.५।।।। ॥५-३५-५॥
जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि ।भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च ।। ५.३५.६।।।। ॥५-३५-६॥
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै ।लक्षितानि विशालाक्षि वदतः शृणु तानि मे ।। ५.३५.७।।।। ॥५-३५-७॥
रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः ।रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ।। ५.३५.८।।।। ॥५-३५-८॥
तेजसा ऽ ऽदित्यसङ्काशः क्षमया पृथिवीसमः ।बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ।। ५.३५.९।।।। ॥५-३५-९॥
रक्षिता जीवलोकस्य स्वरजनस्याभिरक्षिता ।रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः ।। ५.३५.१०।।।। ॥५-३५-१०॥
रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता ।मर्यादानां च लोकस्य कर्ता कारयिता च सः ।। ५.३५.११।।।। ॥५-३५-११॥
अर्चिष्मानर्चितो ऽत्यर्थं ब्रह्मचर्यव्रते स्थितः ।साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ।। ५.३५.१२।।।। ॥५-३५-१२॥
राजविद्याविनीतश्च ब्राह्मणानामुपासिता ।श्रुतवान् शीलसम्पन्नो विनीतश्च परन्तपः ।। ५.३५.१३।।।। ॥५-३५-१३॥
यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः ।धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः ।। ५.३५.१४।।।। ॥५-३५-१४॥
विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः ।गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः ।। ५.३५.१५।।।। ॥५-३५-१५॥
दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान् ।समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः ।। ५.३५.१६।।।। ॥५-३५-१६॥
त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः ।त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः ।। ५.३५.१७।।।। ॥५-३५-१७॥
त्रिवलीवांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान् ।चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुः समः ।। ५.३५.१८।।।। ॥५-३५-१८॥
चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्वर्गतिः ।महोष्ठहनुनासश्च पञ्चस्निग्धो ऽष्टवंशवान् ।। ५.३५.१९।।।। ॥५-३५-१९॥
दशपद्मो दशबृहत् त्रिभिर्व्याप्तो द्विशुक्लवान् ।षडुन्नतो नवतनुस्त्रिभिर्वाप्नोति राघवः ।। ५.३५.२०।।।। ॥५-३५-२०॥
सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः ।देशकालविभागज्ञः सर्वलोकप्रियंवदः ।। ५.३५.२१।।।। ॥५-३५-२१॥
भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः ।अनुरागेण रूपेण गुणैश्चैव तथाविधः ।। ५.३५.२२।।।। ॥५-३५-२२॥
तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ ।विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ ।। ५.३५.२३।।।। ॥५-३५-२३॥
त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् ।ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ।। ५.३५.२४।।।। ॥५-३५-२४॥
ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले ।भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम् ।। ५.३५.२५।।।। ॥५-३५-२५॥
वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम् ।परिचर्यास्महे राज्यात् पूर्वजेनावरोपितम् ।। ५.३५.२६।।।। ॥५-३५-२६॥
ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ ।ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ।। ५.३५.२७।।।। ॥५-३५-२७॥
स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः ।अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ।। ५.३५.२८।।।। ॥५-३५-२८॥
ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः ।तयोः समीपं मामेव प्रेषयामास सत्वरम् ।। ५.३५.२९।।।। ॥५-३५-२९॥
तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू ।रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः ।। ५.३५.३०।।।। ॥५-३५-३०॥
तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ ।पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौः ।। ५.३५.३१।।।। ॥५-३५-३१॥
निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने ।तयोरन्योन्यसंलापाद्भृशं प्रीतिरजायत ।। ५.३५.३२।।।। ॥५-३५-३२॥
ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ ।परस्परकृताश्वासौ कथया पूर्ववृत्तया ।। ५.३५.३३।।।। ॥५-३५-३३॥
ततः स सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः ।स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा ।। ५.३५.३४।।।। ॥५-३५-३४॥
ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ।लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ।। ५.३५.३५।।।। ॥५-३५-३५॥
स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः ।तदा ऽ ऽसीन्निष्प्रभो ऽत्यर्थं ग्रहग्रस्त इवांशुमान् ।। ५.३५.३६।।।। ॥५-३५-३६॥
ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया ।यान्याभरणजालानि पातितानि महीतले ।।। ५.३५.३७।।।। ॥५-३५-३७॥
तानि सर्वाणि रामाय आनीय हरियूथपाः ।संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ।। ५.३५.३८।।।। ॥५-३५-३८॥
तानि रामाय दत्तानि मयैवोपहृतानि च ।स्वनवन्त्यवकीर्णानि तस्मिन् विगतचेतसि ।। ५.३५.३९।।।। ॥५-३५-३९॥
तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव ।तेन देवप्रकाशेन देवेन परिदेवितम् ।। ५.३५.४०।।।। ॥५-३५-४०॥
पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः।प्रादीपयन् दाशरथेस्तानि शोकहुताशनम् ।। ५.३५.४१।।।। ॥५-३५-४१॥
शयितं च चिरं तेन दुःकार्तेन महात्मना ।मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थिपितः पुनः ।। ५.३५.४२।।।। ॥५-३५-४२॥
तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः ।राघवः सहसौमित्रिः सुग्रीवे संन्यवेदयत् ।। ५.३५.४३।।।। ॥५-३५-४३॥
स तवादर्शनादार्ये राघवः परितप्यते ।महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ।। ५.३५.४४।।।। ॥५-३५-४४॥
त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् ।तापयन्ति महात्मानमग्न्यागारमिवाग्नयः ।। ५.३५.४५।।।। ॥५-३५-४५॥
तवादर्शनशोकेन राघवः प्रविचाल्यते ।महता भूमिकम्पने महानिव शिलोच्चयः ।। ५.३५.४६।।।। ॥५-३५-४६॥
काननानि सुरम्याणि नदीः प्रस्रवणानि च ।चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे ।। ५.३५.४७।।।। ॥५-३५-४७॥
स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः ।समित्रबान्धवं हत्वा रावणं जनकात्मजे ।। ५.३५.४८।।।। ॥५-३५-४८॥
सहितौ रामसुग्रीवावुभावकुरुतां तदा ।समयं वालिनं हन्तुं तव चान्वेषणं तथा ।। ५.३५.४९।।।। ॥५-३५-४९॥
ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः ।किष्किन्धां समुपागम्य वाली युद्धे निपातितः ।। ५.३५.५०।।।। ॥५-३५-५०॥
ततो निहत्य तरसा रामो वालिनमाहवे ।सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत् पतिम् ।। ५.३५.५१।।।। ॥५-३५-५१॥
रामसुग्रीवयोरैक्यं देव्येवं समजायत ।हनुममन्तं च मां विद्धि तयोर्दूतमिहागतम् ।। ५.३५.५२।।।। ॥५-३५-५२॥
स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरान् ।त्वदर्थं प्रेषयामास दिशो दश महाबलान् ।। ५.३५.५३।।।। ॥५-३५-५३॥
आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा ।अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ।। ५.३५.५४।।।। ॥५-३५-५४॥
ततस्ते मार्गमाणा वै सुग्रीववचनातुराः ।चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ।। ५.३५.५५।।।। ॥५-३५-५५॥
अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः ।प्रस्थितः कापिशार्दूलस्त्रिभागबलसंवृतः ।। ५.३५.५६।।।। ॥५-३५-५६॥
तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे ।भृशं शोकपरीतानामहोरात्रगणा गताः ।। ५.३५.५७।।।। ॥५-३५-५७॥
ते वयं कार्यनैराश्यात् कालश्यातिक्रमेण च ।भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ।। ५.३५.५८।।।। ॥५-३५-५८॥
विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च ।अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः ।। ५.३५.५९।।।। ॥५-३५-५९॥
दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुङ्गवान् ।भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः ।। ५.३५.६०।।।। ॥५-३५-६०॥
तवनाशं च वैदेहि वालिनश्च वधं तथा ।प्रायोववेशमस्माकं मरणं च जटायुषः ।। ५३.५.६१।।।। ॥५-३५-६१॥
तेषां नः स्वामिसन्देशान्निराशानां मुमूर्षताम् ।कार्यहेतोरिवायातः शकुनिर्वीर्यवान् महान् ।। ५.३५.६२।।।। ॥५-३५-६२॥
गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट् ।श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ।। ५.३५.६३।।।। ॥५-३५-६३॥
यवीयान् केन म भ्राता हतः क्व च निपातितः ।एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ।। ५.३५.६४।।।। ॥५-३५-६४॥
अङ्गदो ऽकथयत्तस्य जनस्थानेः महद्वधम् ।रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ।। ५.३५.६५।।।। ॥५-३५-६५॥
जटायुषो वधं श्रुत्वा दुःखितः सो ऽरुणात्मजः ।त्वां शशंस वरारोहे वसन्तीं रावणालये ।। ५.३५.६६।।।। ॥५-३५-६६॥
तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम् ।अङ्गप्रमुखास्तूर्णं ततः संप्रस्थिता वयम् ।। ५.३५.६७।।।। ॥५-३५-६७॥
विन्ध्यादुत्थाय संप्राप्ताः सागरस्यान्तमुत्तरम् ।त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः ।। ५.३५.६८।।।। ॥५-३५-६८॥
अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपस्थिताः ।चिन्तां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः ।। ५.३५.६९।।।। ॥५-३५-६९॥
तथा ऽहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः ।व्यवधूय भयं ताव्रं योजनानां शतं प्लुतः ।। ५.३५.७०।।।। ॥५-३५-७०॥
लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला ।रावणश्च मया दृष्टस्त्वं च शोकपरिप्लुता ।। ५.३५.७१।।।। ॥५-३५-७१॥
एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते ।अभिभाषस्व मां देवि दूतो दाशरथेरहम् ।। ५.३५.७२।।।। ॥५-३५-७२॥
तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ।सुग्रीवसचिवं देवि बुध्यस्व पवनात्मजम् ।। ५.३५.७३।।।। ॥५-३५-७३॥
कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः ।गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ।। ५.३५.७४।।।। ॥५-३५-७४॥
तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः ।अहमेकस्तु संप्राप्तः सुग्रीववचनादिह ।। ५.३५.७५।।।। ॥५-३५-७५॥
मयेयमसहायेन चरता कामरूपिणा ।दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा ।। ५.३५.७६।।।। ॥५-३५-७६॥
दिष्ट्या ऽहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ।अपनेष्यामि सन्तापं तवाभिगमशंसनात् ।। ५.३५.७७।।।। ॥५-३५-७७॥
दिष्ट्या हि मम न व्यर्थं देवि सागरलङ्घनम् ।प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः ।। ५.३५.७८।।।। ॥५-३५-७८॥
राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ।समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ।। ५.३५.७९।।।। ॥५-३५-७९॥
माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः ।ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ।। ५.३५.८०।।।। ॥५-३५-८०॥
स च देवर्षिभिर्दिष्टः पिता मम महाकपिः ।तार्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ।। ५.३५.८१।।।। ॥५-३५-८१॥
तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि ।हनुमानिति विख्यातो लोके स्वेनैव कर्मणा ।। ५.३५.८२।।।। ॥५-३५-८२॥
विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ।अचिराद् राघवो देवि त्वामितो नयिता ऽनघे ।। ५.३५.८३।।।। ॥५-३५-८३॥
एवं विश्वासिता सीता हेतुभिः शोककर्शिता ।उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति ।। ५.३५.८४।।।। ॥५-३५-८४॥
अतुलं च गता हर्षं प्रहर्षेण च जानकी ।नेत्राभ्यां वक्रपक्ष्मभ्यां मुमोचानन्दजं जलम् ।। ५.३५.८५।।।। ॥५-३५-८५॥
चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ।। ५.३५.८६।।।। ॥५-३५-८६॥
हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा ।अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ।। ५.३५.८७।।।। ॥५-३५-८७॥
एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि ।किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ।। ५.३५.८८।।।। ॥५-३५-८८॥
हते ऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात् ।ततो ऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ॥५-३५-८९॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 34
- Next: Sundara-Kāṇḍa Sarga 36 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷