🪷 सुन्दरकाण्ड · Sarga 34

Sundara-Kāṇḍa · The Book of Beauty · Sarga 34 · 41 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.34.1
तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः ।दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ।। ५.३४.१।।।। ॥५-३४-१॥
Vālmīki 5.34.2
अहं रामस्य सन्देशाद्देवि दूतस्तवागतः ।वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ।। ५.३४.२।।।। ॥५-३४-२॥
Vālmīki 5.34.3
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ।स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ।। ५.३४.३।।।। ॥५-३४-३॥
Vālmīki 5.34.4
लक्ष्मणश्च महातेजा भर्तुस्ते ऽनुचरः प्रियः ।कृतवाञ्छोकसन्तप्तः शिरसा ते ऽभिवादनम् ।। ५.३४.४।।।। ॥५-३४-४॥
Vālmīki 5.34.5
सा तयोः कुशलं देवी निशम्य नरसिंहयोः ।प्रीतिसंहृष्टसर्वाङ्गी हनुमन्तमथाब्रवीत् ।। ५.३४.५।।।। ॥५-३४-५॥
Vālmīki 5.34.6
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा ।एति जीवन्तमानन्दो नरं वर्षशतादपि ।। ५.३४.६।।।। ॥५-३४-६॥
Vālmīki 5.34.7
तया समागते तस्मिन् प्रीतिरुत्पादिता ऽद्भुता ।परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ।। ५.३४.७।।।। ॥५-३४-७॥
Vālmīki 5.34.8
तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः ।सीतायाः शोकदीनायाः समीपमुपचक्रमे ।। ५.३४.८।।।। ॥५-३४-८॥
Vālmīki 5.34.9
यथा यथा समीपं स हनुमानुपसर्पति ।तथा तथा रावणं सा तं सीता परिशङ्कते ।। ५.३४.९।।।। ॥५-३४-९॥
Vālmīki 5.34.10
अहो धिग् दुष्कृतमिदं कथितं हि यदस्य मे ।रूपान्तरमुपागम्य स एवायं हि रावणः ।। ५.३४.१०।।।। ॥५-३४-१०॥
Vālmīki 5.34.11
तामशोकस्य शाखां सा विमुक्ता शोककर्शिता ।तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ।। ५.३४.११।।।। ॥५-३४-११॥
Vālmīki 5.34.12
हमुमानपि दुःखार्तां तां दृष्ट्वा भयमोहिताम् ।अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् ।सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत ।। ५.३४.१२।।।। ॥५-३४-१२॥
Vālmīki 5.34.13
तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना ।अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा ।।। ५.३४.१३।।।। ॥५-३४-१३॥
Vālmīki 5.34.14
मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् ।उत्पादयसि मे भूयः सन्तापं तन्न शोभनम् ।। ५.३४.१४।।।। ॥५-३४-१४॥
Vālmīki 5.34.15
स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् ।जनस्थाने मया दृष्टस्त्वं स एवासि रावणः ।। ५.३४.१५।।।। ॥५-३४-१५॥
Vālmīki 5.34.16
उपवासकृशां दीनां कामरूप निशाचर ।सन्तापयसि मां भूयः सन्तप्तां तन्न शोभनम् ।। ५.३४.१६।।।। ॥५-३४-१६॥
Vālmīki 5.34.17
अथवा नैतदेवं हि यन्मया परिशङ्कितम् ।मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ।। ५.३४.१७।।।। ॥५-३४-१७॥
Vālmīki 5.34.18
यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते ।पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ।गुणान् रामस्य कथय प्रियस्य मम वानर ।। ५.३४.१८।।।। ॥५-३४-१८॥
Vālmīki 5.34.19
चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ।। ५.३४.१९।।मि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ।।। ॥५-३४-१९॥
Vālmīki 5.34.20
अहो स्वप्नस्य सुखता या ऽहमेंव चिराहृता ।प्रेषितं नाम पश्यामि राघवेण वनौकसम् ।। ५.३४.२०।।।। ॥५-३४-२०॥
Vālmīki 5.34.21
स्वप्ने ऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् ।पश्येयं नावसीदेयं स्वप्नो ऽपि मम मत्सरी ।। ५.३४.२१।।।। ॥५-३४-२१॥
Vālmīki 5.34.22
नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ।न शक्यो ऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ।। ५.३४.२२।।।। ॥५-३४-२२॥
Vālmīki 5.34.23
किन्नु स्याच्चित्तमोहो ऽयं भवेद्वातगतिस्त्वियम् ।उन्मादजो विकारो वा स्यादियं मृगतृष्णिका ।। ५.३४.२३।।।। ॥५-३४-२३॥
Vālmīki 5.34.24
अथवा नायमुन्मादो मोहो ऽप्युन्मादलक्षणः ।संबुद्ध्ये चाहमात्मानमिमं चापि वनौकसम् ।। ५.३४.२४।।।। ॥५-३४-२४॥
Vālmīki 5.34.25
इत्येवं बहुधा सीता संप्रधार्य बलाबलम् ।रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ।। ५.३४.२५।।।। ॥५-३४-२५॥
Vālmīki 5.34.26
एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा ।न प्रतिव्याजहाराथ वानरं जनकात्मजा ।। ५.३४.२६।।।। ॥५-३४-२६॥
Vālmīki 5.34.27
सीतायाश्चिन्तितं बुद्ध्वा हनुमान् मारुतात्मजः ।श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयत् ।। ५.३४.२७।।।। ॥५-३४-२७॥
Vālmīki 5.34.28
आदित्य इव तेजस्वी लोककान्तः शशी यथा ।राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ।विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः ।। ५.३४.२८।।।। ॥५-३४-२८॥
Vālmīki 5.34.29
सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा ।रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान् ॥५-३४-२९॥
Vālmīki 5.34.30
.स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः ।। ५.३४.३०।।।। ॥५-३४-३०॥
Vālmīki 5.34.31
बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ।। ५.३४.३१।।।। ॥५-३४-३१॥
Vālmīki 5.34.32
अपकृष्याश्रमपदान्मृगरूपेण राघवम् ।शून्ये येनापनीता ऽसि तस्य द्क्ष्यसि यत्फलम् ।। ५.३४.३२।।।। ॥५-३४-३२॥
Vālmīki 5.34.33
नचिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान् ।रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः ।। ५.३४.३३।।।। ॥५-३४-३३॥
Vālmīki 5.34.34
तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः ।त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् ।। ५.३४.३४।।।। ॥५-३४-३४॥
Vālmīki 5.34.35
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत् ।। ५.३४.३५।।।। ॥५-३४-३५॥
Vālmīki 5.34.36
रामस्य च सखा देवि सुग्रीवो नाम वानरः ।राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ।। ५.३४.३६।।।। ॥५-३४-३६॥
Vālmīki 5.34.37
नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः ।दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता ।। ५.३४.३७।।।। ॥५-३४-३७॥
Vālmīki 5.34.38
नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महाबलम् ।मध्ये वानरकोटीनां सुग्रीवं चामितौजसम् ।। ५.३४.३८।।।। ॥५-३४-३८॥
Vālmīki 5.34.39
अहं सुग्रीवसचिवो हनुमान्नाम वानरः ।प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् ।। ५.३४.३९।।।। ॥५-३४-३९॥
Vālmīki 5.34.40
कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ।त्वां द्रष्टुमुपयातो ऽहं समाश्रित्य पराक्रमम् ।। ५.३४.४०।।।। ॥५-३४-४०॥
Vālmīki 5.34.41
नाहमस्मि तथा देवि यथा मामवगच्छसि ।विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ॥५-३४-४१॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷