🪷 सुन्दरकाण्ड · Sarga 33
Sundara-Kāṇḍa · The Book of Beauty · Sarga 33 · 32 ślokas
🪷 Devanāgarī Ślokas
सो ऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः ।विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ।। ५.३३.१।।।। ॥५-३३-१॥
तामब्रवीन्महातेजा हनूमान् मारुतात्मजः ।शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ।। ५.३३.२।।।। ॥५-३३-२॥
कानु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि ।द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ।। ५.३३.३।।।। ॥५-३३-३॥
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् ।पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ।। ५.३३.४।।।। ॥५-३३-४॥
सुराणामसुराणां वा नागगन्धर्वरक्षसाम् ।यक्षाणां किन्नराणां वा का त्वं भवसि शोभने ।। ५.३३.५।।।। ॥५-३३-५॥
का त्वं भवसि रुद्राणां मरुतां वा वरानने ।वसूनां वा वरारोहे देवता प्रतिभासे मे ।। ५.३३.६।।।। ॥५-३३-६॥
किन्नु चन्द्रमसा हीना पतिता विबुधालयात् ।रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता ।। ५.३३.७।।।। ॥५-३३-७॥
का त्वं भवसि कल्याणि कत्वमनिन्दितलोचने ।। ५.३३.८।।।। ॥५-३३-८॥
कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे ।वसिष्ठं कोपयित्वा त्वं नासिकल्याण्यरुन्धती ।। ५.३३.९।।।। ॥५-३३-९॥
को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे ।अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ।। ५.३३.१०।।।। ॥५-३३-१०॥
रोदनादतिनिःश्वासाद्भूतमिसंस्पर्शनादपि ।न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात् ।। ५.३३.११।।।। ॥५-३३-११॥
व्यञ्जनानि च ते यानि लक्षणामनि च लक्षये ।महिषी भूमिपालस्य राजकन्या ऽसि मे मता ।। ५.३३.१२।।।। ॥५-३३-१२॥
रावणेन जनस्थानाद् बलादपहृता यदि ।सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ।। ५.३३.१३।।।। ॥५-३३-१३॥
यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् ।तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ।। ५.३३.१४।।।। ॥५-३३-१४॥
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता ।उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम् ।। ५.३३.१५।।।। ॥५-३३-१५॥
पृथिव्यां राजसिहानां मुख्यस्य विदितात्मनः ।स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः ।। ५.३३.१६।।।। ॥५-३३-१६॥
दुहिता जनकस्याहं वैदेहस्य महात्मनः ।सीता च नाम नाम्ना ऽहं भार्या रामस्य धीमतः ।। ५.३३.१७।।।। ॥५-३३-१७॥
समा द्वादश तत्राहं राघवस्य निवेशने ।भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ।। ५.३३.१८।।।। ॥५-३३-१८॥
तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् ।अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ।। ५.३३.१९।।।। ॥५-३३-१९॥
तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने ।कैकेयी नाम भर्तारं देवी वचनमब्रवीत् ।। ५.३३.२०।।।। ॥५-३३-२०॥
न पिबेयं न खादेयं प्रत्यहं मम भोजनम् ।एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ।। ५.३३.२१।।।। ॥५-३३-२१॥
यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम ।तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ।। ५.३३.२२।।।। ॥५-३३-२२॥
स राजा सत्यवाग् देव्या वरदानमनुस्मरन् ।मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ।। ५.३३.२३।।।। ॥५-३३-२३॥
ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः ।ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत ।। ५.३३.२४।।।। ॥५-३३-२४॥
स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम् ।मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ।। ५.३३.२५।।।। ॥५-३३-२५॥
दद्यान्न प्रतिगृह्णीयान्न ब्रूयात् किंचिदप्रियम् ।अपि जीवितहेतोर्वा रामः सत्यपराक्रमः ।। ५.३३.२६।।।। ॥५-३३-२६॥
स विहायोत्तरीयाणि महार्हाणि महायशाः ।विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ।। ५.३३.२७।।।। ॥५-३३-२७॥
सा ऽहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी ।न हि मे तेन हीनाया वासः स्वर्गे ऽपि रोचते ।। ५.३३.२८।।।। ॥५-३३-२८॥
प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः ।पूर्वजस्यानुयात्रार्थे द्रुमचीररैलङ्कृतः ।। ५.३३.२९।।।। ॥५-३३-२९॥
त वयं भर्तुरादेशं बहुमान्य दृढव्रताः ।प्रविष्टाः स्म पुरा ऽदृष्टं वन गम्भीरदर्शनम् ।। ५.३३.३०।।।। ॥५-३३-३०॥
वसतो दणऽडकारण्ये तस्याहममितौजसः ।रक्षसा ऽपहृता भार्या रावणेन दुरात्मना ।। ५.३३.३१।।।। ॥५-३३-३१॥
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ।ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ॥५-३३-३२॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 32
- Next: Sundara-Kāṇḍa Sarga 34 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷