🪷 सुन्दरकाण्ड · Sarga 32
Sundara-Kāṇḍa · The Book of Beauty · Sarga 32 · 14 ślokas
🪷 Devanāgarī Ślokas
ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा ।वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम् ।। ५.३२.१।।।। ॥५-३२-१॥
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् ।फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ।। ५.३२.२।।।। ॥५-३२-२॥
मैथिली चिन्तयामास विस्मयं परमं गता ।अहो भीममिदं रूपं वानरस्य दुरासदम् ।दुर्निरीक्ष्यमिति ज्ञात्वा पुनरेव मुमोह सा ।। ५.३२.३।।।। ॥५-३२-३॥
विललाप भृशं सीता करुणं भयमोहिता ।रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी ।। ५.३२.४।।।। ॥५-३२-४॥
रुरोद बहुधा सीता मन्दं मन्दस्वरा सती ।। ५.३२.५।।।। ॥५-३२-५॥
सा तं दृष्ट्वा हरिश्रेष्ठं विनीतबदुपस्थितम् ।मैथिली चिन्तयामास स्वप्नो ऽयमिति भामिनी ।। ५.३२.६।।।। ॥५-३२-६॥
सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम् ।ददर्श पिङ्गधिपतेरमात्यं वातात्मजं बुद्धिमतां वरिष्ठम् ।। ५.३२.७।।।। ॥५-३२-७॥
सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता ।चिरेण संज्ञा प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा ।। ५.३२.८।।।। ॥५-३२-८॥
स्वप्ने मया ऽयं विकृतो ऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः ।स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ।। ५.३२.९।।।। ॥५-३२-९॥
स्वप्नो ऽपि नायं नहि मे ऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः ।सुखं हि मे नास्ति यतो ऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन ।। ५.३२.१०।।।। ॥५-३२-१०॥
रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव ।तस्यानुरूपां च कथां तमर्तमेव प्रपश्यामि तथा श्रृणोमि ।। ५.३२.११।।।। ॥५-३२-११॥
अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा ।विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ।। ५.३२.१२।।।। ॥५-३२-१२॥
मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि ।किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ।। ५.३२.१३।।।। ॥५-३२-१३॥
नमो ऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय च ।अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथा ऽस्तु नान्यथा ॥५-३२-१४॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 31
- Next: Sundara-Kāṇḍa Sarga 33 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷