🪷 सुन्दरकाण्ड · Sarga 31
Sundara-Kāṇḍa · The Book of Beauty · Sarga 31 · 19 ślokas
🪷 Devanāgarī Ślokas
एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः ।संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ।। ५.३१.१।।।। ॥५-३१-१॥
राजा दशरथो नाम रथकुञ्जरवाजिमान् ।पुण्यशीलो महाकीर्तिर्ऋजुरासीन्महायशाः ।। ५.३१.२।।।। ॥५-३१-२॥
राजर्षीणां गुणश्रेष्टस्तपसा चर्षिभिः समः ।चक्रवर्तिकुले जातः पुरन्दरसमो बले ।। ५.३१.३।।।। ॥५-३१-३॥
अहिसारतिरक्षुद्रौ घृणी सत्यपराक्रमः ।मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः ।। ५.३१.४।।।। ॥५-३१-४॥
पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः ।पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ।। ५.३१.५।।।। ॥५-३१-५॥
तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः ।रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ।। ५.३१.६।।।। ॥५-३१-६॥
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।रक्षिता जीवलोकस्य धर्मस्य च परन्तपः ।। ५.३१.७।।।। ॥५-३१-७॥
तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः ।सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम् ।। ५.३१.८।।।। ॥५-३१-८॥
तेन तत्र महारण्ये मृगयां परिधावता ।राक्षसा निहताः शूरा बहवः कामरूपिणः ।। ५.३१.९।।।। ॥५-३१-९॥
जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ ।ततस्त्वमर्षापहृता जानकी रावणेन तु ।वञ्जयित्वा वने रामं मृगरूपेण मायया ।। ५.३१.१०।।।। ॥५-३१-१०॥
स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् ।आससाद वने मित्रं सुग्रीवं नाम वानरम् । ।। ५.३१.११।।।। ॥५-३१-११॥
ततः स वालिनं हत्वा रामः परपुरञ्जयः ।प्रायच्छत् कपिराज्यं तत् सुग्रीवाय महाबलः ।। ५.३१.१२।।।। ॥५-३१-१२॥
सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः ।दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः ।। ५.३१.१३।।।। ॥५-३१-१३॥
अहं संपातिवचनाच्छतयोजनमायतम् ।अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः ।। ५.३१.१४।।।। ॥५-३१-१४॥
यथारूपां यथावर्णां यथालक्ष्मीं च निश्चिताम् ।अश्रौषं राघवस्याहं सेयमासादिता मया ।। ५.३१.१५।।।। ॥५-३१-१५॥
विररामैव मुक्त्वा ऽसौ वाचं वानरपुङ्गवः ।जानकी चापि तच्छृत्वा विस्मयं परमं गता ।। ५.३१.१६।।।। ॥५-३१-१६॥
ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् ।उन्नम्य वदनं भीरुः शिंशुपावृक्षमैक्षत ।। ५.३१.१७।।।। ॥५-३१-१७॥
निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य ।स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ।। ५.३१.१८।।।। ॥५-३१-१८॥
सा तिर्यगूर्ध्वं च तथाप्यधस्तान्निरीक्षमाणा तमचिन्त्यबुद्धिम् ।ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् ॥५-३१-१९॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 30
- Next: Sundara-Kāṇḍa Sarga 32 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷