🪷 सुन्दरकाण्ड · Sarga 30
Sundara-Kāṇḍa · The Book of Beauty · Sarga 30 · 44 ślokas
🪷 Devanāgarī Ślokas
हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः ।सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ।। ५.३०.१।।।। ॥५-३०-१॥
अवेक्षमाणस्तां देवीं देवतामिव नन्दने ।ततो बहुविधां चिन्तां चिन्तयामास वानरः ।। ५.३०.२।।।। ॥५-३०-२॥
यां कपीनां सहस्राणि सुबहून्ययुतानि च ।दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ।। ५.३०.३।।।। ॥५-३०-३॥
चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता ।गूढेन चरता तावदवेक्षितमिदं मया ।। ५.३०.४।।।। ॥५-३०-४॥
राक्षसानां विशेषश्च पुरी चेयमवेक्षिता ।राक्षसाधिपतेरस्य प्रभावो रावणस्य च ।। ५.३०.५।।।। ॥५-३०-५॥
युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः ।समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम् ।। ५.३०.६।।।। ॥५-३०-६॥
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम् ।। ५.३०.७।।।। ॥५-३०-७॥
यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् ।अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् ।। ५.३०.८।।।। ॥५-३०-८॥
गते हि मयि तत्रेयं राजपुत्री यशस्विनी ।परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ।। ५.३०.९।।।। ॥५-३०-९॥
मया च स महाबाहुः पूर्णचन्द्रनिभाननः ।समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ।। ५.३०.१०।।।। ॥५-३०-१०॥
निशाचरीणां प्रत्यक्षमनर्हं चापि भाषणम् ।कथं तु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ।। ५.३०.११।।।। ॥५-३०-११॥
अनेन रात्रिशेषेण यदि नाश्वास्यते मया ।सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ।। ५.३०.१२।।।। ॥५-३०-१२॥
रामश्च यदि पृच्छेन्मां किं मां सीता ऽब्रवीद्वचः ।किमहं दं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ।। ५.३०.१३।।।। ॥५-३०-१३॥
सीतासन्देशरहितं मामितस्त्वरया गतम् ।निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा ।। ५.३०.१४।।।। ॥५-३०-१४॥
यदि चोद्योजयिष्यामि भर्तारं रामकारणात् ।व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ।। ५.३०.१५।।।। ॥५-३०-१५॥
अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः ।शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् ।। ५.३०.१६।।।। ॥५-३०-१६॥
अहं त्वति तनुश्चैव वानरश्च विशेषतः ।वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ।। ५.३०.१७।।।। ॥५-३०-१७॥
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।रावणं मन्यमाना मां सीता भीता भविष्यति ।वानरस्य विशेषेण कथं स्यादभिभाषणम् ।। ५.३०.१८।।।। ॥५-३०-१८॥
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ।मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ।। ५.३०.१९।।।। ॥५-३०-१९॥
सेयमालोक्य मे रूपं जानकी भाषितं तथा ।रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ।। ५.३०.२०।।।। ॥५-३०-२०॥
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ।जानमाना विशालाक्षी रावणं कामरूपिणम् ।। ५.३०.२१।।।। ॥५-३०-२१॥
सीतया च कृते शब्दे सहसा राक्षसीगणः ।नानाप्रहरणो घोरः समेयादन्तकोपमः ।। ५.३०.२२।।।। ॥५-३०-२२॥
ततो मां संपरिक्षिप्य सर्वतो विकृताननाः ।वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ।। ५.३०.२३।।।। ॥५-३०-२३॥
गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ।दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ।। ५.३०.२४।।।। ॥५-३०-२४॥
मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् ।राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ।। ५.३०.२५।।।। ॥५-३०-२५॥
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि ।राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ।। ५.३०.२६।।।। ॥५-३०-२६॥
ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः ।आपतेयुर्विमर्दे ऽस्मिन् वेगेनोद्विग्नकारिणः ।। ५.३०.२७।।।। ॥५-३०-२७॥
संरुद्धस्तैस्तु परितो विधमन् रक्षसां बलम् ।शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः ।। ५.३०.२८।।।। ॥५-३०-२८॥
मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः ।स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ।। ५.३०.२९।।।। ॥५-३०-२९॥
हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ।विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ।। ५.३०.३०।।।। ॥५-३०-३०॥
उद्देशे नष्टमार्गे ऽस्मिन् राक्षसैः परिवारिते ।सागरेण परिक्षिप्ते गुप्त वसति जानकी ।। ५.३०.३१।।।। ॥५-३०-३१॥
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ।नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने ।। ५.३०.३२।।।। ॥५-३०-३२॥
विमृशंश्च न पश्यामि यो हते मयि वानरः ।शतयोजनविस्तीर्णं लङ्गयेत महोदधिम् ।। ५.३०.३३।।।। ॥५-३०-३३॥
कामं हन्तुं समर्थो ऽस्मि सहस्राण्यपि रक्षसाम् ।नतु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः ।। ५.३०.३४।।।। ॥५-३०-३४॥
असत्यानि च युद्धानि संशयो मे न रोचते ।कश्च निस्संशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् ।। ५.३०.३५।।।। ॥५-३०-३५॥
प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ।एष दोषो महान् हि स्यान्मम सीताभिभाषणे ।। ५.३०.३६।।।। ॥५-३०-३६॥
भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ।विक्लवं दूतमासाद्य तमः सूर्योदये यथा ।। ५.३०.३७।।।। ॥५-३०-३७॥
अर्थानर्थान्तरे बुद्धिर्निश्चिता ऽपि न शोभते ।घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ।। ५.३०.३८।।।। ॥५-३०-३८॥
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् ।लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ।। ५.३०.३९।।।। ॥५-३०-३९॥
कथं नु खलु वाक्यं मे श्रुणुयान्नोद्विजेत वा ।इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम् ।। ५.३०.४०।।।। ॥५-३०-४०॥
राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ।नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् ।। ५.३०.४१।।।। ॥५-३०-४१॥
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ।शुभानि धर्मयुक्तानि वचनानि समर्पयन् ।। ५.३०.४२।।।। ॥५-३०-४२॥
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् ।श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ।। ५.३०.४३।।।। ॥५-३०-४३॥
इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः ।मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ॥५-३०-४४॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 29
- Next: Sundara-Kāṇḍa Sarga 31 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷