🪷 सुन्दरकाण्ड · Sarga 29

Sundara-Kāṇḍa · The Book of Beauty · Sarga 29 · 8 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.29.1
तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम् ।शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः ।। ५.२९.१।।।। ॥५-२९-१॥
Vālmīki 5.29.2
तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुक्लम् ।प्रास्पन्दतैकं नयनं सुकेश्यामीनाहतं पद्ममिवाभिताम्रम् ।। ५.२९.२।।।। ॥५-२९-२॥
Vālmīki 5.29.3
भुजश्च चार्वञ्चितपीनवृत्तः परार्ध्यकालागरुचन्दनार्हः ।अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु ।। ५.२९.३।।।। ॥५-२९-३॥
Vālmīki 5.29.4
गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातः ।प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात् स्थितमाचचक्षे ।। ५.२९.४।।।। ॥५-२९-४॥
Vālmīki 5.29.5
शुभं पुनर्हेमसमानवर्णमीषद्रजोध्वस्तमिवामलाक्ष्याः ।वासः स्थितायाः शिखराग्रदत्याः किंचित् परिस्रंसत चारुगात्र्याः ।। ५.२९.५।।।। ॥५-२९-५॥
Vālmīki 5.29.6
एतैर्निमित्तैरपरैश्च सुभ्रूः संबोधिता प्रागपि साधु सिद्धैः ।वातातपक्लान्तमिव प्रनष्टं वर्षेण बीजं प्रतिसंजहर्ष ।। ५.२९.६।।।। ॥५-२९-६॥
Vālmīki 5.29.7
तस्याः पुनर्बिम्बफलाधरोष्ठं स्वक्षिभ्रु केशान्तमरालपक्ष्म ।वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः ।। ५.२९.७।।।। ॥५-२९-७॥
Vālmīki 5.29.8
सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा ।अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन ॥५-२९-८॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷