🪷 सुन्दरकाण्ड · Sarga 28

Sundara-Kāṇḍa · The Book of Beauty · Sarga 28 · 20 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.28.1
सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता ।सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या ।। ५.२८.१।।।। ॥५-२८-१॥
Vālmīki 5.28.2
सा राक्षसीमध्यगता च भीरुर्वाग्भिर्भृशं रावणतर्जिता च ।कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ।। ५.२८.२।।।। ॥५-२८-२॥
Vālmīki 5.28.3
सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः ।यत्राहमेवं परिभर्त्स्यमाना जीवामि किंचित्क्षणमप्यपुण्या ।। ५.२८.३।।।। ॥५-२८-३॥
Vālmīki 5.28.4
सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे ।विशीर्यते यन्न सहस्रधा ऽद्य वज्राहतं शृङ्गमिवाचलस्य ।। ५.२८.४।।।। ॥५-२८-४॥
Vālmīki 5.28.5
नैवास्ति दोषं मम नूनमत्र वध्या ऽहमस्याप्रियदर्शनस्य ।भावं न चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवाद्विजाय ।। ५.२८.५।।।।। ॥५-२८-५॥
Vālmīki 5.28.6
नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः ।तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः ।। ५.२८.६।।।। ॥५-२८-६॥
Vālmīki 5.28.7
दुःखं बतेदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ ।बद्धस्य वध्यस्य तथा निशान्ते राजापराधादिव तस्करस्य ।। ५.२८.७।।।। ॥५-२८-७॥
Vālmīki 5.28.8
हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्या ।एषा विपद्याम्यहमल्पभाग्या माहार्णवे नौरिव मूढवाता ।। ५.२८.८।।।। ॥५-२८-८॥
Vālmīki 5.28.9
तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ ।नूनं विशस्तौ मम कारणात् तौ सिंहर्षभौ द्वाविव वैद्यतेन ।। ५.२८.९।।।। ॥५-२८-९॥
Vālmīki 5.28.10
नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम् ।यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च ।। ५.२८.१०।।।। ॥५-२८-१०॥
Vālmīki 5.28.11
हा राम सत्यव्रत दीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्र ।रा जीवलोकस्य हितः प्रियश्च वध्यां न मां वेत्सि हि राक्षसानाम् ।। ५.२८.११।।।। ॥५-२८-११॥
Vālmīki 5.28.12
अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे ।पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम् ।। ५.२८.१२।।।। ॥५-२८-१२॥
Vālmīki 5.28.13
मोघो हि धर्मश्चरितो मया ऽयं तथैकपत्नीत्वमिदं निरर्थम् ।या त्वां न पश्यामि कृशा विवर्णा हीना त्वया सङ्गमने निराशा ।। ५.२८.१३।।।। ॥५-२८-१३॥
Vālmīki 5.28.14
पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च ।स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थः ।। ५.२८.१४।।।। ॥५-२८-१४॥
Vālmīki 5.28.15
अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा ।मोघं चरित्वा ऽथ तपोव्रतं च त्यक्ष्यामि धिग् जीवितमल्पभाग्या ।। ५.२८.१५।।।। ॥५-२८-१५॥
Vālmīki 5.28.16
सा जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि ।विषस्य दाता नहि मे ऽस्ति कश्चिच्छस्त्रस्य वा वेश्मनि राक्षसस्य ।। ५.२८.१६।।।। ॥५-२८-१६॥
Vālmīki 5.28.17
इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरन्ती ।प्रवेपमाना परिशुष्कवक्त्रा नगोत्तमं पुष्पितमाससाद ।। ५.२८.१७।।।। ॥५-२८-१७॥
Vālmīki 5.28.18
शोकाभितप्ता बहुधा विचिन्त्य सीता ऽथ वेण्युद्ग्रथनं गृहीत्वा ।उद्बध्य वेण्युद्ग्रथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम् ।। ५.२८.१८।।।। ॥५-२८-१८॥
Vālmīki 5.28.19
उपस्थिता सा मृदुसर्वगात्रा शाखां गृहीत्वा ऽथ नगस्य तस्य ।। ५.२८.१९।।।। ॥५-२८-१९॥
Vālmīki 5.28.20
तस्यास्तु रामं प्रविचिन्तयन्त्या रामानुजं स्वं च कुलं शुभाङ्ग्याः ।शोकानिमित्तानि तथा बहूनि धैर्यार्जितानि प्रवराणि लोके ।प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि । ॥५-२८-२०॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷