🪷 सुन्दरकाण्ड · Sarga 27

Sundara-Kāṇḍa · The Book of Beauty · Sarga 27 · 51 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.27.1
इत्युक्ताः सीतया घोरा राक्षस्यः क्रोधमूर्च्छिताः ।काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः ।। ५.२७.१।।।। ॥५-२७-१॥
Vālmīki 5.27.2
ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः ।पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ।। ५.२७.२।।।। ॥५-२७-२॥
Vālmīki 5.27.3
अद्येदानीं तवानार्ये सीते पापविनिश्चये ।राक्षस्यो भक्षयिष्यन्ति मांसमतेद्यतासुखम् ।। ५.२७.३।।।। ॥५-२७-३॥
Vālmīki 5.27.4
सीतां ताभिरनार्याभिर्दृष्ट्वा सन्तर्जितां तदा ।राक्षसी त्रिजटा वृद्धा शयाना वाक्यमब्रवीत् ।। ५.२७.४।।।। ॥५-२७-४॥
Vālmīki 5.27.5
आत्मानं खादतानार्या न सीतां भक्षयिष्यथ ।जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ।। ५.२७.५।।।। ॥५-२७-५॥
Vālmīki 5.27.6
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।राक्षसानामभावाय भर्तुरस्या भवाय च ।। ५.२७.६।।।। ॥५-२७-६॥
Vālmīki 5.27.7
एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्च्छिताः ।सर्वा एवाब्रुवन् भीतास्त्रिजटां तामिदं वचः ।कथयस्व त्वया दृष्टः स्वप्नो ऽयं कीदृशो निशि ।। ५.२७.७।।।। ॥५-२७-७॥
Vālmīki 5.27.8
तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्च्युतम् ।उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम् ।। ५.२७.८।।।। ॥५-२७-८॥
Vālmīki 5.27.9
गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ।। ५.२७.९।।।। ॥५-२७-९॥
Vālmīki 5.27.10
युक्तां हंससहस्रेण स्वयमास्थाय राघवः ।शुक्लमाल्याम्बरधरो लक्ष्मणेन सहा गतः ।। ५.२७.१०।।।। ॥५-२७-१०॥
Vālmīki 5.27.11
स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता ।सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता ।रामेण सङ्गता सीता भास्करेण प्रभा यथा ।। ५.२७.११।।।। ॥५-२७-११॥
Vālmīki 5.27.12
राघवश्च मया दृष्टाश्चतुर्दन्तं महागजम् ।आरूढः शैलसङ्काशं चचार सह लक्ष्मणः ।। ५.२७.१२।।।। ॥५-२७-१२॥
Vālmīki 5.27.13
ततस्तौ नहशार्दूलौ दीप्यमानौ स्वतेजसा ।शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ ।। ५.२७.१३।।।। ॥५-२७-१३॥
Vālmīki 5.27.14
ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः ।भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता ।। ५.२७.१४।।।। ॥५-२७-१४॥
Vālmīki 5.27.15
भर्तुरङ्कात् समुत्पत्य ततः कमललोचना ।चन्द्रसूर्यो मया दृष्टा पाणिना परिमार्जती ।। ५.२७.१५।।।। ॥५-२७-१५॥
Vālmīki 5.27.16
ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः ।सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः ।। ५.२७.१६।।।। ॥५-२७-१६॥
Vālmīki 5.27.17
पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् ।इहोपयातः काकुत्स्थः सीतया सह भार्यया ।। ५.२७.१७।।।। ॥५-२७-१७॥
Vālmīki 5.27.18
लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान् ।। ५.२७.१८।।।। ॥५-२७-१८॥
Vālmīki 5.27.19
आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् ।उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः ।। ५.२७.१९।।।। ॥५-२७-१९॥
Vālmīki 5.27.20
एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः ।लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया * ।। ५.२७.२०।।।। ॥५-२७-२०॥
Vālmīki 5.27.21
न हि रामो महातेजाः शक्यो जेतुं सुरासुरैः ।राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव ।। ५.२७.२१।।।। ॥५-२७-२१॥
Vālmīki 5.27.22
रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः ।रक्तवासाः पिबन् मत्तः करवीरकृतस्रजः ।। ५.२७.२२।।।। ॥५-२७-२२॥
Vālmīki 5.27.23
विमानात् पुष्पकादद्य रावणः पतितो भुवि ।कृष्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः ।। ५.२७.२३।।।। ॥५-२७-२३॥
Vālmīki 5.27.24
रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ।पिबंस्तैलं हसन् नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः ।गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः ।। ५.२७.२४।।।। ॥५-२७-२४॥
Vālmīki 5.27.25
पुनरेव मया दृष्टो रावणो राक्षसेश्वरः ।पतितो ऽवाविछरा भूमौ गर्दभाद्भयमोहितः ।। ५.२७.२५।।।। ॥५-२७-२५॥
Vālmīki 5.27.26
सहसोत्थाय सम्भ्रान्तो भयार्तो मदविह्वलः ।उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन् बहु ।। ५.२७.२६।।।। ॥५-२७-२६॥
Vālmīki 5.27.27
दुर्गन्धं दुस्सहं घोरं तिमिरं नरकोपमम् ।मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः ।। ५.२७.२७।।।। ॥५-२७-२७॥
Vālmīki 5.27.28
कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिना ।काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति ।। ५.२७.२८।।।। ॥५-२७-२८॥
Vālmīki 5.27.29
एवं तत्र मया दृष्टः कुम्भकर्णौ निशाचरः ।रावणस्य सुताः सर्वे तृष्टास्तैलसमुक्षिताः ।। ५.२७.२९।।।। ॥५-२७-२९॥
Vālmīki 5.27.30
वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् ।उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् ।। ५.२७.३०।।।। ॥५-२७-३०॥
Vālmīki 5.27.31
एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः ।। ५.२७.३१।।।। ॥५-२७-३१॥
Vālmīki 5.27.32
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ।शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलङ्कृतः ।। ५.२७.३२।।।। ॥५-२७-३२॥
Vālmīki 5.27.33
आरुह्य शौलसङ्काशं मेघस्तनितनिःस्वनम् ।चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः ।चतुर्भिः सचिवैः सार्धं वैहायसमुपस्थितः ।। ५.२७.३३।।।। ॥५-२७-३३॥
Vālmīki 5.27.34
समाजश्च मया दृष्टो गीतवादित्रनिःस्वनः ।पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् ।। ५.२७.३४।।।। ॥५-२७-३४॥
Vālmīki 5.27.35
लङ्कां चेयं पुरी रम्या सवाजिरथकुञ्जरा ।सागरे पतिता दृष्टा भग्नगोपुरतोरणा ।। ५.२७.३५।।।। ॥५-२७-३५॥
Vālmīki 5.27.36
लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता ।दग्धा रामस्य दूतेन वानरेण तरस्विना ।। ५.२७.३६।।।। ॥५-२७-३६॥
Vālmīki 5.27.37
पीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः ।लङ्कायां भस्मरूक्षायां प्रविष्टा राक्षसस्त्रियः ।। ५.२७.३७।।।। ॥५-२७-३७॥
Vālmīki 5.27.38
कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः ।रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे ।। ५.२७.३८।।।। ॥५-२७-३८॥
Vālmīki 5.27.39
अपगच्छत नश्यध्वं सीतामाप स राघवः ।घातयेत् परमामर्षी सर्वैः सार्धं हि राक्षसैः ।। ५.२७.३९।।।। ॥५-२७-३९॥
Vālmīki 5.27.40
प्रियां बहुमतां भार्यां वनवासमनुव्रताम् ।भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः ।।। ५.२७.४०।।।। ॥५-२७-४०॥
Vālmīki 5.27.41
तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् ।अभियाचाम वैदैहीमेतद्धि मम रोचते ।। ५.२७.४१।।।। ॥५-२७-४१॥
Vālmīki 5.27.42
यस्यामेव विधः स्वप्नो दुःखितायां प्रदृश्यते ।सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् ।। ५.२७.४२।।।। ॥५-२७-४२॥
Vālmīki 5.27.43
भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया ।राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ।। ५.२७.४३।।।। ॥५-२७-४३॥
Vālmīki 5.27.44
प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।अलमेषा परित्रातुं राक्षस्यो महतो भयात् ।। ५.२७.४४।।।। ॥५-२७-४४॥
Vālmīki 5.27.45
अपि चास्या विशालाक्ष्या न किञ्चिदुपलक्षये ।विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षण् ।। ५.२७.४५।।।। ॥५-२७-४५॥
Vālmīki 5.27.46
छायावैगुण्यमात्रं तु शङ्केः दुःखमुपस्थितम् ।अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् ।। ५.२७.४६।।।। ॥५-२७-४६॥
Vālmīki 5.27.47
अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम् ।राक्षसेन्द्रविनाशं च विजयं राघवस्य च ।। ५.२७.४७।।।। ॥५-२७-४७॥
Vālmīki 5.27.48
निमित्तभूतमेत्तु श्रोतुमस्या महत् प्रियम् ।। ५.२७.४८।।।। ॥५-२७-४८॥
Vālmīki 5.27.49
दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् ।ईषच्च हृषितो वा ऽस्या दक्षिणाया ह्यदक्षिणः ।। ५.२७.४९।।।। ॥५-२७-४९॥
Vālmīki 5.27.50
अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते ।करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः ।वेपमानः सूचयति राघवं पुरतः स्थितम् ।। ५.२७.५०।।।। ॥५-२७-५०॥
Vālmīki 5.27.51
पक्षी च शाखानिलयः प्रहृष्टः पुनः पुनश्चोत्तमसान्त्ववादी ।सुस्वागतां वाचमुदीरयानः पुनः पुनश्चोदयतीव हृष्टः ॥५-२७-५१॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷