🪷 सुन्दरकाण्ड · Sarga 26
Sundara-Kāṇḍa · The Book of Beauty · Sarga 26 · 51 ślokas
🪷 Devanāgarī Ślokas
प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा ।अधोमुखमुखी बाला विलप्तुमुपचक्रमे ।। ५.२६.१।।।। ॥५-२६-१॥
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती ।उपावृत्ता किशोरीव विवेष्टन्ती महीतले ।। ५.२६.२।।।। ॥५-२६-२॥
राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा ।रावणेन प्रमथ्याहमानीता क्रोशती बलात् ।। ५.२६.३।।।। ॥५-२६-३॥
राक्षसीवशमापन्ना भर्त्स्यमाना सुदारुणम् ।चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ।। ५.२६.४।।।। ॥५-२६-४॥
नहि मे जीवितैरर्थो नैवार्थैर्न च भूषणैः ।वसन्त्या राक्षसीमध्ये विना रामं महारथम् ।। ५.२६.५।।।। ॥५-२६-५॥
अश्मसारमिदं नूनमथवाप्यजरामरम् ।हृदयं मम येनेदं न दुःखेनावशीर्यते ।। ५.२६.६।।।। ॥५-२६-६॥
धिङ्मामनार्यामसतीं या ऽहं तेन विना कृता ।मुहूर्तमपि रक्षामि जीवितं पापजीविता ।। ५.२६.७।।।। ॥५-२६-७॥
का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना ।भर्तारं सागरान्ताया वसुधायाः प्रियंवदम् ।। ५.२६.८।।।। ॥५-२६-८॥
भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् ।न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ।। ५.२६.९।।।। ॥५-२६-९॥
चरणेनापि सव्येन न स्पृशेयं निशाचरम् ।रावणं किं पुनरहं कामयेयं विगर्हितम् ।। ५.२६.१०।।।। ॥५-२६-१०॥
प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् ।यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति ।। ५.२६.११।।।। ॥५-२६-११॥
छिन्ना भिन्ना विभक्ता वा दीप्तेवाग्नौ प्रदीपिता ।रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् ।। ५.२६.१२।।।। ॥५-२६-१२॥
ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः ।सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ।। ५.२६.१३।।।। ॥५-२६-१३॥
राक्षसानां सहस्राणि जनस्थाने चतुर्दश ।येनैकेन निरस्तानि स मां किं नाभिपद्यते ।। ५.२६.१४।।।। ॥५-२६-१४॥
निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा ।समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ।। ५.२६.१५।।।। ॥५-२६-१५॥
विराधो दण्डकारण्ये येन राक्षसपुङ्गवः ।रणे रामेण निहतः स मां किं नाभिपद्यते ।। ५.२६.१६।।।। ॥५-२६-१६॥
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा ।न तु राघवबाणानां गतिरोधीह विद्यते ।। ५.२६.१७।।।। ॥५-२६-१७॥
किं तु तत्कारणं येन रामो दृढपराक्रमः ।रक्षसा ऽपहृतां भार्यामिष्टां नाभ्यवपद्यते ।। ५.२६.१८।।।। ॥५-२६-१८॥
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः ।जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति ।। ५.२६.१९।।।। ॥५-२६-१९॥
हृतेति यो ऽधिगत्वा मां राघवाय निवेदयेत् ।गृध्रराजो ऽपि स रणे रावणेन निपातितः ।। ५.२६.२०।।।। ॥५-२६-२०॥
कृतं कर्म महत्तेन मां तथा ऽभ्यवपद्यता ।तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ।। ५.२६.२१।।।। ॥५-२६-२१॥
यदि मामिह जानीयाद्वर्तमानां स राघवः ।अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम् ।। ५.२६.२२।।।। ॥५-२६-२२॥
विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् ।रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ।। ५.२६.२३।।।। ॥५-२६-२३॥
ततो निहतनाथानां राक्षसीनां गृहे गृहे ।यथा ऽहमेवं रुदती तथा भूयो न संशयः ।। ५.२६.२४।।।। ॥५-२६-२४॥
अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः ।न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ।। ५.२६.२५।।।। ॥५-२६-२५॥
चिताधूमाकुलपथा गृध्रमण्डलसङ्कुला ।अतिरेण तु लङ्केयं श्मशानसदृशी भवेत् ।। ५.२६.२६।।।। ॥५-२६-२६॥
अचिरेणैव कालेन प्रप्स्याम्येव मनोरथम् ।दुष्प्रस्थानो ऽयमाख्याति सर्वेषां वो विपर्ययम् ।। ५.२६.२७।।।। ॥५-२६-२७॥
यादृशानीह दृश्यन्ते लङ्कायामशुभानि वै ।अचिरेण तु कालेन भविष्यति हतप्रभा ।। ५.२६.२८।।।। ॥५-२६-२८॥
नूनं लङ्का हते पापे रावणे राक्षसाधमे ।शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ।। ५.२६.२९।।।। ॥५-२६-२९॥
पुण्योत्सवसमुत्था च नष्टभर्त्री सराक्षसी ।भविष्यति पुरी लङ्का नष्टभर्त्री यथा ऽङ्गना ।। ५.२६.३०।।।। ॥५-२६-३०॥
नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे ।श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ।। ५.२६.३१।।।। ॥५-२६-३१॥
सान्धकारा हतद्योता हतराक्षसपुङ्गवा ।भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ।। ५.२६.३२।।।। ॥५-२६-३२॥
यदि नाम स शूरो मां रामो रक्तान्तलोचनः ।जानीयाद्वर्तमानां हि रावणस्य निवेशने ।। ५.२६.३३।।।। ॥५-२६-३३॥
अनेन तु नृशंसेन रावणेनाधमेन मे ।समयो यस्तु निर्दिष्टस्तस्य कालो ऽयमागतः ।। ५.२६.३४।।।। ॥५-२६-३४॥
अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः ।अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ।। ५.२६.३५।।।। ॥५-२६-३५॥
नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः ।ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ।। ५.२६.३६।।।। ॥५-२६-३६॥
सा ऽहं कथं करिष्यामि तं विना प्रियदर्शनम् ।रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ।। ५.२६.३७।।।। ॥५-२६-३७॥
यदि कश्चित् प्रदाता मे विषस्याद्य भवेदिह ।क्षिप्रं वैवस्वतं देव पश्येयं पतिना विना ।। ५.२६.३८।।।। ॥५-२६-३८॥
नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः ।जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् ।। ५.२६.३९।।।। ॥५-२६-३९॥
नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः ।देवलोकमितो यातस्त्यक्त्वा देहं महीतले ।। ५.२६.४०।।।। ॥५-२६-४०॥
धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ।। ५.२६.४१।।।। ॥५-२६-४१॥
अथवा नहि तस्यार्थो धर्मकामस्य धीमतः ।मया रामस्य राजर्षेर्भार्यया परमात्मनः ।। ५.२६.४२।।।। ॥५-२६-४२॥
दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यपश्यतः ।नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति ।। ५.२६.४३।।।। ॥५-२६-४३॥
किन्नु मे न गुणाः केचित् किंवा भाग्यक्षयो मम ।या ऽहं सीदामि रामेण हीना मुख्येन भामिनी ।। ५.२६.४४।।।। ॥५-२६-४४॥
श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मनः ।रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ।। ५.२६.४५।।।। ॥५-२६-४५॥
अथवा न्यस्तशस्त्रौ तौ वने मुलफलाशिनौ ।भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ ।। ५.२६.४६।।।। ॥५-२६-४६॥
अथवा राक्षसेन्द्रेण रावणेन दुरात्मना ।छद्मना सादितौ शूरौ भ्रातरौ रामलक्ष्मणौ ।। ५.२६.४७।।।। ॥५-२६-४७॥
सा ऽहमेवं गते काले मर्तुमिच्छामि सर्वथा ।न च मे विहितो मृत्युरस्मिन् दुःखे ऽपि वर्तति ।। ५.२६.४८।।।। ॥५-२६-४८॥
धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः ।जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ।। ५.२६.४९।।।। ॥५-२६-४९॥
प्रियान्न संभवेद्दुःखमप्रियादधिकं भयम् ।ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ।। ५.२६.५०।।।। ॥५-२६-५०॥
सा ऽहं त्यक्ता प्रियेणेह रामेण विदितात्मना ।प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ॥५-२६-५१॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 25
- Next: Sundara-Kāṇḍa Sarga 27 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷