🪷 सुन्दरकाण्ड · Sarga 44

Sundara-Kāṇḍa · The Book of Beauty · Sarga 44 · 20 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 5.44.1
सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ।जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ।। ५.४४.१।।।। ॥५-४४-१॥
Vālmīki 5.44.2
रक्तमाल्याम्बरधरः स्रग्वी रुचिरगुण्डलः ।महान् विवृत्तनयनश्चण्डः समरदुर्जयः ।। ५.४४.२।।।। ॥५-४४-२॥
Vālmīki 5.44.3
धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम् ।विस्फारयानो वेगेन वज्राशनिसमस्वनम् ।। ५.४४.३।।।। ॥५-४४-३॥
Vālmīki 5.44.4
तस्य विस्फारघोषेण धनुषो महता दिशः ।प्रदिशश्च नभश्चैव सहसा समपूर्यत ।। ५.४४.४।।।। ॥५-४४-४॥
Vālmīki 5.44.5
रथेन खरयुक्तेन तमागतमुदीक्ष्य सः ।हनुमान् वेगसम्पन्नौ जहर्ष च ननाद च ।। ५.४४.५।।।। ॥५-४४-५॥
Vālmīki 5.44.6
तं तोरणविटङ्कस्थं हनुमन्तं महाकिपम् ।जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ।। ५.४४.६।।।। ॥५-४४-६॥
Vālmīki 5.44.7
अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना ।बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ।। ५.४४.७।।।। ॥५-४४-७॥
Vālmīki 5.44.8
तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् ।शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ।। ५.४४.८।।।। ॥५-४४-८॥
Vālmīki 5.44.9
तत्तस्य रक्तं रक्तेन ऽञ्जितं शुशुभे मुखम् ।यथा ऽ ऽकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ।। ५.४४.९।।।। ॥५-४४-९॥
Vālmīki 5.44.10
चुकोप बाणाभिहतो राक्षसस्य महाकपिः ।। ५.४४.१०।।।। ॥५-४४-१०॥
Vālmīki 5.44.11
ततः पार्श्वे ऽतिविपुला ददर्श महतीं शिलाम् ।तरसा तां समुत्पाट्य चिक्षेप बलवद्बली ।तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ।। ५.४४.११।।।। ॥५-४४-११॥
Vālmīki 5.44.12
विपन्नं कर्म तद् दृष्ट्वा हनुमांश्चण्डविक्रमः ।सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ।। ५.४४.१२।।।। ॥५-४४-१२॥
Vālmīki 5.44.13
भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् ।चिक्षेप सुबहून् बाणान् जम्बुमाली महाबलः ।। ५.४४.१३।।।। ॥५-४४-१३॥
Vālmīki 5.44.14
सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे ।उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ।। ५.४४.१४।।।। ॥५-४४-१४॥
Vālmīki 5.44.15
स शरैः पूरिततनुः क्रोधेन महता वृतः ।तमेव परिघं गृह्य भ्रामयामास वेगतः ।। ५.४४.१५।।।। ॥५-४४-१५॥
Vālmīki 5.44.16
अतिवेगो ऽतिवेगेन भ्रामयित्वा बलोत्कटः ।परिघं पातयामास जम्बुमालेर्महोरसि ।। ५.४४.१६।।।। ॥५-४४-१६॥
Vālmīki 5.44.17
तस्य चैव शिरो नास्ति न बाहू न च जानुनी ।न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ।। ५.४४.१७।।।। ॥५-४४-१७॥
Vālmīki 5.44.18
स हतस्तरसा तेन जम्बुमाली महाबलः ।पपात निहतो भूमौ चूर्णिताङ्गविभूषणः ।। ५.४४.१८।।।। ॥५-४४-१८॥
Vālmīki 5.44.19
जम्बुमालिं च निहतं किङ्करांश्च महाबलान् ।चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ।। ५.४४.१९।।।। ॥५-४४-१९॥
Vālmīki 5.44.20
स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले ।अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः ॥५-४४-२०॥

Navigation

Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷