🪷 सुन्दरकाण्ड · Sarga 45
Sundara-Kāṇḍa · The Book of Beauty · Sarga 45 · 17 ślokas
🪷 Devanāgarī Ślokas
ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः ।निर्युयुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ।। ५.४५.१।।।। ॥५-४५-१॥
महाबलपरीवारा धनुष्मन्तो महाबलाः ।कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ।। ५.४५.२।।।। ॥५-४५-२॥
हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः ।तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ।। ५.४५.३।।।। ॥५-४५-३॥
तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः ।विस्फारयन्तः संहृष्टास्तडित्वन्त इवाम्बुदाः ।। ५.४५.४।।।। ॥५-४५-४॥
जनन्यस्तु ततस्तेषां विदित्वा किङ्करान् हतान् ।बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ।। ५.४५.५।।।। ॥५-४५-५॥
ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः ।अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ।। ५.४५.६।।।। ॥५-४५-६॥
सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः ।वृष्टिमन्त इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः ।। ५.४५.७।।।। ॥५-४५-७॥
अवकीर्णस्ततस्ताभिर्हनुमाञ्छरवृष्टिभिः ।अभवत् संवृताकारः शैलराडिव वृष्टिभिः ।। ५.४५.८।।।। ॥५-४५-८॥
स शरान् मोघयामास तेषामाशुचरः कपिः ।रथवेगं च वीराणां विचरन् विमले ऽम्बरे ।। ५.४५.९।।।। ॥५-४५-९॥
स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते ।धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ।। ५.४५.१०।।।। ॥५-४५-१०॥
स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् ।चकार हनुमान् वेगं तेषु रक्षस्सु वीर्यवान् ।। ५.४५.११।।।। ॥५-४५-११॥
तलेनाभ्यहनत् कांश्चित् पादैः कांश्चित् परन्तपः ।मुष्टिना ऽभ्यहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत् ।। ५.४५.१२।।।। ॥५-४५-१२॥
प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः ।केचित्तस्य निनादेन तत्रैव पतिता भुवि ।। ५.४५.१३।।।। ॥५-४५-१३॥
ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च ।तत्सैन्यमगमत्सर्वं दिशो भयार्दितम् ।। ५.४५.१४।।।। ॥५-४५-१४॥
विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः ।भग्ननीडध्वजच्छत्त्रैर्भूश्च कीर्णा ऽभवद्रथैः ।। ५.४५.१५।।।। ॥५-४५-१५॥
स्रवता रुधिरेणाथस्रवन्त्यो दर्शिताः पथि ।विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा ।। ५.४५.१६।।।। ॥५-४५-१६॥
स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः ।युयुत्सुरन्यैः पुनरेव राक्षसैस्तमेव वीरो ऽभिजगाम तोरणम् ॥५-४५-१७॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 44
- Next: Sundara-Kāṇḍa Sarga 46 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷