🪷 सुन्दरकाण्ड · Sarga 46
Sundara-Kāṇḍa · The Book of Beauty · Sarga 46 · 39 ślokas
🪷 Devanāgarī Ślokas
हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना ।रावणः संवृताकारश्चकार मतिमुत्तमाम् ।। ५.४६.१।।।। ॥५-४६-१॥
स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् ।प्रघसं भारकर्णं च पञ्च सेनाग्रनायकान् ।। ५.४६.२।।।। ॥५-४६-२॥
सन्दिदेश दशग्रीवो वीरान्नयविशारदान् ।हनुमद्ग्रहणव्यग्रान् वायुवेगसमान् युधि ।। ५.४६.३।।।। ॥५-४६-३॥
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः ।सवाजिरथमातङ्गाः स कपिः शास्यतामिति ।। ५.४६.४।।।। ॥५-४६-४॥
यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् ।कर्म चापि समाधेयं देशकालविरोधिनम् ।। ५.४६.५।।।। ॥५-४६-५॥
न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ।सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ।भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् ।। ५.४६.६।।।। ॥५-४६-६॥
सनागयक्षगन्धर्वा देवासुरमहर्षयः ।युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः ।। ५.४६.७।।।। ॥५-४६-७॥
तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः ।तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम् ।। ५.४६.८।।।। ॥५-४६-८॥
नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः ।दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः ।। ५.४६.९।।।। ॥५-४६-९॥
वाली च सहसुग्रीवो जाम्बवांश्च महाबलः ।नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः ।। ५.४६.१०।।।। ॥५-४६-१०॥
नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः ।न मतिर्न बलोत्साहौ न रूपपरिकल्पनम् ।। ५.४६.११।।।। ॥५-४६-११॥
महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ।प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः ।। ५.४६.१२।।।। ॥५-४६-१२॥
कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ।भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ।। ५.४६.१३।।।। ॥५-४६-१३॥
तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे ।आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ।। ५.४६.१४।।।। ॥५-४६-१४॥
ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ।समुत्पेतुर्महावेगा हुताशसमतेजसः ।। ५.४६.१५।।।। ॥५-४६-१५॥
रथैर्मत्तैश्च मातङ्गैर्वाजिभिश्च महाजवैः ।श्स्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः ।। ५.४६.१६।।।। ॥५-४६-१६॥
ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् ।रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ।। ५.४६.१७।।।। ॥५-४६-१७॥
तोरणस्थं महोत्साहं महासत्त्वं महाबलम् ।महामतिं महावेगं महाकायं महाबलम् ।। ५.४६.१८।।।। ॥५-४६-१८॥
तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ।तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ।। ५.४६.१९।।।। ॥५-४६-१९॥
तस्य पञ्चायसास्तीक्ष्णाः शिताः पीतमुखाः शराः ।शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः ।। ५.४६.२०।।।। ॥५-४६-२०॥
स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः ।उत्पपात नदन् व्योम्नि दिशो दश विनादयन् ।। ५.४६.२१।।।। ॥५-४६-२१॥
ततस्तु दुर्धरो वीरः सरथः सज्यकार्मुकः ।किरन् शरशतैस्तीक्ष्णैरभिपेदे महाबलः ।। ५.४६.२२।।।। ॥५-४६-२२॥
स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् ।वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ।। ५.४६.२३।।।। ॥५-४६-२३॥
अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः ।चकार कदनं भूयो व्यवर्धत च वेगवान् ।। ५.४६.२४।।।। ॥५-४६-२४॥
स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ।निपपात महवेगो विद्युद्राशिर्गिराविव ।। ५.४६.२५।।।। ॥५-४६-२५॥
ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम् ।विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः ।। ५.४६.२६।।।। ॥५-४६-२६॥
तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि ।सञ्जातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ ।। ५.४६.२७।।।। ॥५-४६-२७॥
स ताभ्यां सहसोत्पत्य विष्ठितो विमले ऽम्बरे ।मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ।। ५.४६.२८।।।। ॥५-४६-२८॥
तयोर्वेगवतोर्वेगं विनिहत्य महाबलः ।निपपात पुनर्भूमौ सुपर्णसमविक्रमः ।। ५.४६.२९।।।। ॥५-४६-२९॥
स सालवृक्षमासाद्य तमुत्पाट्य च वानरः ।तावुभौ राक्षसौ वीरौ जघान पवनात्मजः ।। ५.४६.३०।।।। ॥५-४६-३०॥
ततस्तांस्त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना ।अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् ।। ५.४६.३१।।।। ॥५-४६-३१॥
भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान् ।एकतः कपिशार्दूलं यशस्विनमवस्थितम् ।। ५.४६.३२।।।। ॥५-४६-३२॥
पट्टिशेन शिताग्रेण प्रघसः प्रत्ययोधयत् ।भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् ।। ५.४६.३३।।।। ॥५-४६-३३॥
स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः ।अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः ।। ५.४६.३४।।।। ॥५-४६-३४॥
समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ।जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः ।। ५.४६.३५।।।। ॥५-४६-३५॥
ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु ।बलं तदवशेषं च नाशयास वानरः ।। ५.४६.३६।।।। ॥५-४६-३६॥
अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान् ।स कपिर्नाशयामास सहस्राक्ष इवासुरान् ।। ५.४६.३७।।।। ॥५-४६-३७॥
हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः ।हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ।। ५.४६.३८।।।। ॥५-४६-३८॥
ततः कपिस्तान् ध्वजिनीपतीन् रणे निहत्य वीरान् सबलान् सवाहनान् ।समीक्ष्य वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये ॥५-४६-३९॥
Navigation
- ← Previous: Sundara-Kāṇḍa Sarga 45
- Next: Sundara-Kāṇḍa Sarga 47 →
- Sundara-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Sundara-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷