🪷 किष्किन्धाकाण्ड · Sarga 62

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 62 · 15 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.62local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.62.1
एवम् उक्त्वा मुनिश्रेष्ठम् अरुदम् भृश दुःखितः ।अथ ध्यात्वा मुहूर्तम् तु भगवान् इदम् अब्रवीत् ॥४-६२-१॥
Vālmīki 4.62.2
पक्षौ च ते प्रपक्षौ च पुनः अन्यौ भविष्यतः ।चक्षुषी चैव प्राणाः च विक्रमः च बलम् च ते ॥४-६२-२॥
Vālmīki 4.62.3
पुराणे सुमहत् कार्यम् भविष्यम् हि मया श्रुतम् ।दृष्टम् मे तपसा चैव श्रुत्वा च विदितम् मम ॥४-६२-३॥
Vālmīki 4.62.4
राजा दशरथो नाम कश्चित् इक्ष्वाकु वर्धनः ।तस्य पुत्रो महातेजा रामो नाम भविष्यति ॥४-६२-४॥
Vālmīki 4.62.5
अरण्यम् च सह भ्रात्रा लक्ष्मणेन गमिष्यति ।तस्मिन् अर्थे नियुक्तः सन् पित्रा सत्य पराक्रमः ॥४-६२-५॥
Vālmīki 4.62.6
नैर्ऋतो रावणो नाम तस्य भार्याम् हरिष्यति ।राक्षसेन्द्रो जनस्थानात् अवध्यः सुर दानवैः ॥४-६२-६॥
Vālmīki 4.62.7
सा च कामैः प्रलोभ्यन्ती भक्ष्यैः भोज्यैः च मैथिली ।न भोक्ष्यति महाभागा दुःख मग्ना यशस्विनी ॥४-६२-७॥
Vālmīki 4.62.8
परमान्नम् च वैदेह्या ज्ञात्वा दास्यति वासवः ।यत् अन्नम् अमृत प्रख्यम् सुराणाम् अपि दुर्लभम् ॥४-६२-८॥
Vālmīki 4.62.9
तत् अन्नम् मैथिली प्राप्य विज्ञाय इन्द्रात् इदम् तु इति ।अग्रम् उद्धृत्य रामाय भू तले निर्वपिष्यति ॥४-६२-९॥
Vālmīki 4.62.10
यदि जीवति मे भर्ता लक्ष्मणो वा अपि देवरः ।देवत्वम् गतयोः वा अपि तयोः अन्नम् इदम् तु इति ॥४-६२-१०॥
Vālmīki 4.62.11
एष्यन्ति प्रेषिताः तत्र राम दूताः प्लवंगमाः ।आख्येया राम महिषी त्वया तेभ्यो विहंगम ॥४-६२-११॥
Vālmīki 4.62.12
सर्वथा तु न गंतव्यम् ईदृशः क्व गमिष्यसि ।देश कालौ प्रतीक्षस्व पक्षौ त्वम् प्रतिपत्स्यसे ॥४-६२-१२॥
Vālmīki 4.62.13
उत्सहेयम् अहम् कर्तुम् अद्य एव त्वाम् स पक्षकम् ।इह स्थः त्वम् तु लोकानाम् हितम् कार्यम् करिष्यसि ॥४-६२-१३॥
Vālmīki 4.62.14
त्वया अपि खलु तत् कार्यम् तयोः च नृप पुत्रयोः ।ब्राह्मणानाम् गुरूणाम् च मुनीनाम् वासवस्य च ॥४-६२-१४॥
Vālmīki 4.62.15
इच्छामि अहम् अपि द्रष्टुम् भ्रातरौ राम लक्ष्मणौ ।न इच्छे चिरम् धारयितुम् प्राणान् त्यक्ष्ये कलेवरम् ।महर्षि तु तत् अब्रवीत् इदम् दृष्ट तत्त्व अर्थ दर्शिनः ॥४-६२-१५॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷