🪷 किष्किन्धाकाण्ड · Sarga 61
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 61 · 17 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.61local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ततः तत् दारुणम् कर्म दुष्करम् साहसात् कृतम् ।आचचक्षे मुनेः सर्वम् सूर्य अनुगमनम् तथा ॥४-६१-१॥
भगवन् व्रण युक्तत्वात् लज्जया च अकुल इन्द्रियः ।परिश्रान्तो न शक्नोमि वचनम् परिभाषितुम् ॥४-६१-२॥
अहम् चैव जटायुः च संघर्षात् दर्प मोहितौ ।आकाशम् पतितौ दूरात् जिज्ञासन्तौ पराक्रमम् ॥४-६१-३॥
कैलास शिखरे बद्ध्वा मुनीनाम् अग्रतः पणम् ।रविः स्यात् अनुयातव्यो यावत् अस्तम् महागिरिम् ॥४-६१-४॥
अपि आवाम् युगपत् प्राप्तौ अपश्याव मही तले ।रथ चक्र प्रमाणानि नगराणि पृथक् पृथक् ॥४-६१-५॥
क्वचित् वादित्र घोषः च क्वचित् भूषण निःस्वनः ।गायन्तीः स्म अंगना बह्वीः पश्यावो रक्त वाससः ॥४-६१-६॥
तूर्णम् उत्पत्य च आकाशम् आदित्य पथम् आस्थितौ ।आवाम् आलोकयावः तत् वनम् शाद्वल संस्थितम् ॥४-६१-७॥
उपलैः इव संछन्ना दृश्यते भूः शिल उच्चयैः ।आपगाभिः च संवीता सूत्रैः इव वसुंधरा ॥४-६१-८॥
हिमवान् चैव विन्ध्यः च मेरुः च सुमहान् गिरिः ।भू तले संप्रकाशन्ते नागा इव जल आशये ॥४-६१-९॥
तीव्रः स्वेदः च खेदः च भयम् च आसीत् तदा अवयोः ।समाविशत मोहः च ततो मूर्च्छा च दारुणा ॥४-६१-१०॥
न च दिक् ज्ञायते याम्या न आग्नेयी न च वारुणी ।युग अन्ते नियतो लोको हतो दग्ध इव अग्निना ॥४-६१-११॥
मनः च मे हतम् भूयः चक्षुः प्राप्य तु संश्रयम् ।यत्नेन महता हि अस्मिन् मनः संधाय चक्षुषी ॥४-६१-१२॥
यत्नेन महता भूयो भास्करः प्रतिलोकितः ।तुल्यः पृथ्वी प्रमाणेन भास्करः प्रतिभाति नौ ॥४-६१-१३॥
जटायुः माम् अनापृच्छ्य निपपात महीम् ततः ।तम् दृष्ट्वा तूर्णम् आकाशात् आत्मानम् मुक्तवान् अहम् ॥४-६१-१४॥
पक्षभ्याम् च मया गुप्तो जटायुः न प्रदह्यत ।प्रमादात् तत्र निर्दग्धः पतन् वायु पथात् अहम् ॥४-६१-१५॥
आशन्के तम् निपतितम् जनस्थाने जटायुषम् ।अहम् तु पतितो विन्ध्ये दग्ध पक्षो जडी कृतः ॥४-६१-१६॥
राज्यात् हीनो भ्रात्रा च पक्षाभ्याम् विक्रमेण च ।सर्वथा मर्तुम् एव इच्छन् पतिष्ये शिखरात् गिरेः ॥४-६१-१७॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 60
- Next: Kiṣkindhā-Kāṇḍa Sarga 62 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷