🪷 किष्किन्धाकाण्ड · Sarga 60
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 60 · 21 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.60local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ततः कृत उदकम् स्नातम् तम् गृध्रम् हरि यूथपाः ।उपविष्टा गिरौ रम्ये परिवार्य समन्ततः ॥४-६०-१॥
तम् अंगदम् उपासीनम् तैः सर्वैः हरिभिः वृतम् ।जनित प्रत्ययो हर्षात् संपातिः पुनः अब्रवीत् ॥४-६०-२॥
कृत्वा निःशब्दम् एक अग्राः शृण्वन्तु हरयो मम ।तथ्यम् संकीर्तयिष्यामि यथा जानामि मैथिलीम् ॥४-६०-३॥
अस्य विन्ध्यस्य शिखरे पतितो अस्मि पुरा अनघ ।सूर्य ताप परीत अंगो निर्दग्धः सूर्य रश्मिभिः ॥४-६०-४॥
लब्ध संज्ञः तु षड् रात्रात् विवशो विह्वलन् इव ।वीक्षमाणो दिशः सर्वा न अभिजानामि किंचन ॥४-६०-५॥
ततः तु सागरान् शैलान् नदीः सर्वाः सरांसि च ।वनानि च प्रदेशान् च समीक्ष्य मतिः आगताम् ॥४-६०-६॥
हृष्ट पक्षि गण आकीर्णः कन्दर उदर कूटवान् ।दक्षिणस्य उदधेः तीरे विन्ध्यो अयम् इति निश्चितः ॥४-६०-७॥
आसीत् च अत्र आश्रमम् पुण्यम् सुरैः अपि सुपूजितम् ।ऋषिः निशाकरो नाम यस्मिन् उग्र तपा अभवत् ॥४-६०-८॥
अष्टौ वर्ष सहस्राणि तेन अस्मिन् ऋषिणा गिरौ ।वसतो मम धर्मज्ञो स्वर् गते तु निशाकरे ॥४-६०-९॥
अवतीर्य च विन्ध्य अग्रात् कृच्छ्रेण विषमात् शनैः ।तीक्ष्ण दर्भाम् वसुमतीम् दुःखेन पुनर् आगतः ॥४-६०-१०॥
तम् ऋषिम् द्रष्टु कामो अस्मि दुःखेन अभ्यागतो भृशम् ।जटायुषा मया चैव बहुशो अभिगतो हि सः ॥४-६०-११॥
तस्य आश्रम पदाभ्याशे ववुः वाताः सुगन्धिनः ।वृक्षो न अपुष्पितः कश्चित् अफलो वा न दृश्यते ॥४-६०-१२॥
उपेत्य च आश्रमम् पुण्यम् वृक्ष मूलम् उपाश्रितः ।द्रष्टु कामः प्रतीक्षे च भगवंतम् निशाकरम् ॥४-६०-१३॥
अथ पश्यमि दूरस्थम् ऋषिम् ज्वलित तेजसम् ।कृत अभिषेकम् दुर्धर्षम् उपावृत्तम् उदन् मुखम् ॥४-६०-१४॥
तम् ऋक्षाः सृमरा व्याघ्राः सिंहा नाना सरीसृपाः ।परिवार्य उपगच्छन्ति दातारम् प्राणिनो यथा ॥४-६०-१५॥
ततः प्राप्तम् ऋषिम् ज्ञात्वा तानि सत्त्वानि वै ययुः ।प्रविष्टे राजनि यथा सर्वम् स अमात्यकम् बलम् ॥४-६०-१६॥
ऋषिः तु दृष्ट्वा माम् तुष्टः प्रविष्टः च आश्रमम् पुनः ।मुहूर्त मात्रान् निर्गम्य ततः कार्यम् अपृच्छत ॥४-६०-१७॥
सौम्य वैकल्यताम् दृष्ट्वा रोम्णाम् ते न अवगम्यते ।अग्नि दग्धौ इमौ पक्षौ प्राणाः चापि शरीरके ॥४-६०-१८॥
गृध्रौ द्वौ दृष्ट पूर्वौ मे मातरिश्व समौ जवे ।गृध्राणाम् चैव राजानौ भ्रातरौ काम रूपिणौ ॥४-६०-१९॥
ज्येष्ठो अवित स्त्वम् तु संपाते जटायुः अनुजः तव ।मानुषम् रूपम् आस्थाय गृह्णीताम् चरणौ मम ॥४-६०-२०॥
किम् ते व्याधि समुत्थानम् पक्षयोः पतनम् कथम् ।दण्डो वा अयम् धृतः केन सर्वम् आख्याहि पृच्छतः ॥४-६०-२१॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 59
- Next: Kiṣkindhā-Kāṇḍa Sarga 61 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷