🪷 किष्किन्धाकाण्ड · Sarga 59

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 59 · 28 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.59local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.59.1
ततः तत् अमृत आस्वादम् गृध्र राजेन भाषितम् ।निशम्य मुदितो हृष्टाः ते वचः प्लवगर्षभाः ॥४-५९-१॥
Vālmīki 4.59.2
जांबवान् वानर श्रेष्ठः सह सर्वैः प्लवंगमैः ।भू तलात् सहसा उत्थाय गृध्र राजानम् अब्रवीत् ॥४-५९-२॥
Vālmīki 4.59.3
क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् ।तत् आख्यातु भवान् सर्वम् गतिः भव वन ओकसाम् ॥४-५९-३॥
Vālmīki 4.59.4
को दाशरथि बाणानाम् वज्र वेग निपातिनाम् ।स्वयम् लक्ष्मणम् मुक्तानाम् न चिंतयति विक्रमम् ॥४-५९-४॥
Vālmīki 4.59.5
स हरीन् प्रति संयुक्तान् सीता श्रुति समाहितान् ।पुनः आश्वासयन् प्रीत इदम् वचनम् अब्रवीत् ॥४-५९-५॥
Vālmīki 4.59.6
श्रूयताम् इह वैदेह्या यथा मे हरणम् श्रुतम् ।येन च अपि मम आख्यातम् यत्र च आयत लोचना ॥४-५९-६॥
Vālmīki 4.59.7
अहम् अस्मिन् गिरौ दुर्गे बहु योजनम् आयते ।चिरात् निपतितो वृद्धः क्षीण प्राण पराक्रमः ॥४-५९-७॥
Vālmīki 4.59.8
तम् माम् एवम् गतम् पुत्रः सुपार्श्वो नाम नामतः ।आहारेण यथा कालम् बिभर्ति पतताम् वरः ॥४-५९-८॥
Vālmīki 4.59.9
तीक्ष्ण कामाः तु गंधर्वाः तीक्ष्ण कोपा भुजंगमाः ।मृगाणाम् तु भयम् तीक्ष्णम् ततः तीक्ष्ण क्षुधा वयम् ॥४-५९-९॥
Vālmīki 4.59.10
स कदाचित् क्षुधा आर्तस्य मम आहार कान्क्षिणः ।गत सूर्यो अहनि प्राप्तो मम पुत्रो हि अनामिषः ॥४-५९-१०॥
Vālmīki 4.59.11
स मया आहार संरोधात् पीडितः प्रीति वर्धनः ।अनुमान्य यथा तत्त्वम् इदम् वचनम् अब्रवीत् ॥४-५९-११॥
Vālmīki 4.59.12
अहम् तात यथा कालम् आमिष अर्थी खम् आप्लुतः ।महेन्द्रस्य गिरेः द्वारम् आवृत्य च सुसमाश्रितः ॥४-५९-१२॥
Vālmīki 4.59.13
तत्र सत्त्व सहस्राणाम् सागर अन्तर चारिणाम् ।पंथानम् एको अध्यवसम् संनिरोद्धुम् अवाङ् मुखः ॥४-५९-१३॥
Vālmīki 4.59.14
तत्र कश्चित् मया दृष्टः सूर्य उदय सम प्रभाम् ।स्त्रियम् आदाय गच्छन् वै भिन्न अंजन चय उपमः ॥४-५९-१४॥
Vālmīki 4.59.15
सो अहम् अभ्यवहार अर्थम् तौ दृष्ट्वा कृत निश्चयः ।तेन साम्ना विनीतेन पन्थानम् अनुयाचितः ॥४-५९-१५॥
Vālmīki 4.59.16
न हि साम उपपन्नानाम् प्रहर्ता विद्यते भुवि ।नीचेषु अपि जनः कश्चित् किम् अङ्ग बत मत् विधः ॥४-५९-१६॥
Vālmīki 4.59.17
स यातः तेजसा व्योम संक्षिपन् इव वेगतः ।अथ अहम् खे चरैः भूतैः अभिगम्य सभाजितः ॥४-५९-१७॥
Vālmīki 4.59.18
दिष्ट्या जीवति सीत इति हि अब्रुवन् माम् महर्षयः ।कथंचित् स कलत्रः असौ गतः ते स्वस्ति असंशयम् ॥४-५९-१८॥
Vālmīki 4.59.19
एवम् उक्तः ततो अहम् तैः सिद्धैः परम शोभनैः ।स च मे रावणो राजा रक्षसाम् प्रतिवेदितः ॥४-५९-१९॥
Vālmīki 4.59.20
पश्यन् दाशरथेः भार्याम् रामस्य जनक आत्मजाम् ।भ्रष्ट आभरण कौशेयाम् शोक वेग पराजिताम् ॥४-५९-२०॥
Vālmīki 4.59.21
राम लक्ष्मणयोः नाम क्रोशन्तीम् मुक्त मूर्धजाम् ।एष काल अत्ययः तात इति वाक्यविदाम् वरः ॥४-५९-२१॥
Vālmīki 4.59.22
एतत् अर्थम् समग्रम् मे सुपार्श्वः प्रत्यवेदयत् ।तत् श्रुत्वा अपि हि मे बुद्धिः न आसीत् काचित् पराक्रमे ॥४-५९-२२॥
Vālmīki 4.59.23
अपक्षो हि कथम् पक्षी कर्म किंचित् समारभेत् ।यत् तु शक्यम् मया कर्तुम् वाक् बुद्धि गुण वर्तिना ॥४-५९-२३॥
Vālmīki 4.59.24
श्रूयताम् तत्र वक्ष्यामि भवताम् पौरुष आश्रयम् ।वाक् मतिभ्याम् हि सार्वेषाम् करिष्यामि प्रियम् हि वः ॥४-५९-२४॥
Vālmīki 4.59.25
यत् हि दाशरथेः कार्यम् मम तत् न अत्र संशयः ।तत् भवन्तो मति श्रेष्ठा बलवन्तो मनस्विनः ॥४-५९-२५॥
Vālmīki 4.59.26
प्रहिताः कपि राजेन देवैः अपि दुरासदाः ।राम लक्ष्मण बाणाः च निशिताः कंक पत्रिणः ॥४-५९-२६॥
Vālmīki 4.59.27
त्रयाणाम् अपि लोकानाम् पर्याप्ताः त्राण निग्रहे ।कामम् खलु दशग्रीवः तेजो बल समन्वितः ।भवताम् तु समर्थानाम् न किंचित् अपि दुष्करम् ॥४-५९-२७॥
Vālmīki 4.59.28
तत् अलम् काल संगेन क्रियताम् बुद्धि निश्चयः ।न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवत् विधाः ॥४-५९-२८॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷