🪷 किष्किन्धाकाण्ड · Sarga 58
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 58 · 37 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.58local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
इति उक्तः करुणम् वाक्यम् वानरैः त्यक्त जीवितैः ।स बाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः ॥४-५८-१॥
यवीयान् मम स भ्राता जटायुः नाम वानराः ।यम् आख्यात हतम् युद्धे रावणेन बलीयसा ॥४-५८-२॥
वृद्ध भावात् अपक्षत्वात् शृण्वन् तत् अपि मर्षये ।न हि मे शक्तिः अद्य अस्ति भ्रातुः वैर विमोक्षणे ॥४-५८-३॥
पुरा वृत्र वधे वृत्ते स च अहम् च जय एषिणौ ।आदित्यम् उपयातौ स्वो ज्वलंतम् रश्मि मालिनम् ॥४-५८-४॥
आवृत्य आकाश मार्गेण जवेन स्वर् गतौ भृशम् ।मध्यम् प्राप्ते च सूर्ये च जटायुः अवसीदति ॥४-५८-५॥
तम् अहम् भ्रातरम् दृष्ट्वा सूर्य रश्मिभिः अर्दितम् ।पक्षाभ्यम् छादयामास स्नेहात् परम विह्वलम् ॥४-५८-६॥
निर्दग्ध पत्रः पतितो विन्ध्ये अहम् वानरर्षभाः ।अहम् अस्मिन् वसन् भ्रातुः प्रवृत्तिम् न उपलक्षये ॥४-५८-७॥
जटायुषः तु एवम् उक्तो भ्रात्रा सम्पातिना तदा ।युव राजो महाप्राज्ञः प्रत्युवाच अंगदः तदा ॥४-५८-८॥
जटायुषो यदि भ्राता श्रुतम् ते गदितम् मया ।आख्याहि यदि जानासि निलयम् तस्य रक्षसः ॥४-५८-९॥
अदीर्घ दर्शिनम् तम् वा रावणम् राक्षसाधिपम् ।अन्तिके यदि वा दूरे यदि जानासि शंस नः ॥४-५८-१०॥
ततो अब्रवीत् महातेजा भ्राता ज्येष्ठो जटायुषः ।आत्म अनुरूपम् वचनम् वानरान् संप्रहर्षयन् ॥४-५८-११॥
निर्दग्ध पक्षो गृध्रो अहम् गत वीर्यः प्लवम् गमाः ।वाङ् मात्रेण तु रामस्य करिष्ये साह्यम् उत्तमम् ॥४-५८-१२॥
जानामि वारुणान् लोकान् विष्णोः त्रैविक्रमान् अपि ।देव असुर विमर्दाम् च हि अमृतस्य च मंथनम् ॥४-५८-१३॥
रामस्य यत् इदम् कार्यम् कर्तव्यम् प्रथमम् मया ।जरया च हतम् तेजः प्राणाः च शिथिला मम ॥४-५८-१४॥
तरुणी रूप संपन्ना सर्व आभरण भूषिता ।ह्रियमाणा मया दृष्टा रावणेन दुरात्मना ॥४-५८-१५॥
क्रोशन्ती राम राम इति लक्ष्मण इति च भामिनी ।भूषणानि अपविध्यन्ती गात्राणि च विधुन्वती ॥४-५८-१६॥
सूर्य प्रभा इव शैल अग्रे तस्याः कौशेयम् उत्तमम् ।असिते राक्षसे भाति यथा वा तडित् अंबुदे ॥४-५८-१७॥
ताम् तु सीताम् अहम् मन्ये रामस्य परिकीर्तनात् ।श्रूयताम् मे कथयतो निलयम् तस्य रक्षसः ॥४-५८-१८॥
पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च ।अध्यास्ते नगरीम् लंकाम् रावणो नाम राक्षसः ॥४-५८-१९॥
इतो द्वीपे समुद्रस्य संपूर्णे शत योजने ।तस्मिन् लंका पुरी रम्या निर्मिता विश्वकर्मणा ॥४-५८-२०॥
जांबूनदमयैः द्वारैः चित्रैः कांचन वेदिकैः ।प्रासादैः हेम वर्णैः च महद्भिः सुसमाकृता ॥४-५८-२१॥
प्राकारेण अर्क वर्णेन महता च समन्विता ।तस्याम् वसति वैदेही दीना कौशेय वासिनी ॥४-५८-२२॥
रावण अन्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ।जनकस्य आत्मजाम् राज्ञः तस्याम् द्रक्ष्यथ मैथिलीम् ॥४-५८-२३॥
लंकायाम् अथ गुप्तायाम् सागरेण समंततः ।संप्राप्य सागरस्य अंतम् संपूर्णम् शत योजनम् ॥४-५८-२४॥
आसाद्य दक्षिणम् तीरम् ततो द्रक्ष्यथ रावणम् ।तत्र एव त्वरिताः क्षिप्रम् विक्रमध्वम् प्लवंगमाः ॥४-५८-२५॥
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ।आद्यः पंथाः कुलिंगानाम् ये च अन्ये धान्य जीविनः ॥४-५८-२६॥
द्वितीयो बलि भोजानाम् ये च वृक्ष फल अशिनः ।भासाः तृतीयम् गच्छन्ति क्रौन्चाः च कुररैः सह ॥४-५८-२७॥
श्येनाः चतुर्थम् गच्छन्ति गृध्रा गच्छन्ति पंचमम् ।बल वीर्य उपपन्नानाम् रूप यौवन शालिनाम् ॥४-५८-२८॥
षष्ठः तु पन्था हंसानाम् वैनतेय गतिः परा ।वैनतेयात् च नः जन्म सर्वेषाम् वानरर्षभाः ॥४-५८-२९॥
गर्हितम् तु कृतम् कर्म येन स्म पिशित अशनाः ।प्रतिकार्यम् च मे तस्य वैरम् भ्रातृ कृतम् भवेत् ॥४-५८-३०॥
इह स्थः अहम् प्रपश्यामि रावणम् जानकीम् तथा ।अस्माकम् अपि सौपर्णम् दिव्यम् चक्षुर् बलम् तथा ॥४-५८-३१॥
तस्मात् आहार वीर्येण निसर्गेण च वानराः ।आयोजन शतात् साग्रात् वयम् पश्याम नित्यशः ॥४-५८-३२॥
अस्माकम् विहिता वृत्तिः निसार्गेण च दूरतः ।विहिता पाद मूले तु वृत्तिः चरण योधिनाम् ॥४-५८-३३॥
उपायो दृश्यताम् कश्चित् लंघने लवण अंभसः ।अभिगम्य तु वैदेहीम् समृद्ध अर्था गमिष्यथ ॥४-५८-३४॥
समुद्रम् नेतुम् इच्छामि भवद्भिः वरुण आलयम् ।प्रदास्यामि उदकम् भ्रातुः स्वर् गतस्य महात्मनः ॥४-५८-३५॥
ततो नीत्वा तु तम् देशम् तीरे नद नदी पतेः ।निर्दग्ध पक्षम् संपातिम् वानराः सुमहौओजसः ॥४-५८-३६॥
तम् पुनः प्रत्यानयित्वा वै तम् देशम् पतग ईश्वरम् ।बभूवुः वानरा हृष्टाः प्रवृत्तिम् उपलभ्य ते ॥४-५८-३७॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 57
- Next: Kiṣkindhā-Kāṇḍa Sarga 59 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷