🪷 किष्किन्धाकाण्ड · Sarga 57
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 57 · 19 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.57local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
शोकात् भ्रष्ट स्वरम् अपि श्रुत्वा ते हरि यूथपाः ।श्रद्दधुः न एव तत् वाक्यम् कर्मणा तस्य शन्किताः ॥४-५७-१॥
ते प्रायम् उपविष्टाः तु दृष्ट्वा गृध्रम् प्लवंगमाः ।चक्रुः बुद्धिम् तदा रौद्राम् सर्वान् नः भक्षयिष्यति ॥४-५७-२॥
सर्वथा प्रायम् आसीनान् यदि नः भक्षयिष्यति ।कृत कृत्या भविष्यामः क्षिप्रम् सिद्धिम् इतो गताः ॥४-५७-३॥
एताम् बुद्धिम् ततः चक्रुः सर्वे ते हरि यूथपाः ।अवतार्य गिरेः शृंगात् गृध्रम् आह अंगदः तदा ॥४-५७-४॥
बभूवुः ऋक्षरजो नाम वानरेन्द्रः प्रतापवान् ।मम आर्यः पार्थिवः पक्षिन् धार्मिकौ तस्य च आत्मजौ ॥४-५७-५॥
सुग्रीवः चैव वली च पुत्रौ घन बलौ उभौ ।लोके विश्रुत कर्मा अभूत् राजा वाली पिता मम ॥४-५७-६॥
राजा कृत्स्नस्य जगतः इक्ष्वाकूणाम् महारथः ।रामो दाशरथिः श्रीमान् प्रविष्टो दण्डका वनम् ॥४-५७-७॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया ।पितुः निदेश निरतो धर्मम् पन्थानम् आश्रितः ॥४-५७-८॥
तस्य भार्या जनस्थानात् रावणेन हृता बलात् ।रामस्य च पितुः मित्रम् जटायुः नाम गृध्र राट् ॥४-५७-९॥
ददर्श सीताम् वैदेहीम् ह्रियमाणाम् विहायसा ।रावणम् विरथम् कृत्वा स्थापयित्वा च मैथिलीम् ।परिश्रान्तः च वृद्धः च रावणेन हतो रणे ॥४-५७-१०॥
एवम् गृध्रो हतः तेन रावणेन बलीयसा ।संस्कृतः च अपि रामेण गतः च गतिम् उत्तमाम् ॥४-५७-११॥
ततो मम पितृव्येण सुग्रीवेण महात्मना ।चकार राघवः सख्यम् सः अवधीत् पितरम् मम ॥४-५७-१२॥
मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह ।निहत्य वालिनम् रामः ततः तम् अभिषेचयत् ॥४-५७-१३॥
स राज्ये स्थापितः तेन सुग्रीवो वानरेश्वरः ।राजा वानर मुख्यानाम् तेन प्रस्थापिता वयम् ॥४-५७-१४॥
एवम् राम प्रयुक्ताः तु मार्गमाणाः ततः ततः ।वैदेहीम् न अधिगच्छामो रात्रौ सूर्य प्रभाम् इव ॥४-५७-१५॥
ते वयम् दण्दकारण्यम् विचित्य सुसमाहिताः ।अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतम् बिलम् ॥४-५७-१६॥
मयस्य माया विहितम् तत् बिलम् च विचिन्वताम् ।व्यतीतः तत्र नः मासः यः राज्ञा समयः कृतः ॥४-५७-१७॥
ते वयम् कपि राजस्य सर्वे वचन कारिणः ।कृताम् संस्थाम् अतिक्रान्ता भयात् प्रायम् उपासिताः ॥४-५७-१८॥
क्रुद्धे तस्मिन् तु काकुत्स्थे सुग्रीवे च स लक्ष्मणे ।गतानाम् अपि सर्वेषाम् तत्र नः न अस्ति जीवितम् ॥४-५७-१९॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 56
- Next: Kiṣkindhā-Kāṇḍa Sarga 58 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷