🪷 किष्किन्धाकाण्ड · Sarga 56
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 56 · 24 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.56local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
उपविष्टाः तु ते सर्वे यस्मिन् प्रायम् गिरि स्थले ।हरयो गृध्र राजः च तम् देशम् उपचक्रमे ॥४-५६-१॥
सांपातिः नाम नाम्ना तु चिर जीवी विहंगमः ।भ्राता जटायुषः श्रीमान् प्रख्यात बल पौरुषः ॥४-५६-२॥
कंदरात् अभिनिष्क्रम्य स विन्ध्यस्य महागिरेः ।उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरम् अब्रवीत् ॥४-५६-३॥
विधिः किल नरम् लोके विधानेन अनुवर्तते ।यथा अयम् विहितो भक्ष्यः चिरात् मह्यम् उपागतः ॥४-५६-४॥
परंपराणाम् भक्षिष्ये वानराणाम् मृतम् मृतम् ।उवाच एतत् वचः पक्षी तान् निरीक्ष्य प्लवंगमान् ॥४-५६-५॥
तस्य तत् वचनम् श्रुत्वा भक्ष लुब्धस्य पक्षिणः ।अंगदः परम् आयस्तो हनूमंतम् अथ अब्रवीत् ॥४-५६-६॥
पश्य सीता - गृध्रा - अपदेशेन साक्षात् वैवस्वतो यमः ।इमम् देशम् अनुप्राप्तो वानराणाम् विपत्तये ॥४-५६-७॥
रामस्य न कृतम् कार्यम् न कृतम् राज शाशनम् ।हरीणाम् इयम् अज्ञाता विपत्तिः सहसा आगता ॥४-५६-८॥
वैदेह्याः प्रिय कामेन कृतम् कर्म जटायुषा ।गृध्र राजेन यत् तत्र श्रुतम् वः तत् अशेषतः ॥४-५६-९॥
तथा सर्वाणि भूतानि तिर्यक् योनि गतानि अपि ।प्रियम् कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम् ॥४-५६-१०॥
अन्योन्यम् उपकुर्वन्ति स्नेह कारुण्य यन्त्रिताः ।ततः तस्य उपकार अर्थम् त्यजत आत्मानम् आत्मना ॥४-५६-११॥
प्रियम् कृत्वा हि रामस्य धर्मज्ञेन जटायुषा ।राघव अर्थे परिश्रान्ता वयम् संत्यक्त जीविताः ॥४-५६-१२॥
कांताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् ।स सुखी गृध्र राजः तु रावणेन हतो रणे ।मुक्तः च सुग्रीव भयात् गतः च परमाम् गतिम् ॥४-५६-१३॥
जटायुषो विनाशेन राज्ञो दशरथस्य च ।हरणेन च वैदेह्याः संशयम् हरयो गताः ॥४-५६-१४॥
राम लक्ष्मणयोः वासाम् अरण्ये सह सीतया ।राघवस्य च बाणेन वालिनः च तथा वधः ॥४-५६-१५॥
राम कोपात् अशेषाणाम् राक्षसाम् च तथा वधम् ।कैकेय्या वर दानेन इदम् च विकृतम् कृतम् ॥४-५६-१६॥
तत् असुखम् अनुकीर्तितम् वचोभुवि पतितान् च निरीक्ष्य वानरान् ।भृश चकित मतिः महामतिःकृपणम् उदाहृतवान् स गृध्रराजः ॥४-५६-१७॥
तत् तु श्रुत्वा तदा वाक्यम् अंगदस्य मुख उद्गतम् ।अब्रवीत् वचनम् गृध्रः तीक्ष्ण तुण्डो महास्वनः ॥४-५६-१८॥
को अयम् गिरा घोषयति प्राणैः प्रियतरस्य मे ।जटायुषो वधम् भ्रातुः कंपयन् इव मे मनः ॥४-५६-१९॥
कथम् आसीत् जनस्थाने युद्धम् राक्षस गृध्रयोः ।नामधेयम् इदम् भ्रातुः चिरस्य अद्य मया श्रुतम् ॥४-५६-२०॥
इच्छेयम् गिरि दुर्गात् च भवद्भिः अवतारितुम् ।यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥४-५६-२१॥
अति दीर्घस्य कालस्य परितुष्टो अस्मि कीर्तितनात् ।तत् इच्छेयम् अहम् श्रोतुम् विनाशम् वानर ऋषभाः ॥४-५६-२२॥
भ्रातुः जटायुषः तस्य जनस्थान निवासिनः ।तस्य एव च मम भ्रातुः सखा दशरथः कथम् ॥४-५६-२३॥
यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरु जन प्रियः ।सूर्य अंशु दग्ध पक्षत्वात् न शक्नोमि विसर्पितुम् ।इच्छेयम् पर्वतात् अस्मात् अवतर्तुम् अरिन्दमाः ॥४-५६-२४॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 55
- Next: Kiṣkindhā-Kāṇḍa Sarga 57 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷