🪷 किष्किन्धाकाण्ड · Sarga 55

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 55 · 23 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.55local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.55.1
श्रुत्वा हनुमतो वाक्यम् प्रश्रितम् धर्म संहितम् ।स्वामि सत्कार संयुक्तम् अंगदो वाक्यम् अब्रवीत् ॥४-५५-१॥
Vālmīki 4.55.2
स्थैर्यमात्ममनःशौचमानृशंस्यमथाअर्जवम् - यद्व -स्थैर्यम् आत्म मनः शौचम् आनृशंस्यम् अथ आर्जवम् ।विक्रमः चैव धैर्यम् च सुग्रीवे न उपपद्यते ॥४-५५-२॥
Vālmīki 4.55.3
भ्रातुः ज्येष्ठस्य यो भार्याम् जीवितो महिषीम् प्रियाम् ।धर्मेण मातरम् यः तु स्वीकरोति जुगुप्सितः ॥४-५५-३॥
Vālmīki 4.55.4
कथम् स धर्मम् जानीते येन भ्रात्रा दुरात्मना ।युद्धाय अभिनियुक्तेन बिलस्य पिहितम् मुखम् ॥४-५५-४॥
Vālmīki 4.55.5
सत्यात् पाणि गृहीतः च कृत कर्मा महायशाः ।विस्मृतो राघवो येन स कस्य सुकृतम् स्मरेत् ॥४-५५-५॥
Vālmīki 4.55.6
लक्ष्मणस्य भयेन इह न अधर्म भय भीरुणा ।आदिष्टा मार्गितुम् सीताम् धर्मः तस्मिन् कथम् भवेत् ॥४-५५-६॥
Vālmīki 4.55.7
तस्मिन् पापे कृतघ्ने तु स्मृति भिन्ने चल आत्मनि ।आर्यः को विश्वसेत् जातु तत् कुलीनो विशेषतः ॥४-५५-७॥
Vālmīki 4.55.8
राज्ये पुत्रः प्रतिष्ठाप्यः स गुणो निर्गुणो अपि वा ।कथम् शत्रु कुलीनम् माम् सुग्रीवो जीवयिष्यति ॥४-५५-८॥
Vālmīki 4.55.9
भिन्न मन्त्रो अपराद्धः च हीन शक्तिः कथम् हि अहम् ।किष्किन्धाम् प्राप्य जीवेयम् अनाथ इव दुर्बलः ॥४-५५-९॥
Vālmīki 4.55.10
उपांशु दण्डेन हि माम् बंधनेन उपपादयेत् ।शठः क्रूरो नृशंसः च सुग्रीवो राज्य कारणात् ॥४-५५-१०॥
Vālmīki 4.55.11
बंधनात् च अवसादात् मे श्रेयः प्रायोपवेशनम् ।अनुजानंतु माम् सर्वे गृहम् गच्छंतु वानराः ॥४-५५-११॥
Vālmīki 4.55.12
अहम् वः प्रतिजानामि न गमिष्यामि अहम् पुरीम् ।इह एव प्रायम् आसिष्ये श्रेयो मरणम् एव मे ॥४-५५-१२॥
Vālmīki 4.55.13
अभिवादन पूर्वम् तु राजा कुशलम् एव च ।अभिवादन पूर्वम् तु राघवौ बलशालिनौ ॥४-५५-१३॥
Vālmīki 4.55.14
वाच्यः तातः यवीयान् मे सुग्रीवो वानर ईश्वरः ।आरोग्य पूर्वम् कुशलम् वाच्या माता रुमा च मे ॥४-५५-१४॥
Vālmīki 4.55.15
मातरम् चैव मे ताराम् आश्वासयितुम् अर्हथ ।प्रकृत्या प्रिय पुत्रा सा सानुक्रोशा तपस्विनी ॥४-५५-१५॥
Vālmīki 4.55.16
विनष्टम् माम् इह श्रुत्वा व्यक्तम् हास्यति जीवितम् ।एतावत् उक्त्वा वचनम् वृद्धान् तान् अभिवाद्य च ॥४-५५-१६॥
Vālmīki 4.55.17
विवेश अंगदो भूमौ रुदन् दर्भेषु दुर्मनाः ।तस्य संविशतः तत्र रुदन्तो वानर ऋषभाः ॥४-५५-१७॥
Vālmīki 4.55.18
नयनेभ्यः प्रमुमुचुः उष्णम् वै वारि दुःखिताः ।सुग्रीवम् चैव निन्दन्तः प्रशंसन्तः च वालिनम् ॥४-५५-१८॥
Vālmīki 4.55.19
परिवार्य अंगदम् सर्वे व्यवस्यन् प्रायम् आसितुम् ।तत् वाक्यम् वालि पुत्रस्य विज्ञाय प्लवग ऋषभाः ॥४-५५-१९॥
Vālmīki 4.55.20
उपस्पृश्य उदकम् सर्वे प्राक् मुखाः समुपाविशन् ।दक्षिण अग्रेषु दर्भेषु उदक् तीरम् समाश्रिताः ॥४-५५-२०॥
Vālmīki 4.55.21
मुमूर्षवओ हरिश्रेष्टा एतत् क्षमम् इति स्म ह ।रामस्य वन वासम् च क्षयम् दशरथस्य च ॥४-५५-२१॥
Vālmīki 4.55.22
जनस्थान वधम् चैव वधम् चैव जटायुषः ।हरणम् चैव वैदेह्या वालिनः च वधम् तथा ।राम कोपम् च वदताम् हरीणाम् भयम् आगतः ॥४-५५-२२॥
Vālmīki 4.55.23
स संविशद्भिः बहुभिः महीधरोमहाअद्रि कूट प्रमितैः प्लवंगमैः ।बभूव सन्नादित निर्दर अन्तरोभृशम् नदद्भिः जलदैः इव अंबरम् ॥४-५५-२३॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷