🪷 किष्किन्धाकाण्ड · Sarga 54

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 54 · 22 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.54local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.54.1
तथा ब्रुवति तारे तु तारा अधिपति वर्चसि ।अथ मेने हृतम् राज्यम् हनुमान् अंगदेन तत् ॥४-५४-१॥
Vālmīki 4.54.2
बुद्ध्या हि अष्ट अंगया युक्तम् चतुर् बल समन्वितम् ।चतुर् दश गुणम् मेने हनुमान् वालिनः सुतम् ॥४-५४-२॥
Vālmīki 4.54.3
आपूर्यमाणम् शश्वत् च तेजो बल पराक्रमैः ।शशिनम् शुक्ल पक्ष आदौ वर्धमानम् इव श्रिया ॥४-५४-३॥
Vālmīki 4.54.4
बृहस्पति समम् बुद्ध्या विक्रमे सदृशम् पितुः ।शुश्रूषमाणम् तारस्य शुक्रस्य इव पुरंदरम् ॥४-५४-४॥
Vālmīki 4.54.5
भर्तुः अर्थे परिश्रान्तम् सर्व शास्त्र विशारदः ।अभिसंधातुम् आरेभे हनुमान् अंगदम् ततः ॥४-५४-५॥
Vālmīki 4.54.6
स चतुर्णाम् उपायानाम् तृतीयम् उपवर्णयन् ।भेदयामास तान् सर्वान् वानरान् वाक्य संपदा ॥४-५४-६॥
Vālmīki 4.54.7
तेषु सर्वेषु भिन्नेषु ततो अभीषय अंगदम् ।भीषणैः विविधैः वाक्यैः कोप उपाय समन्वितैः ॥४-५४-७॥
Vālmīki 4.54.8
त्वम् समर्थ तरः पित्रा युद्धे तारेय वै ध्रुवम् ।दृढम् धारयितुम् शक्तः कपि राज्यम् यथा पिता ॥४-५४-८॥
Vālmīki 4.54.9
नित्यम् अस्थिर चित्ता हि कपयो हरि पुंगव ।न आज्ञाप्यम् विषहिष्यन्ति पुत्र दारान् विना त्वया ॥४-५४-९॥
Vālmīki 4.54.10
त्वाम् न एते हि अनुयुंजेयुः प्रत्यक्षम् प्रवदामि ते ।यथा अयम् जांबवान् नीलः सुहोत्रः च महाकपिः ॥४-५४-१०॥
Vālmīki 4.54.11
न हि अहम् ते इमे सर्वे साम दान आदिभिः गुणैः ।दण्डेन न त्वया शक्याः सुग्रीवात् अपकर्षितुम् ॥४-५४-११॥
Vālmīki 4.54.12
विगृह्य आसनम् अपि आहुः दुर्बलेन बलीयसा ।आत्म रक्षा करः तस्मात् न विगृह्णीत दुर्बलः ॥४-५४-१२॥
Vālmīki 4.54.13
याम् च इमाम् मन्यसे धात्रीम् एतत् बिलम् इति श्रुतम् ।एतत् लक्ष्मण बाणानाम् ईषत् कार्यम् विदारणे ॥४-५४-१३॥
Vālmīki 4.54.14
स्वल्पम् हि कृतम् इन्द्रेण क्षिपता हि अशनिम् पुरा ।लक्ष्मणो निशितैः बाणैः भिन्द्यात् पत्र पुटम् यथा ॥४-५४-१४॥
Vālmīki 4.54.15
लक्ष्मणस्य च नाराचा बहवः सन्ति तत् विधाः ।वज्र अशनि सम स्पर्शा गिरीणाम् अपि दारकाः ॥४-५४-१५॥
Vālmīki 4.54.16
अवस्थाने यदा एव त्वम् आसिष्यसि परंतप ।तदा एव हरयः सर्वे त्यक्ष्यन्ति कृत निश्चयाः ॥४-५४-१६॥
Vālmīki 4.54.17
स्मरंतः पुत्र दाराणाम् नित्य उद्विग्ना बुभुक्षिताः ।खेदिता दुःख शय्याभिः त्वाम् करिष्यन्ति पृष्ठतः ॥४-५४-१७॥
Vālmīki 4.54.18
स त्वम् हीनः सुहृद्भिः च हित कामैः च बंधुभिः ।तृणात् अपि भृश उद्विग्नः स्पंदमानात् भविष्यसि ॥४-५४-१८॥
Vālmīki 4.54.19
अति उग्र वेगा निशिता घोरा लक्ष्मण सायकाः ।अपवृत्तम् जिघांसन्तो महावेगा दुरासदाः ॥४-५४-१९॥
Vālmīki 4.54.20
अस्माभिः तु गतम् सार्धम् विनीतवत् उपस्थितम् ।आनुपूर्व्यात् तु सुग्रीवो राज्ये त्वाम् स्थापयिष्यति ॥४-५४-२०॥
Vālmīki 4.54.21
धर्म राजः पितृव्यः ते प्रीति कामो दृढ व्रतः ।शुचिः सत्य प्रतिज्ञः च स त्वाम् जातु न नाशयेत् ॥४-५४-२१॥
Vālmīki 4.54.22
प्रिय कामः च ते मातुः तत् अर्थम् च अस्य जीवितम् ।तस्य अपत्यम् च न अस्ति अन्यत् तस्मात् अंगद गम्यताम् ॥४-५४-२२॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷