🪷 किष्किन्धाकाण्ड · Sarga 53

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 53 · 27 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.53local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.53.1
ततः ते ददृशुः घोरम् सागरम् वरुण आलयम् ।अपारम् अभिगर्जन्तम् घोरैः ऊर्मिभिः आकुलम् ॥४-५३-१॥
Vālmīki 4.53.2
मयस्य माया विहितम् गिरि दुर्गम् विचिन्वताम् ।तेषाम् मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥४-५३-२॥
Vālmīki 4.53.3
विन्ध्यस्य तु गिरेः पादे संप्रपुष्पित पादपे ।उपविश्य महात्मानः चिन्ताम् आपेदिरे तदा ॥४-५३-३॥
Vālmīki 4.53.4
ततः पुष्पातिभाराग्राँल्ल्ताशतसमावृतान् -यद्वा -ततः पुष्प अतिभार अग्रान् लता शत समावृतान् ।द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुः भय शन्किताः ॥४-५३-४॥
Vālmīki 4.53.5
ते वसंतम् अनुप्राप्तम् प्रतिवेद्य परस्परम् ।नष्ट संदेश काल अर्था निपेतुर् धरणी तले ॥४-५३-५॥
Vālmīki 4.53.6
ततः तान् कपि वृद्धान् च शिष्टान् चैव वनौकसः ।वाचा मधुरया अभाष्य यथावत् अनुमान्य च ॥४-५३-६॥
Vālmīki 4.53.7
स तु सिंह ऋषभ स्कंधः पीन आयत भुजः कपिः ।युवराजो महाप्राज्ञ अंगदो वाक्यम् अब्रवीत् ॥४-५३-७॥
Vālmīki 4.53.8
शासनात् कपि राजस्य वयम् सर्वे विनिर्गताः ।मासः पूर्णो बिलस्थानाम् हरयः किम् न बुध्यते ॥४-५३-८॥
Vālmīki 4.53.9
वयम् आश्वयुजे मासि काल संख्या व्यवस्थिताः ।प्रस्थिताः सो अपि च अतीतः किम् अतः कार्यम् उत्तरम् ॥४-५३-९॥
Vālmīki 4.53.10
भवन्त प्रत्ययम् प्राप्ता नीति मार्ग विशारदाः ।हितेषु अभिरता भर्त्तुः निसृष्टाः सर्व कर्मसु ॥४-५३-१०॥
Vālmīki 4.53.11
कर्मसु अप्रतिमाः सर्वे दिक्षु विश्रुत पौरुषाः ।माम् पुरस्कृत्य निर्याताः पिन्गाक्ष प्रतिचोदिताः ॥४-५३-११॥
Vālmīki 4.53.12
इदानीम् अकृत अर्थानाम् मर्तव्यम् न अत्र संशयः ।हरि राजस्य संदेशम् अकृत्वा कः सुखी भवेत् ॥४-५३-१२॥
Vālmīki 4.53.13
आस्मिन् अतीते काले तु सुग्रीवेण कृते स्वयम् ।प्रायोपवेशनम् युक्तम् सर्वेषाम् च वन ओकसाम् ॥४-५३-१३॥
Vālmīki 4.53.14
तीक्ष्णः प्रकृत्या सुग्रीवः स्वामि भावे व्यवस्थितः ।न क्षमिष्यति नः सर्वान् अपराध कृतो गतान् ॥४-५३-१४॥
Vālmīki 4.53.15
अप्रवृत्तौ च सीतायाः पापम् एव करिष्यति ।तस्मात् क्षमम् इह अद्य एव गंतुम् प्रायोपविशनम् ॥४-५३-१५॥
Vālmīki 4.53.16
त्यक्त्वा पुत्रन् च दारान् च धनानि च गृहाणि च ।ध्रुवम् नः हिंसते राजा सर्वान् प्रतिगतान् इतः ॥४-५३-१६॥
Vālmīki 4.53.17
वधेन अप्रतिरूपेण श्रेयान् मृत्युः इह एव नः ।न च अहम् यौवराज्येन सुग्रीवेण अभिषेचितः ॥४-५३-१७॥
Vālmīki 4.53.18
नरेन्द्रेण अभिषिक्तो अस्मि रामेण अक्लिष्ट कर्मणा ।स पूर्वम् बद्ध वैरो माम् राजा दृष्ट्वा व्यतिक्रमम् ॥४-५३-१८॥
Vālmīki 4.53.19
घातयिष्यति दण्डेन तीक्ष्णेन कृत निश्चयः ।किम् मे सुहृद्भिः व्यसनम् पश्यद्भिः जीवितांतरे ।इह एव प्रायम् आसिष्ये पुण्ये सागर रोधसि ॥४-५३-१९॥
Vālmīki 4.53.20
एतत् श्रुत्वा कुमारेण युव राजेन भाषितम् ।सर्वे ते वानर श्रेष्ठाः करुणम् वाक्यम् अब्रुवन् ॥४-५३-२०॥
Vālmīki 4.53.21
तीक्ष्णः प्रकृत्या सुग्रीवः प्रिया रक्तः च राघवः ।समीक्ष्य अकृत कार्यान् तु तस्मिन् च समये गते ॥४-५३-२१॥
Vālmīki 4.53.22
अदृष्टायाम् च वैदेह्याम् दृष्ट्वा चैव समागतान् ।राघव प्रिय कामाय घातयिष्यति असंशयम् ॥४-५३-२२॥
Vālmīki 4.53.23
न क्षमम् च अपराद्धानाम् गमनम् स्वामि पार्श्वतः ।प्रधानबूताः च वयम् सुग्रीवस्य समागताः ॥४-५३-२३॥
Vālmīki 4.53.24
इह एव सीताम् अन्वीक्ष्य प्रवृत्तिम् उपलभ्य वा ।नः चेत् गच्छाम तम् वीरम् गमिष्यामो यम क्षयम् ॥४-५३-२४॥
Vālmīki 4.53.25
प्लवंगमानाम् तु भय अर्दितानाम्श्रुत्वा वचः तार इदम् बभाषे ।अलम् विषादेन बिलम् प्रविश्यवसाम सर्वे यदि रोचते वः ॥४-५३-२५॥
Vālmīki 4.53.26
इदम् हि माया विहितम् सुदुर्गमम्प्रभूत वृक्ष उदक भोज्य पेयम् ।इह अस्ति नः न एव भयम् पुरंदरात्न राघवात् वानर राजतो अपि वा ॥४-५३-२६॥
Vālmīki 4.53.27
श्रुत्वा अंगदस्य अपि वचो अनुकूलम्ऊचुः च सर्वे हरयः प्रतीताः ।यथा न हन्येम तथा विधानम्असक्तम् अद्य एव विधीयताम् नः ॥४-५३-२७॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷