🪷 किष्किन्धाकाण्ड · Sarga 52

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 52 · 32 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.52local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.52.1
अथ तान् अब्रवीत् सर्वान् विश्रांतान् हरि यूथपान् ।इदम् वचनम् एकाग्रा तापसी धर्म चारिणी ॥४-५२-१॥
Vālmīki 4.52.2
वानरा यदि वः खेदः प्रनष्टः फल भक्षणात् ।यदि च एतत् मया श्राव्यम् श्रोतुम् इच्छामि कथताम् ॥४-५२-२॥
Vālmīki 4.52.3
तस्याः तत् वचनम् श्रुत्वा हनुमान् मारुत आत्मजः ।आर्जवेन यथा तत्त्वम् आख्यातुम् उपचक्रमे ॥४-५२-३॥
Vālmīki 4.52.4
राजा सर्वस्य लोकस्य महेन्द्र वरुण उपमः ।रामो दाशरथिः श्रीमान् प्रविष्टो दण्डका वनम् ॥४-५२-४॥
Vālmīki 4.52.5
लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया ।तस्य भार्या जनस्थानात् रावणेन हृता बलात् ॥४-५२-५॥
Vālmīki 4.52.6
वीरः तस्य सखा राज्ञः सुग्रीवो नाम वानरः ।राजा वानर मुख्यानाम् येन प्रस्थापिता वयम् ॥४-५२-६॥
Vālmīki 4.52.7
अगस्त्य चरिताम् आशाम् दक्षिणाम् यम रक्षिताम् ।सहैभिर्वानरैमुख्यैरङ्गदप्रमुखैर्वयम् - यद्वा -सह एभिः वानरैः मुख्यैः अंगद प्रमुखैः वयम् ॥४-५२-७॥
Vālmīki 4.52.8
रावणम् सहिताः सर्वे राक्षसम् काम रूपिणम् ।सीतया सह वैदेह्या मार्गध्वम् इति चोदिताः ॥४-५२-८॥
Vālmīki 4.52.9
विचित्य तु वयम् सर्वे समग्रम् - समुद्रम् - दक्षिणाम् दिशम् ।वयम् बुभुक्षिताः सर्वे वृक्ष मूलम् उपाश्रिताः ॥४-५२-९॥
Vālmīki 4.52.10
विवर्ण वदनाः सर्वे सर्वे ध्यान परायणाः ।न अधिगच्छामहे पारम् मग्नाः चिन्ता महाअर्णवे ॥४-५२-१०॥
Vālmīki 4.52.11
चारयन्तः ततः चक्षुः दृष्टवन्तो महद् बिलम् ।लता पादप संछन्नम् तिमिरेण समावृतम् ॥४-५२-११॥
Vālmīki 4.52.12
अस्मात् हंसा जल क्लिन्नाः पक्षैः सलिल रेणुभिः ।कुरराः सारसाः चैव निष्पतन्ति पतत्रिणः ॥४-५२-१२॥
Vālmīki 4.52.13
साधु अत्र प्रविशाम इति मया तु उक्ताः प्लवंगमाः ।तेषाम् अपि हि सर्वेषाम् अनुमानम् उपागतम् ॥४-५२-१३॥
Vālmīki 4.52.14
अस्मिन् निपतिताः सर्वे अपि अथ कार्य त्वरान्विताः ।ततो गाढम् निपतिता गृह्य हस्तौ परस्परम् ॥४-५२-१४॥
Vālmīki 4.52.15
इदम् प्रविष्टाः सहसा बिलम् तिमिर संवृतम् ।एतत् नः कार्यम् एतेन कृत्येन वयम् आगताः ॥४-५२-१५॥
Vālmīki 4.52.16
त्वाम् च एव उपगताः सर्वे परिद्यूना बुभुक्षिताः ।आतिथ्य धर्म दत्तानि मूलानि च फलानि च ॥४-५२-१६॥
Vālmīki 4.52.17
अस्माभिः उपभुक्तानि बुभुक्षा परिपीडितैः ।यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ॥४-५२-१७॥
Vālmīki 4.52.18
ब्रूहि प्रत्युपकार अर्थम् किम् ते कुर्वन्तु वानराः ।एवम् उक्ता तु सर्वज्ञा वानरैः तैः स्वयंप्रभा ॥४-५२-१८॥
Vālmīki 4.52.19
प्रत्युवाच ततः सर्वान् इदम् वानर यूथपान् ।सर्वेषाम् परितुष्टा अस्मि वानराणाम् तरस्विनाम् ॥४-५२-१९॥
Vālmīki 4.52.20
चरंत्या मम धर्मेण न कार्यम् इह केनचित् ।एवम् उक्तः शुभम् वाक्यम् तापस्या धर्म संहितम् ॥४-५२-२०॥
Vālmīki 4.52.21
उवाच हनुमान् वाक्यम् ताम् अनिन्दित लोचनाम् ।शरणम् त्वाम् प्रपन्नाः स्मः सर्वे वै धर्मचारिणिम् ॥४-५२-२१॥
Vālmīki 4.52.22
यः कृतः समयो अस्माकम् सुग्रीवेण महात्मना ।स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् ॥४-५२-२२॥
Vālmīki 4.52.23
सा त्वम् अस्मात् बिलात् अस्मान् उत्तारयितुम् अर्हसि ।तस्मात् सुग्रीव वचनात् अतिक्रान्तान् गत आयुषः ॥४-५२-२३॥
Vālmīki 4.52.24
त्रातुम् अर्हसि नः सर्वान् सुग्रीव भय शन्कितान् ।महत् च कार्यम् अस्माभिः कर्तव्यम् धर्मचारिणि ॥४-५२-२४॥
Vālmīki 4.52.25
तत् च अपि न कृतम् कार्यम् अस्माभिः इह वासिभिः ।एवम् उक्ता हनुमता तापसी वाक्यम् अब्रवीत् ॥४-५२-२५॥
Vālmīki 4.52.26
जीवता दुष्करम् मन्ये प्रविष्टेन निवर्तितुम् ।तपसः सुप्रभावेन नियम उपार्जितेन च ॥४-५२-२६॥
Vālmīki 4.52.27
सर्वान् एव बिलात् अस्मात् तारयिष्यामि वानरान् ।निमीलयत चक्षून्षि सर्वे वानर पुंगवाः ॥४-५२-२७॥
Vālmīki 4.52.28
न हि निष्क्रमितुम् शक्यम् अनिमीलित लोचनैः ।ततो निमीलिताः सर्वे सुकुमार अंगुलैः करैः ॥४-५२-२८॥
Vālmīki 4.52.29
सहसा पिदधुः दृष्टिम् हृष्टा गमन कान्क्षिणः ।वानराः तु महात्मानो हस्त रुद्ध मुखाः तदा ॥४-५२-२९॥
Vālmīki 4.52.30
निमेष अन्तर मात्रेण बिलात् उत्तारिताः तथा ।उवाच सर्वान् तान् तत्र तापसी धर्म चारिणी ॥४-५२-३०॥
Vālmīki 4.52.31
निःसृतान् विषमात् तस्मात् समाश्वास्य इदम् अब्रवीत् ।एष विन्ध्यो गिरिः श्रीमान् नाना द्रुम लता आयुतः ॥४-५२-३१॥
Vālmīki 4.52.32
एष प्रसवणः शैलः सागरो अयम् महा उदधिः ।स्वस्ति वो अस्तु गमिष्यामि भवनम् वानरर्षभाः ।इति उक्त्वा तत् बिलम् श्रीमत् प्रविवेश स्वयम्प्रभा ॥४-५२-३२॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷