🪷 किष्किन्धाकाण्ड · Sarga 51
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 51 · 19 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.51local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
इति उक्त्वा हनुमान् तत्र पुनः कृष्ण अजिन अंबराम् ।अब्रवीत् ताम् महाभागाम् तापसीम् धर्म चारिणीम् ॥४-५१-१॥
इदम् प्रविष्टाः सहसा बिलम् तिमिर संवृतम् ।क्षुत् पिपासा परिश्रांताः परिखिन्नाः च सर्वशः ॥४-५१-२॥
महत् धरण्या विवरम् प्रविष्टाः स्म पिपासिताः ।इमाम् तु एवम् विधान् भावान् विविधान् अद्भुत उपमान् ॥४-५१-३॥
दृष्ट्वा वयम् प्रव्यथिताः संभ्रांता नष्ट चेतसः ।कस्य एते कांचना वृक्षाः तरुण आदित्य सन्निभाः ॥४-५१-४॥
शुचीनि अभ्यवहार्याणि मूलानि च फलानि च ।कांचनानि विमानानि राजतानि गृहाणि च ॥४-५१-५॥
तपनीय गव अक्षाणि मणि जाल आवृतानि च ।पुष्पिताः फालवन्तः च पुण्याः सुरभि गन्धयः ॥४-५१-६॥
इमे जांबूनदमयाः पादपाः कस्य तेजसा ।कांचनानि च पद्मानि जातानि विमले जले ॥४-५१-७॥
कथम् मत्स्याः च सौवर्णा दृश्यन्ते सह कच्छपैः ।आत्मानः अनुभावात् वा कस्य वै एतत् तपो बलम् ॥४-५१-८॥
अजानताम् नः सर्वेषाम् सर्वम् आख्यातुम् अर्हसि ।एवम् उक्ता हनुमता तापसी धर्म चारिणी ॥४-५१-९॥
प्रति उवाच हनूमंतम् सर्व भूत हिते रता ।मयो नाम महातेजा मायावी दानवर्षभः ॥४-५१-१०॥
तेन इदम् निर्मितम् सर्वम् मायया कांचनम् वनम् ।पुरा दानव मुख्यानाम् विश्वकर्मा बभूव ह ॥४-५१-११॥
येन इदम् कांचनम् दिव्यम् निर्मितम् भवन उत्तमम् ।स तु वर्ष सहस्राणि तपः तप्त्वा महत् वने ॥४-५१-१२॥
पितामहात् वरम् लेभे सर्वम् औशसनम् धनम् ।विधाय सर्वम् बलवान् सर्व काम ईश्वरः तदा ॥४-५१-१३॥
उवास सुखितः कालम् कंचित् अस्मिन् महावने ।तम् अप्सरसि हेमायाम् सक्तम् दानव पुंगवम् ॥४-५१-१४॥
विक्रम्य एव अशनिम् गृह्य जघान ईशः पुरंदरः ।इदम् च ब्रह्मणा दत्तम् हेमायै वनम् उत्तमम् ॥४-५१-१५॥
शाश्वतः काम भोगः च गृहम् च इदम् हिरण्मयम् ।दुहिता मेरुसावर्णेः अहम् तस्याः स्वयंप्रभा ॥४-५१-१६॥
इदम् रक्षामि भवनम् हेमाया वानरोत्तम ।मम प्रिय सखी हेमा नृत्त गीत विशारदा ॥४-५१-१७॥
तया दत्त वरा च अस्मि रक्षामि भवनम् महान् ।किम् कार्यम् कस्य वा हेतोः कांताराणि प्रपद्यथ ॥४-५१-१८॥
कथम् च इदम् वनम् दुर्गम् युष्माभिः उपलक्षितम् ।शुचीनि अभ्यवहार्याणि मूलानि च फलानि च ।भुक्त्वा पीत्वा च पानीयम् सर्वम् मे वक्तुम् अर्हथ ॥४-५१-१९॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 50
- Next: Kiṣkindhā-Kāṇḍa Sarga 52 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷