🪷 किष्किन्धाकाण्ड · Sarga 50
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 50 · 41 ślokas
🪷 Devanāgarī Ślokas
सह तारा अंगदाभ्याम् तु संगम्य हनुमान् कपिः ।विचिनोति च विन्ध्यस्य गुहाः च गहनानि च ॥४-५०-१॥
सिंह शार्दूल जुष्टाः च गुहाः च परितः तथा ।विषमेषु नग इन्द्रस्य महा प्रस्रवणेषु च ॥४-५०-२॥
आसेदुः तस्य शैलस्य कोटिम् दक्षिण पस्चिमाम् ।तेषाम् तत्र एव वसताम् स कालो व्यत्यवर्तत ॥४-५०-३॥
स हि देशो दुरन्वेष्यो गुहा गहनवान् महान् ।तत्र वायु सुतः सर्वम् विचिनोति स्म पर्वतम् ॥४-५०-४॥
परस्परेण रहिता अन्योन्यस्य अविदूरतः ।गजो गवाक्षो गवयः शरभो गन्धमादनः ॥४-५०-५॥
मैन्दः च द्विविदः चैव हनुमान् जांबवान् अपि ।अंगदो युव राजः च तारः च वनगोचरः ॥४-५०-६॥
गिरि जाल आवृतान् देशान् मार्गित्वा दक्षिणाम् दिशम् ।विचिन्वन्तः ततः तत्र ददृशुः विवृतम् बिलम् ॥४-५०-७॥
दुर्गम् ऋक्ष बिलम् नाम दानवेन अभिरक्षितम् ।क्षुत् पिपासा परीताः तु श्रान्ताः तु सलिल अर्थिनः ॥४-५०-८॥
अवकीर्णम् लता वृक्षैः ददृशुः ते महा बिलम् ।तत्र क्रौन्चाः च हंसाः च सारसाः च अपि निष्क्रमन् ॥४-५०-९॥
जल आर्द्राः चक्रवाकाः च रक्त अंगाः पद्म रेणुभिः ।ततः तत् बिलम् आसाद्य सुगन्धि दुरतिक्रमम् ॥४-५०-१०॥
विस्मय व्यग्र मनसो बभूवुः वानरर्षभाः ।संजात परिशंकाः ते तत् बिलम् प्लवग उत्तमाः ॥४-५०-११॥
अभ्यपद्यन्त संहृष्टाः तेजोवन्तो महाबलाः ।नाना सत्त्व समाकीर्णाम् दैत्य इन्द्र निलय उपमम् ॥४-५०-१२॥
दुर्दर्शम् इव घोरम् च दुर्विगाह्यम् च सर्वशः ।ततः पर्वत कूट आभो हनुमान् मारुत आत्मजः ॥४-५०-१३॥
अब्रवीत् वानरान् घोरान् कान्तार वन कोविदः ।गिरि जाल आवृतान् देशान् मार्गित्वा दक्षिणाम् दिशम् ॥४-५०-१४॥
वयम् सर्वे परिश्रांता न च पश्याम मैथिलीम् ।अस्मात् च अपि बिलात् हंसाः क्रौन्चाः च सह सारसैः ॥४-५०-१५॥
जल आर्द्राः चक्रवाकाः च निष्पतन्ति स्म सर्वशः ।नूनम् सलिलवान् अत्र कूपो वा यदि वा ह्रदः ॥४-५०-१६॥
तथा च इमे बिल द्वारे स्निग्धाः तिष्ठन्ति पादपाः ।इति उक्ताः तत् बिलम् सर्वे विविशुः तिमिर आवृतम् ॥४-५०-१७॥
अचन्द्र सूर्यम् हरयो ददृशू रोम हर्षणम् ।निशम्य तस्मात् सिंहाः च तान् तान् च मृग पक्षिणः ॥४-५०-१८॥
प्रविष्टा हरि शार्दूला बिलम् तिमिर आवृतम् ।न तेषाम् सज्जते दृष्टिः न तेजः न पराक्रमः ॥४-५०-१९॥
वायोः इव गतिः तेषाम् दृष्टिः तम् अपि वर्तते ।ते प्रविष्टाः तु वेगेन तत् बिलम् कपि कुंजराः ॥४-५०-२०॥
प्रकाशम् च अभिरामम् च ददृशुः देशम् उत्तमम् ।ततः तस्मिन् बिले भीमे नाना पादप संकुले ॥४-५०-२१॥
अन्योन्यम् संपरिष्वज्य जग्मुर् योजनम् अंतरम् ।ते नष्ट संज्ञाः तृषिताः संभ्रांताः सलिल अर्थिनः ॥४-५०-२२॥
परिपेतुर् बिले तस्मिन् कंचित् कालम् अतन्द्रिताः ।ते कृशा दीन वदनाः परिश्रान्ताः प्लवंगमाः ॥४-५०-२३॥
आलोकम् ददृशुः वीरा निराशा जीविते यदा ।ततः तम् देशम् आगम्य सौम्याः वितिमिरम् वनम् ॥४-५०-२४॥
ददृशुः कान्चनान् वृक्षान् दीप्त वैश्वानर प्रभान् ।सालान् तालान् तमालान् च पुन्नागान् वंजुलान् धवान् ॥४-५०-२५॥
चंपकान् नाग वृक्षान् च कर्णिकारान् च पुष्पितान् ।स्तबकैः कांचनैः चित्रैः रक्तैः किसलयैः तथा ॥४-५०-२६॥
आपीडैः च लताभिः च हेम आभरण भूषितैः ।तरुण आदित्य संकाशान् वैदूर्यमय वेदिकान् ॥४-५०-२७॥
विभ्राजमानान् वपुषा पादपान् च हिरण्मयान् ।नील वैदूर्य वर्णाः च पद्मिनीः पतगैः आवृताः ॥४-५०-२८॥
महद्भिः कांचनैः वृक्षैः वृता बाल अर्क संनिभैः ।जातरूपमयैः मत्स्यैः महद्भिः च अथ पन्कजैः ॥४-५०-२९॥
नलिनीः तत्र ददृशुः प्रसन्न सलिल आयुताः ।कांचनानि विमानानि राजतानि तथा एव च ॥४-५०-३०॥
तपनीय गवाक्षाणि मुक्ता जाल आवृतानि च ।हैम राजत भौमानि वैदूर्य मणिमन्ति च ॥४-५०-३१॥
ददृशुः तत्र हरयो गृह मुख्यानि सर्वशः ।पुष्पितान् फलिनो वृक्षान् प्रवाल मणि संनिभान् ॥४-५०-३२॥
कांचन भ्रमरान् चैव मधूनि च समन्ततः ।मणि कांचन चित्राणि शयनानि आसनानि च ॥४-५०-३३॥
विविधानि विशालानि ददृशुः ते समन्ततः ।हेम रजत कांस्यानाम् भाजनानाम् च राशयः ॥४-५०-३४॥
अगुरूणाम् च दिव्यानाम् चंदनानाम् च संचयम् ।शुचीनि अभ्यवहाराणि मूलानि च फलानि च ॥४-५०-३५॥
महा अर्हाणि च पानानि मधूनि रसवन्ति च ।दिव्यानाम् अम्बराणाम् च महा अर्हाणाम् च संचयान् ॥४-५०-३६॥
कंबलानाम् च चित्राणाम् अजिनानाम् च संचयान् ।तत्र तत्र विन्यस्तान् दीप्तान् वैश्वानर प्रभान् ॥४-५०-३७॥
ददृशुः वानराः शुभ्रान् जातरूपस्य संचयान् ।तत्र तत्र विचिन्वन्तो बिले तत्र महा प्रभाः ॥४-५०-३८॥
ददृशुः वानराः शूराः स्त्रियम् कांचित् अदूरतः ।ताम् च ते ददृशुः तत्र चीर कृष्ण अजिन अम्बराम् ॥४-५०-३९॥
तापसीम् नियत आहाराम् ज्वलंतीम् इव तेजसा ।विस्मिता हरयः तत्र व्यवतिष्टन्त सर्वशः ।प्रपच्छ हनुमान् तत्र का असि त्वम् कस्य वा बिलम् ॥४-५०-४०॥
ततो हनूमान् गिरि सन्निकाशःकृत अंजलिः ताम् अभिवाद्य वृद्धाम् ।पप्रच्छ का त्वम् भवनम् बिलम् चरत्नानि च इमानि वदस्व कस्य ॥४-५०-४१॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 49
- Next: Kiṣkindhā-Kāṇḍa Sarga 51 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Kiṣkindhā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷