🪷 किष्किन्धाकाण्ड · Sarga 49
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 49 · 22 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.49local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
अथ अंगदः तदा सर्वान् वानरान् इदम् अब्रवीत् ।परिश्रान्तो महा प्राज्ञः समाश्वास्य शनैर् वचः ॥४-४९-१॥
वनानि गिरयो नद्यो दुर्गाणि गहनानि च ।दरी गिरि गुहाः चैव विचिता नः समंततः ॥४-४९-२॥
तत्र तत्र सह अस्माभिः जानकी न च दृश्यते ।तथा रक्षः अपहर्ता च सीतायाः चैव दुष्कृती ॥४-४९-३॥
कालः च नः महान् यातः सुग्रीवः च उग्र शासनः ।तस्मात् भवन्तः सहिता विचिन्वन्तु समंततः ॥४-४९-४॥
विहाय तन्द्रीम् शोकम् च निद्राम् चैव समुत्थिताम् ।विचिनुध्वम् तथा सीताम् पश्यामो जनक आत्मजाम् ॥४-४९-५॥
अनिर्वेदम् च दाक्ष्यम् च मनसः च अपराजयम् ।कार्य सिद्धि कराणि आहुः तस्मात् एतत् ब्रवीमि अहम् ॥४-४९-६॥
अद्य अपि इदम् वनम् दुर्गम् विचिन्वन्तु वन ओकसः ।खेदम् त्यक्त्वा पुनः सर्वम् वनम् एतत् विचिन्वताम् ॥४-४९-७॥
अवश्यम् कुर्वताम् दृश्यते कर्मणः फलम् ।परम् निर्वेदम् आगम्य न हि नः मीलनम् क्षमम् ॥४-४९-८॥
सुग्रीवः क्रोधनो राजा तीक्ष्ण दण्डः च वानराः ।भेतव्यम् तस्य सततम् रामस्य च महात्मनः ॥४-४९-९॥
हितार्थम् एतत् उक्तम् वः क्रियताम् यदि रोचते ।उच्यताम् हि क्षमम् यत् तत् सर्वेषाम् एव वानराः ॥४-४९-१०॥
अंगदस्य वचः श्रुत्वा वचनम् गंधमादनः ।उवाच व्यक्तया वाचा पिपासा श्रम खिन्नया ॥४-४९-११॥
सदृशम् खलु वः वाक्यम् अंगदो यत् उवाच ह ।हितम् च एव अनुकूलम् च क्रियताम् अस्य भाषितम् ॥४-४९-१२॥
पुनः मार्गामहे शैलान् कन्दराम् च शिलान् तथा ।काननानि च शून्यानि गिरि प्रस्रवणानि च ॥४-४९-१३॥
यथा उद्दिष्ठानि सर्वाणि सुग्रीवेण महात्मना ।विचिन्वन्तु वनम् सर्वे गिरि दुर्गाणि संगताः ॥४-४९-१४॥
ततः समुत्थाय पुनः वानराः ते महाबलाः ।विन्ध्य कानन संकीर्णाम् विचेरुर् दक्षिणाम् दिशम् ॥४-४९-१५॥
ते शारद अभ्र प्रतिमम् श्रीमत् रजत पर्वतम् ।शृंगवन्तम् दरीवंतम् अधिरुह्य च वानराः ॥४-४९-१६॥
तत्र लोध्र वनम् रम्यम् सप्त पर्ण वनानि च ।विचिन्वन्तो हरि वराः सीता दर्शन कान्क्षिणः ॥४-४९-१७॥
तस्य अग्रम् अधिरूढाः ते श्रान्ता विपुल विक्रमाः ।न पश्यन्ति स्म वैदेहीम् रामस्य महिषीम् प्रियाम् ॥४-४९-१८॥
ते तु दृष्टि गतम् दृष्ट्वा तम् शैलम् बहु कंदरम् ।अध्यारोहन्त हरयो वीक्षमाणाः समंततः ॥४-४९-१९॥
अवरुह्य ततो भूमिम् श्रान्ता विगत चेतसः ।स्थित्वा मुहूर्तम् तत्र अथ वृक्ष मूलम् उपाश्रिताः ॥४-४९-२०॥
ते मुहूर्तम् समाश्वस्ताः किंचित् भग्न परिश्रमाः ।पुनर् एव उद्यताः कृत्स्नाम् मार्गितुम् दक्षिणाम् दिशम् ॥४-४९-२१॥
हनुमत् प्रमुखाः ते तु प्रस्थिताः प्लवग ऋषभाः ।विंध्यम् एव आदितः कृत्वा विचेरुः ते समंततः ॥४-४९-२२॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 48
- Next: Kiṣkindhā-Kāṇḍa Sarga 50 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷