🪷 किष्किन्धाकाण्ड · Sarga 48

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 48 · 24 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.48local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.48.1
सह तार अंगदाभ्याम् तु सहसा हनुमान् कपिः ।सुग्रीवेण यथा उद्दिष्टम् तम् देशम् उपचक्रमे ॥४-४८-१॥
Vālmīki 4.48.2
स तु दूरम् उपागम्य सर्वैः तैः कपि सत्तमैः ।ततो विचित्य विन्ध्यस्य गुहाः च गहनानि च ॥४-४८-२॥
Vālmīki 4.48.3
पर्वताग्र नदी दुर्गान् सरांसि विपुल द्रुमान् ।वृक्ष खण्डान् च विविधान् पर्वतान् वन पादपान् ॥४-४८-३॥
Vālmīki 4.48.4
अन्वेषमाणाः ते सर्वे वानराः सर्वतो दिशम् ।न सीताम् ददृशुर् वीरा मैथिलीम् जनक आत्मजाम् ॥४-४८-४॥
Vālmīki 4.48.5
ते भक्षयन्तो मूलानि फलानि विविधानि अपि ।अन्वेषमाणा दुर्धर्षा न्यवसन् तत्र तत्र ह ॥४-४८-५॥
Vālmīki 4.48.6
स तु देशो दुर्अन्वेषो गुहा गहनवान् महान् ।निर्जलम् निर्जनम् शून्यम् गहनम् घोर दर्शनम् ॥४-४८-६॥
Vālmīki 4.48.7
ता दृशानि अन्या अपि अरण्यानि विचित्य भृइश पीडिताः ।स देशः च दुर्अन्वेष्यो गुहा गहनवान् महान् ॥४-४८-७॥
Vālmīki 4.48.8
त्यक्त्वा तु तम् ततः देशम् सर्वे वै हरि यूथपाः ।देशम् अन्यम् दुराधर्षम् विविशुः च अकुतो भयाः ॥४-४८-८॥
Vālmīki 4.48.9
यत्र वन्ध्य फला वृक्षा विपुष्पाः पर्ण वर्जिताः ।निस्तोयाः सरितो यत्र मूलम् यत्र सुदुर्लभम् ॥४-४८-९॥
Vālmīki 4.48.10
न सन्ति महिषा यत्र न मृगा न च हस्तिनः ।शार्दूलाः पक्षिणो वा अपि ये च अन्ये वन गोचराः ॥४-४८-१०॥
Vālmīki 4.48.11
न च अत्र वृक्षा न ओषध्यो न वल्ल्यो न अपि वीरुधः ।स्निग्ध पत्राः स्थले यत्र पद्मिन्यः फुल्ल पंकजाः ॥४-४८-११॥
Vālmīki 4.48.12
प्रेक्षणीयाः सुगन्धाः च भ्रमरैः च वर्जिताः ।कण्डुर् नाम महाभागः सत्य वादी तपो धनः ॥४-४८-१२॥
Vālmīki 4.48.13
महर्षिः परम अमर्षी नियमैः दुष्प्रधर्षणः ।तस्य तस्मिन् वने पुत्रो बालको दश वार्षिकः ॥४-४८-१३॥
Vālmīki 4.48.14
प्रणष्टो जीवित अन्ताय क्रुद्धः तेन महामुनिः ।तेन धर्माअत्मना शप्तम् कृत्स्नम् तत्र महद् वनम् ॥४-४८-१४॥
Vālmīki 4.48.15
अशरण्यम् दुराधर्षम् मृग पक्षि विवर्जितम् ।तस्य ते कानन अन्तान् तु गिरीणाम् कन्दराणि च ॥४-४८-१५॥
Vālmīki 4.48.16
प्रभवाणि नदीनाम् च विचिन्वन्ति समाहिताः ।तत्र च अपि महात्मानो न अपश्यन् जनक आत्मजाम् ॥४-४८-१६॥
Vālmīki 4.48.17
हर्तारम् रावणम् वा अपि सुग्रीव प्रिय कारिणः ।ते प्रविश्य तु तम् भीमम् लता गुल्म समावृतम् ॥४-४८-१७॥
Vālmīki 4.48.18
ददृशुः भीम कर्माणम् असुरम् सुर निर्भयम् ।तम् दृष्ट्वा वनरा घोरम् स्थितम् शैलम् इव असुरम् ॥४-४८-१८॥
Vālmīki 4.48.19
गाढम् परिहिताः सर्वे दृष्ट्वा तम् पर्वत उपमम् ।सो अपि तान् वानरान् सर्वान् नष्टाः स्थ इति अब्रवीत् बली ॥४-४८-१९॥
Vālmīki 4.48.20
अभ्यधावत सम्क्रुद्धो मुष्टिम् उद्यम्य संगतम् ।तम् आपतन्तम् सहसा वालि पुत्रो अंगदः तदा ॥४-४८-२०॥
Vālmīki 4.48.21
रावणो अयम् इति ज्ञात्वा तलेन अभिजघान ह ।स वालि पुत्र अभिहतो वक्त्रात् शोणितम् उद्वमन् ॥४-४८-२१॥
Vālmīki 4.48.22
असुरो न्यपतत् भूमौ पर्यस्त इव पर्वतः ।ते तु तस्मिन् निर् उच्छ्वासे वानरा जित काशिनः ॥४-४८-२२॥
Vālmīki 4.48.23
व्यचिन्वन् प्रायशः तत्र सर्वम् तत् गिरि गह्वरम् ।विचितम् तु ततः सर्वम् सर्वे ते कानन ओकसः ॥४-४८-२३॥
Vālmīki 4.48.24
अन्यत् एव अपरम् घोरम् विविशुर् गिरि गह्वरम् ।ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः ।एकांते वृक्ष मूले तु निषेदुर् दीन मानसाः ॥४-४८-२४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷