🪷 किष्किन्धाकाण्ड · Sarga 47
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 47 · 14 ślokas
🪷 Devanāgarī Ślokas
दर्शनार्थम् तु वैदेह्याः सर्वतः कपि कुंजराः ।व्यादिष्टाः कपि राजेन यथा उक्तम् जग्मुर् अंजसा ॥४-४७-१॥
ते सरांसि सरित् कक्षान् आकाशम् नगराणि च ।नदी दुर्गान् तथा शैलान् विचिन्वन्ति समन्ततः ॥४-४७-२॥
सुग्रीवेण समाख्याताः सर्वे वानर यूथपाः ।तत्र देशान् प्रविचिन्वन्ति स शैल वन काननान् ॥४-४७-३॥
विचिन्त्य दिवसम् सर्वे सीता अधिगमने धृताः ।समायान्ति स्म मेदिन्याम् निशा कालेषु वानराः ॥४-४७-४॥
सर्व ऋतुकान् च देशेषु वानराः स फलान् द्रुमान् ।आसाद्य रजनीम् शय्याम् चक्रुः सर्वेषु अहस्सु ते ॥४-४७-५॥
तत् अहः प्रथमम् कृत्वा मासे प्रस्रवणम् गताः ।कपि राजेन संगम्य निराशाः कपि कुंजराः ॥४-४७-६॥
विचित्य तु दिशम् पूर्वाम् यथा उक्ताम् सचिवैः सह ।अदृष्ट्वा विनतः सीताम् आजगाम महाबलः ॥४-४७-७॥
दिशम् अपि उत्तराम् सर्वाम् विविच्य स महाकपिः ।आगतः सह सैन्येन वीरः शतबलिः तदा ॥४-४७-८॥
सुषेणः पश्चिमाम् आशाम् विविच्य सह वानरैः ।समेत्य मासे पूर्णे तु सुग्रीवम् उपचक्रमे ॥४-४७-९॥
तम् प्रस्रवण पृष्ठस्थम् समासाद्य अभिवाद्य च ।आसीनम् सह रामेण सुग्रीवम् इदम् अब्रुवन् ॥४-४७-१०॥
विचिताः पर्वताः सर्वे वनानि गहनानि च ।निम्नगाः सागर अन्ताः च सर्वे जनपदाः तथा ॥४-४७-११॥
गुहाः च विचिताः सर्वा याः च ते परिकीर्तिताः ।विचिताः च महागुल्मा लता वितत संतताः ॥४-४७-१२॥
गहनेषु च देशेषु दुर्गेषु विषमेषु च ।सत्त्वानि अतिप्रमाणानि विचितानि हतानि च ।ये चैव गहना देशा विचिताः ते पुनः पुनः ॥४-४७-१३॥
उदार सत्त्व अभिजनो हनूमान्स मैथिलीम् ज्ञास्यसि वानरेन्द्र ।दिशम् तु याम् एव गता तु सीताताम् आस्थितो वायु सुतो हनूमान् ॥४-४७-१४॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 46
- Next: Kiṣkindhā-Kāṇḍa Sarga 48 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Kiṣkindhā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷