🪷 किष्किन्धाकाण्ड · Sarga 46
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 46 · 24 ślokas
🪷 Devanāgarī Ślokas
गतेषु वानरेन्द्रेषु रामः सुग्रीवम् अब्रवीत् ।कथम् भवान् विजानीते सर्वम् वै मण्डलम् भुवः ॥४-४६-१॥
सुग्रीवः च ततो रामम् उवाच प्रणत आत्मवान् ।श्रूयताम् सर्वम् आख्यास्ये विस्तरेण वचो मम ॥४-४६-२॥
यदा तु दुंदुभिम् नाम दानवम् महिष आकृतिम् ।परिकालयते वाली मलयम् प्रति पर्वतम् ॥४-४६-३॥
तदा विवेश महिषो मलयस्य गुहाम् प्रति ।विवेश वाली तत्र अपि मलयम् तत् जिघांसया ॥४-४६-४॥
ततो अहम् तत्र निक्षिप्तो गुहा द्वारि विनीतवत् ।न च निष्क्रमते वाली तदा संवत्सरे गते ॥४-४६-५॥
ततः क्षतज वेगेन आपुपूरे तदा बिलम् ।तत् अहम् विस्मितो दृष्ट्वा भ्रातुः शोक विष अर्दितः ॥४-४६-६॥
अथ अहम् गत बुद्धिः तु सुव्यक्तम् निहतो गुरुः ।शिला पर्वत संकाशा बिल द्वारि मया कृता ॥४-४६-७॥
अशक्नुवन् निष्क्रमितुम् महिषो विनशिष्यति ।ततो अहम् आगाम् किष्किंधाम् निराशः तस्य जीविते ॥४-४६-८॥
राज्यम् च सुमहत् प्राप्य ताराम् च रुमया सह ।मित्रैः च सहितः तत्र वसामि विगत ज्वरः ॥४-४६-९॥
आजगाम ततो वाली हत्वा तम् दानवर्षभः ।ततो अहम् अददाम् राज्यम् गौरवात् भय यंत्रितः ॥४-४६-१०॥
स माम् जिघांसुः दुष्टात्मा वाली प्रव्यथित इन्द्रियः ।परिकालयते क्रोधात् धावंतम् सचिवैः सह ॥४-४६-११॥
ततो अहम् वालिना तेन सानुबन्धः प्रधावितः ।नदीः च विविधाः पश्यन् वनानि नगराणि च ॥४-४६-१२॥
आदर्श तल संकाशा ततो वै पृथिवी मया ।अलात चक्र प्रतिमा दृष्टा गोष्पदवत् तदा - कृता ॥४-४६-१३॥
पूर्वम् दिशाम् ततो गत्वा पश्यामि विविधान् द्रुमान् ।पर्वतान् स दरीन् रम्यान् सरांसि विविधानि च ॥४-४६-१४॥
उदयम् तत्र पश्यामि पर्वतम् धातु मण्डितम् ।क्षीरोदम् सागरम् चैव नित्यम् अप्सर आलयम् ॥४-४६-१५॥
परिकाल्यमानः तदा वालिना अभिद्रुतः हि अहम् ।पुनः आवृत्य सहसा प्रस्थितो अहम् तदा विभो ॥४-४६-१६॥
दिशः तस्याः ततो भूयः प्रस्थितो दक्षिणम् दिशम् ।विन्ध्य पादप संकीर्णाम् चन्दन द्रुम शोभिताम् ॥४-४६-१७॥
द्रुम शैल अन्तरे पश्यन् भूयो दक्षिणतो अपराअम् ।अपराम् च दिशम् प्राप्तो वालिना समभिद्रुतः ॥४-४६-१८॥
स पश्यन् विविधान् देशान् अस्तम् च गिरि सत्तमम् ।प्राप्य च अस्तम् गिरि श्रेष्ठम् उत्तरम् संप्रधावितः ॥४-४६-१९॥
हिमवंतम् च मेरुम् च समुद्रम् च तथा उत्तरम् ।यदा न विन्दे शरणम् वालिना समभिद्रुतः ॥४-४६-२०॥
ततो माम् बुद्धि संपन्नो हनुमान् वाक्यम् अब्रवीत् ।इदानीम् मे स्मृतम् राजन् यथा वाली हरीश्वरः ॥४-४६-२१॥
मतंगेन तदा शप्तो हि अस्मिन् आश्रम मण्डले ।प्रविशेत् यदि वै वाली मूर्धा अस्य शतधा भवेत् ॥४-४६-२२॥
तत्र वासः सुखो अस्माकम् निर्उद्विग्नो भविष्यति ।ततः पर्वतम् आसाद्य ऋश्यमूकम् नृपात्मज ॥४-४६-२३॥
न विवेश तदा वाली मतंगस्य भयात् तदा ।एवम् मया तदा राजन् प्रत्यक्षम् उपलक्षितम् ।पृथिवी मण्डलम् सर्वम् गुहाम् अस्मि आगतः ततः ॥४-४६-२४॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 45
- Next: Kiṣkindhā-Kāṇḍa Sarga 47 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Kiṣkindhā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷