🪷 किष्किन्धाकाण्ड · Sarga 45

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 45 · 17 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.45local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.45.1
सर्वाः च आहूय सुग्रीवः प्लवगान् प्लवगर्षभः ।समस्तान् च अब्रवीत् राजा राम कार्यार्थ सिद्धये ॥४-४५-१॥
Vālmīki 4.45.2
एवम् एतत् विचेतव्यम् भवद्भिः वानरोत्तमैः ।तत् उग्र शासनम् भर्तुर् विज्ञाय हरि पुंगवाः ॥४-४५-२॥
Vālmīki 4.45.3
शलभा इव संछाद्य मेदिनीम् संप्रतस्थिरे ।रामः प्रस्रवणे तस्मिन् न्यवसत् सह लक्ष्मणः ॥४-४५-३॥
Vālmīki 4.45.4
प्रतीक्षमाणः तम् मासम् यः सीता अधिगमे कृतः ।उत्तराम् तु दिशम् रम्याम् गिरि राज समावृताम् ॥४-४५-४॥
Vālmīki 4.45.5
प्रतस्थे सहसा वीरो हरिः शतबलिः तदा ।पूर्वाम् दिशम् प्रति ययौ विनतो हरि यूथपः ॥४-४५-५॥
Vālmīki 4.45.6
तारा अंगदादि सहितः प्लवगः पवनात्मजः ।अगस्त्य चरिताम् आशाम् दक्षिणाम् हरि यूथपः ॥४-४५-६॥
Vālmīki 4.45.7
पश्चिमाम् तु दिशम् घोराम् सुषेणः प्लवगेश्वरः ।प्रतस्थे हरि शार्दूलो दिशम् वरुण पालिताम् ॥४-४५-७॥
Vālmīki 4.45.8
ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् ।कपि सेना पतीन् वीरो मुमोद सुखितः सुखम् ॥४-४५-८॥
Vālmīki 4.45.9
एवम् संचोदिताः सर्वे राज्ञा वानर यूथपाः ।स्वाम् स्वाम् दिशम् अभिप्रेत्य त्वरिताः संप्रतस्थिरे ॥४-४५-९॥
Vālmīki 4.45.10
नदन्तः च उन्नदन्तः च गर्जन्तः च प्लवंगमाः ।क्ष्वेलन्तो धावमानाः च विनदन्तो महाबलाः ॥४-४५-१०॥
Vālmīki 4.45.11
एवम् संचोदिताः सर्वे राज्ञा वानर यूथपाः ।आनयिष्यामहे सीताम् हनिष्यामः च रावणम् ॥४-४५-११॥
Vālmīki 4.45.12
अहम् एको वधिष्यामि प्राप्तम् रावणम् आहवे ।ततः च उन्मथ्य सहसा हरिष्ये जनक आत्मजाम् ॥४-४५-१२॥
Vālmīki 4.45.13
वेपमानम् श्रमेण अद्य भवद्भिः स्थीयताम् इति ।एक एव आहरिष्यामि पातालात् अपि जानकीम् ॥४-४५-१३॥
Vālmīki 4.45.14
विधमिष्यामि अहम् वृक्षान् दारयिष्यामि अहम् गिरीन् ।धरणीम् दारयिष्यामि क्षोभयिष्यामि सागरान् ॥४-४५-१४॥
Vālmīki 4.45.15
अहम् योजन संख्यायाः प्लविता न अत्र संशयः ।शतम् योजन संख्यायाः शतम् समधिकम् हि अहम् ॥४-४५-१५॥
Vālmīki 4.45.16
भू तले सागरे वा अपि शैलेषु च वनेषु च ।पातालस्य अपि वा मध्ये न मम आच्छिद्यते गतिः ॥४-४५-१६॥
Vālmīki 4.45.17
इति एकैकः तदा तत्र वानरा बल दर्पिताः ।ऊचुः च वचनम् तस्य हरि राजस्य सन्निधौ ॥४-४५-१७॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷