🪷 किष्किन्धाकाण्ड · Sarga 44
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 44 · 17 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.44local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
विशेषेण तु सुग्रीवो हनूमति अर्थम् उक्तवान् ।स हि तस्मिन् हरि श्रेष्ठे निश्चितार्थो अर्थ साधने ॥४-४४-१॥
अब्रवीत् च हनूमंतम् विक्रंतम् अनिल आत्मजम् ।सुग्रीवः परम प्रीतः प्रभुः सर्व वन ओकसाम् ॥४-४४-२॥
न भूमौ न अंतरिक्षे वा न अंबरे न अमर आलये ।न अप्सु वा गति संगम् ते पश्यामि हरि पुम्गव ॥४-४४-३॥
स असुराः सह गंधर्वाः स नाग नर देवताः ।विदिताः सर्व लोकाः ते स सागर धरा धराः ॥४-४४-४॥
गतिः वेगः च तेजः च लाघवम् च महाकपे ।पितुः ते सदृशम् वीर मारुतस्य महा ओजसः ॥४-४४-५॥
तेजसा वा अपि ते भूतम् न समम् भुवि विद्यते ।तत् यथा लभ्यते सीता तत् त्वम् एव अनुचिंतय ॥४-४४-६॥
त्वयि एव हनुमन् अस्ति बलम् बुद्धिः पराक्रमः ।देश काल अनुवृत्तिः च नयः च नय पण्डित ॥४-४४-७॥
ततः कार्य समासंगम् अवगम्य हनूमति ।विदित्वा हनुमन्तम् च चिन्तयामास राघवः ॥४-४४-८॥
सर्वथा निश्चित अर्थो अयम् हनूमति हरि ईश्वरः ।निश्चित अर्थतरः च अपि हनूमान् कार्य साधने ॥४-४४-९॥
तत् एवम् प्रस्थितस्य अस्य परिज्ञातस्य कर्मभिः ।भर्त्रा परिगृहीतस्य ध्रुवः कार्य फलोदयः ॥४-४४-१०॥
तम् समीक्ष्य महातेजा व्यवसायोत्तरम् हरिम् ।कृतार्थ इव संहृष्टः प्रहृष्ट इन्द्रिय मानसः ॥४-४४-११॥
ददौ तस्य ततः प्रीतः स्व नामांक उपशोभितम् ।अंगुलीयम् अभिज्ञानम् राजपुत्र्याः परंतपः ॥४-४४-१२॥
अनेन त्वाम् हरिश्रेष्ठ चिह्नेन जनकाअत्मजा ।मत् सकाशात् अनुप्राप्तम् अनुद्विग्ना अनुपश्यति ॥४-४४-१३॥
व्यवसायः च ते वीर सत्त्व युक्तः च विक्रमः ।सुग्रीवस्य च संदेशः सिद्धिम् कथयति इव मे ॥४-४४-१४॥
स तत् गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृतांजलिः ।वन्दित्वा चरणौ चैव प्रस्थितः प्लवगर्षभः ॥४-४४-१५॥
स तत् प्रकर्षन् हरिणाम् महत् बलम्बभूव वीरः पवनात्मजः कपिः ।गत अंबुदे व्योम्नि विशुद्ध मण्डलःशशी इव नक्षत्र गणोपशोभितः ॥४-४४-१६॥
अतिबल बलम् आश्रितः तव अहम्हरि वर विक्रम विक्रमैः अनल्पैः ।पवन सुत यथा अधिगम्यते साजनक सुता हनुमन् तथा कुरुष्व ॥४-४४-१७॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 43
- Next: Kiṣkindhā-Kāṇḍa Sarga 45 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷