🪷 किष्किन्धाकाण्ड · Sarga 43

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 43 · 62 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.43local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.43.1
ततः संदिश्य सुग्रीवः श्वशुरम् पश्चिमाम् दिशम् ।वीरम् शतबलिम् नाम वानरम् वानररेश्वर ॥४-४३-१॥
Vālmīki 4.43.2
उवाच राजा सर्वज्ञः सर्व वानर सत्तम ।वाक्यम् आत्म हितम् चैव रामस्य च हितम् तदा ॥४-४३-२॥
Vālmīki 4.43.3
वृतः शत सहस्रेण त्वत् विधानाम् वन ओकसाम् ।वैवस्वत सुतैः सार्धम् प्रविष्ठ सर्व मंत्रिभिः ॥४-४३-३॥
Vālmīki 4.43.4
दिशम् हि उदीचीम् विक्रान्त हिम शैल अवतंसिकाम् ।सर्वतः परिमार्गध्वम् राम पत्नीम् यशस्विनीम् ॥४-४३-४॥
Vālmīki 4.43.5
अस्मिन् कार्ये विनिवृत्ते कृते दाशरथेः प्रिये ।ऋणान् मुक्ता भविष्यामः कृत अर्था अर्थविदाम् वराः ॥४-४३-५॥
Vālmīki 4.43.6
कृतम् हि प्रियम् अस्माकम् राघवेण महात्मना ।तस्य चेत् प्रतिकारो अस्ति सफलम् जीवितम् भवेत् ॥४-४३-६॥
Vālmīki 4.43.7
अर्थिनः कार्य निर्वृत्तिम् अकर्तुम् अपि यः चरेत् ।तस्य स्यात् सफलम् जन्म किम् पुनः पूर्व कारिणः ॥४-४३-७॥
Vālmīki 4.43.8
एताम् बुद्धिम् समास्थाय दृश्यते जानकी यथा ।तथा भवद्भिः कर्तव्यम् अस्मत् प्रिय हित एषिभिः ॥४-४३-८॥
Vālmīki 4.43.9
अयम् हि सर्व भूतानाम् मान्यः तु नर सत्तमः ।अस्मासु च गतः प्रीतिम् रामः पर पुरम् जयः ॥४-४३-९॥
Vālmīki 4.43.10
इमानि बहु दुर्गाणि नद्यः शैल अंतराणि च ।भवन्तः परिमार्गन्तु बुद्धि विक्रम संपदा ॥४-४३-१०॥
Vālmīki 4.43.11
तत्र म्लेच्छान् पुलिन्दान् च शूरसेनान् तथैव च ।प्रस्थालान् भरतान् चैव कुरूम् च सह मद्रकैः ॥४-४३-११॥
Vālmīki 4.43.12
कांबोज यवनान् चैव शकान् पत्तनानि च ।अन्वीक्ष्य दरदान् चैव हिमवन्तम् विचिन्वथ ॥४-४३-१२॥
Vālmīki 4.43.13
लोध्र पद्मक खण्डेषु देवदारु वनेषु च ।रावणः सह वैदेह्या मार्गितव्या ततः ततः ॥४-४३-१३॥
Vālmīki 4.43.14
ततः सोम आश्रमम् गत्वा देव गन्धर्व सेवितम् ।कालम् नाम महासानुम् पर्वतम् तम् गमिष्यथ ॥४-४३-१४॥
Vālmīki 4.43.15
महत्सु तस्य शैलेषु पर्वतेषु गुहासु च ।विचिन्वत महाभागाम् राम पत्नीम् अनिन्दिताम् ॥४-४३-१५॥
Vālmīki 4.43.16
तम् अतिक्रम्य शैलेन्द्रम् हेम गर्भम् महागिरिम् ।ततः सुदर्शनम् नाम पर्वतम् गन्तुम् अर्हथ ॥४-४३-१६॥
Vālmīki 4.43.17
ततो देवसखो नाम पर्वतः पतग आलय ।नाना पक्षि समाकीर्णो विविध द्रुम भूषितः ॥४-४३-१७॥
Vālmīki 4.43.18
तस्य कानन खण्डेषु निर्झरेषु गुहासु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४३-१८॥
Vālmīki 4.43.19
तम् अतिक्रम्य च आकाशम् सर्वतः शत योजनम् ।अपर्वत नदी वृक्षम् सर्व सत्त्व विवर्जितम् ॥४-४३-१९॥
Vālmīki 4.43.20
तत् तु शीघ्रम् अतिक्रम्य कांतारम् रोम हर्षणम् ।कैलासम् पाण्डुरम् प्राप्य हृष्टा यूयम् भविष्यथ ॥४-४३-२०॥
Vālmīki 4.43.21
तत्र पाण्डुर मेघाभम् जाम्बूनद परिष्कृतम् ।कुबेर भवनम् रम्यम् निर्मितम् विश्वकर्मणा ॥४-४३-२१॥
Vālmīki 4.43.22
विशाला नलिनी यत्र प्रभूत कमलोत्पला ।हंस कारण्डव आकीर्णा अप्सरो गण सेविता ॥४-४३-२२॥
Vālmīki 4.43.23
तत्र वैश्रवणो राजा सर्व भूत नमस्कृतः ।धनदो रमते श्रीमान् गुह्यकैः सह यक्ष राट् ॥४-४३-२३॥
Vālmīki 4.43.24
तस्य चन्द्र निकशेषु पर्वतेषु गुहासु च ।रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४३-२४॥
Vālmīki 4.43.25
क्रौन्चम् तु गिरिम् आसाद्य बिलम् तस्य सुदुर्गमम् ।अप्रमत्तैः प्रवेष्टव्यम् दुष्प्रवेशम् हि तत् स्मृतम् ॥४-४३-२५॥
Vālmīki 4.43.26
वसन्ति हि महात्मानः तत्र सूर्य सम प्रभाः ।देवैः अभ्यर्थिताः सम्यक् देव रूपा महर्षयः ॥४-४३-२६॥
Vālmīki 4.43.27
क्रौन्चस्य तु गुहाः च अन्याः सानूनि शिखराणि च ।निर्दराः च नितंबाः च विचेतव्याः ततः ततः ॥४-४३-२७॥
Vālmīki 4.43.28
अवृक्षम् काम शैलम् च मानसम् विहग आलयम् ।न गतिः तत्र भूतानाम् देवानाम् न च रक्षसाम् ॥४-४३-२८॥
Vālmīki 4.43.29
स च सर्वैः विचेतव्यः स सानु प्रस्थ भूधरः ।क्रौन्चम् गिरिम् अतिक्रम्य मैनाको नाम पर्वतः ॥४-४३-२९॥
Vālmīki 4.43.30
मयस्य भवनम् तत्र दानवस्य स्वयम् कृतम् ।मैनाकः तु विचेतव्यः स सानु प्रस्थ कंदरः ॥४-४३-३०॥
Vālmīki 4.43.31
स्त्रीणाम् अश्व मुखीनाम् च निकेताः तत्र तत्र तु ।तम् देशम् समतिक्रम्य आश्रमम् सिद्ध सेवितम् ॥४-४३-३१॥
Vālmīki 4.43.32
सिद्धा वैखानसाः तत्र वालखिल्याः च तापसाः ।वन्दितव्याः ततः सिद्धाः तापसा वीत कल्मषाः ॥४-४३-३२॥
Vālmīki 4.43.33
प्रष्टव्याः च अपि सीतायाः प्रवृत्तिम् विनय अन्वितैः ।हेम पुष्कर संछन्नम् तत्र वैखानसम् सरः ॥४-४३-३३॥
Vālmīki 4.43.34
तरुण आदित्य संकाशैः हंसैः विचरितम् शुभैः ।औपवाह्यः कुबेरस्य सर्वभौम इति स्मृतः ॥४-४३-३४॥
Vālmīki 4.43.35
गजः पर्येति तम् देशम् सदा सह करेणुभिः ।तत् सारः समतिक्रम्य नष्ट चन्द्र दिवाकरम् ।अनक्षत्र गणम् व्योम निष्पयोदम् अनाअदितम् ॥४-४३-३५॥
Vālmīki 4.43.36
गभस्तिभिः इव अर्कस्य स तु देशः प्रकाशते ।विश्राम्यद्भिः तपः सिद्धैः देव कल्पैः स्वयंप्रभैः ॥४-४३-३६॥
Vālmīki 4.43.37
तम् तु देशम् अतिक्रम्य शैलोदा नाम निम्नगा ।उभयोः तीरयोः तस्याः कीचका नाम वेणवः ॥४-४३-३७॥
Vālmīki 4.43.38
ते नयंति परम् तीरम् सिद्धान् प्रत्यानयन्ति च ।उत्तराः कुरवः तत्र कृत पुण्य प्रतिश्रियाः ॥४-४३-३८॥
Vālmīki 4.43.39
ततः कांचन पद्माभिः पद्मिनीभिः कृतोदकाः ।नील वैदूर्य पत्राढ्या नद्यः तत्र सहस्रशः ॥४-४३-३९॥
Vālmīki 4.43.40
रक्तोत्पल वनैः च अत्र मण्डिताः च हिरण्मयैः ।तरुण आदित्य संकाशा भान्ति तत्र जलाशयाः ॥४-४३-४०॥
Vālmīki 4.43.41
महाअर्ह मणि पत्रैः च कांचन प्रभ केसरैः ।नीलोत्पल वनैः चित्रैः स देशः सर्वतो वृतः ॥४-४३-४१॥
Vālmīki 4.43.42
निस्तुलाभिः च मुक्ताभिः मणिभिः च महाधनैः ।उद्भूत पुलिनाः तत्र जातरूपैः च निम्नगाः ॥४-४३-४२॥
Vālmīki 4.43.43
सर्व रत्नमयैः चित्रैः अवगाढा नगोत्तमैः ।जातरूपमयैः च अपि हुताशन सम प्रभैः ॥४-४३-४३॥
Vālmīki 4.43.44
नित्य पुष्प फलाः तत्र नगाः पत्ररथ आकुलाः ।दिव्य गन्ध रस स्पर्शाः सर्व कामान् स्रवन्ति च ॥४-४३-४४॥
Vālmīki 4.43.45
नाना आकाराणि वासांसि फलन्ति अन्ये नगोत्तमाः ।मुक्ता वैदूर्य चित्राणि भूषणानि तथैव च ।स्त्रीणाम् यानि अनुरूपाणि पुरुषाणाम् तथैव च ॥४-४३-४५॥
Vālmīki 4.43.46
सर्व ऋतु सुख सेव्यानि फलन्ति अन्ये नगोत्तमाः ।महा अर्हाणि मणि चित्राणि फलन्ति अन्ये नगोत्तमाः ॥४-४३-४६॥
Vālmīki 4.43.47
शयनानि प्रसूयन्ते चित्र आस्तारणवन्ति च ।मनः कान्तानि माल्यानि फलन्ति अत्र अपरे द्रुमाः ॥४-४३-४७॥
Vālmīki 4.43.48
पानानि च महा अर्हाणि भक्ष्याणि विविधानि च ।स्त्रियः च गुण संपन्ना रूप यौवन लक्षिताः ॥४-४३-४८॥
Vālmīki 4.43.49
गन्धर्वाः किंनरा सिद्धा नागा विद्याधराः तथा ।रमन्ते सहिताः तत्र नारीभिः भास्वर प्रभाः ॥४-४३-४९॥
Vālmīki 4.43.50
सर्वे सुकृत कर्माणः सर्वे रति परायणाः ।सर्वे काम अर्थ सहिता वसंति सह योषितः ॥४-४३-५०॥
Vālmīki 4.43.51
गीत वादित्र निर्घोषः स उत्कृष्ट हसित स्वनः ।श्रूयते सततम् तत्र सर्व भूत मनोरमः ॥४-४३-५१॥
Vālmīki 4.43.52
तत्र न अमुदितः कश्चिन् न अत्र कश्चित् असत् प्रियः ।अहनि अहनि वर्धन्ते गुणाः तत्र मनोरमाः ॥४-४३-५२॥
Vālmīki 4.43.53
तम् अतिक्रम्य शैलेन्द्रम् उत्तरः पय्साम् निधिः ।तत्र सोम गिरिर् नाम मध्ये हेममयो महान् ॥४-४३-५३॥
Vālmīki 4.43.54
इन्द्र लोक गता ये च ब्रह्म लोक गताः च ये ।देवाः तम् समवेक्षन्ते गिरि राजम् दिवम् गताः ॥४-४३-५४॥
Vālmīki 4.43.55
स तु देशो विसूर्यो अपि तस्य भासा प्रकाशते ।सूर्य लक्ष्म्या अभिविज्ञेयः तपता इव विवस्वता ॥४-४३-५५॥
Vālmīki 4.43.56
भगवान् तत्र विश्वात्मा शम्भुः एकादश आत्मकः ।ब्रह्मा वसति देवेशो ब्रह्म ऋषि परिवारितः ॥४-४३-५६॥
Vālmīki 4.43.57
न कथंचन गंतव्यम् कुरूणाम् उत्तरेण वः ।अन्येषाम् अपि भूतानाम् न अनुक्रामति वै गतिः ॥४-४३-५७॥
Vālmīki 4.43.58
सा हि सोम गिरिः नाम देवानाम् अपि दुर्गमः ।तम् आलोक्य ततः क्षिप्रम् उपावर्तितुम् अर्हथ ॥४-४३-५८॥
Vālmīki 4.43.59
एतावत् वानरैः शक्यम् गंतुम् वानर पुंगवाः ।अभास्करम् अमर्यादम् न जानीमः ततः परम् ॥४-४३-५९॥
Vālmīki 4.43.60
सर्वम् एतत् विचेतव्यम् यन् मया परिकीर्तितम् ।यत् अन्यत् अपि न उक्तम् च तत्र अपि क्रियताम् मतिः ॥४-४३-६०॥
Vālmīki 4.43.61
ततः कृतम् दाशरथेः महत् प्रियम्महत्तरम् च अपि ततो मम प्रियम् ।कृतम् भविष्यति अनिलोअनलोउपमाविदेहजा दर्शनजेन कर्मणा ॥४-४३-६१॥
Vālmīki 4.43.62
ततः कृतार्थाः सहिताः सबान्धवामया अर्चिताः सर्व गुणैः मनो रमैः ।चरिष्यथ उर्वीम् प्रतिशान्त शत्रवाअःसह प्रिया भूत धराः प्लवंगमाः ॥४-४३-६२॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷