🪷 किष्किन्धाकाण्ड · Sarga 63

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 63 · 15 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 4.63.1
एतैः अन्यैः च बहुभिः वाक्यैः वाक्य विशारदः ।माम् प्रशस्य अभ्यनुज्ञाप्य प्रविष्टः स स्वम् आलयम् ॥४-६३-१॥
Vālmīki 4.63.2
कंदरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः ।अहम् विंध्यम् समारुह्य भवतः प्रतिपालये ॥४-६३-२॥
Vālmīki 4.63.3
अद्य तु एतस्य कालस्य साग्रम् वर्ष शतम् गतम् ।देश काल प्रतीक्षो अस्मि हृदि कृत्वा मुनेः वचः ॥४-६३-३॥
Vālmīki 4.63.4
महाप्रस्थानम् आसाद्य स्वर् गते तु निशाकरे ।माम् निर्दहति संतापो वितर्कैः बहुभिः वृतम् ॥४-६३-४॥
Vālmīki 4.63.5
उदिताम् मरणे बुद्धिम् मुनि वाक्यैः निवर्तये ।बुद्धिः या तेन मे दत्ता प्राणानाम् रक्षणे मम ॥४-६३-५॥
Vālmīki 4.63.6
सा मे अपनयते दुःखम् दीप्ता इव अग्नि शिखा तमः ।बुध्यता च मया वीर्यम् रावणस्य दुरात्मनः ॥४-६३-६॥
Vālmīki 4.63.7
पुत्रः संतर्जितो वाग्भिः न त्राता मैथिली कथम् ।तस्या विलपितम् श्रुत्वा तौ च सीता वियोजितौ ॥४-६३-७॥
Vālmīki 4.63.8
न मे दशरथ स्नेहात् पुत्रेण उत्पादितम् प्रियम् ।तस्य तु एवम् ब्रुवाणस्य संहतैः वानरैः सह ॥४-६३-८॥
Vālmīki 4.63.9
उत्पेततुः तदा पक्षौ समक्षम् वन चारिणाम् ।स दृष्ट्वा स्वाम् तनुम् पक्षैः उद्गतैः अरुण च्छदैः ॥४-६३-९॥
Vālmīki 4.63.10
प्रहर्षम् अतुलम् लेभे वानरान् च इदम् अब्रवीत् ।निशाकरस्य राजर्षेः प्रभावात् अमित ओजसः ॥४-६३-१०॥
Vālmīki 4.63.11
आदित्य रश्मि निर्दग्धौ पक्षौ पुनः उपस्थितौ ।यौवने वर्तमानस्य मम आसीत् यः पराक्रमः ॥४-६३-११॥
Vālmīki 4.63.12
तम् एव अद्य अवगच्छामि बलम् पौरुषम् एव च ।सर्वथा क्रियताम् यत्नः सीताम् अधिगमिष्यथ ॥४-६३-१२॥
Vālmīki 4.63.13
पक्ष लाभो मम अयम् वः सिद्धि प्रत्यय कारकः ।इति उक्त्वा तान् हरीन् सर्वान् संपातिः पतगोत्तम ॥४-६३-१३॥
Vālmīki 4.63.14
उत्पपात गिरेः शृंगात् जिज्ञासुः ख गमो गतिम् ।तस्य तत् वचनम् श्रुत्वा प्रतिसंहृष्ट मानसाः ।बभूवुः हरि शार्दूला विक्रम अभ्युदय उन्मुखाः ॥४-६३-१४॥
Vālmīki 4.63.15
अथ पवन समान विक्रमाःप्लवग वराः प्रतिलब्ध पौरुषाः ।अभिजित् अभिमुखाम् दिशम् ययुःजनक सुता परिमार्गण उन्मुखाः ॥४-६३-१५॥

Navigation

Continue with Kiṣkindhā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷