🪷 किष्किन्धाकाण्ड · Sarga 64

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 64 · 22 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.64local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.64.1
आख्याता गृध्र राजेन समुत्प्लुत्य प्लवंगमाः ।संगताः प्रीति संयुक्ता विनेदुः सिंह विक्रमाः ॥४-६४-१॥
Vālmīki 4.64.2
संपातेः वचनम् श्रुत्वा हरयो रावण क्षयम् ।हृष्टाः सागरम् आजग्मुः सीता दर्शन कान्क्षिणः ॥४-६४-२॥
Vālmīki 4.64.3
अभिक्रम्य तु तम् देशम् ददृशुर् भीम विक्रमाः ।कृत्स्नम् लोकस्य महतः प्रतिबिंबम् इव स्थितम् ॥४-६४-३॥
Vālmīki 4.64.4
दक्षिणस्य समुद्रस्य समासाद्य उत्तराम् दिशम् ।संनिवेशम् ततः चक्रुः सहिता वानर उत्तमाः ॥४-६४-४॥
Vālmīki 4.64.5
प्रसुप्तम् इव च अन्यत्र क्रीडन्तम् इव च अन्यतः ।क्वचित् पर्वत मात्रैः च जल राशिभिः आवृतम् ॥४-६४-५॥
Vālmīki 4.64.6
संकुलम् दानव इन्द्रैः च पाताल तल वासिभिः ।रोम हर्ष करम् दृष्ट्वा विषेदुः कपिकुंजराः ॥४-६४-६॥
Vālmīki 4.64.7
आकाशम् इव दुष्पारम् सागरम् प्रेक्ष्य वानराः ।विषेदुः सहिता सर्वे कथम् कार्यम् इति ब्रुवन् ॥४-६४-७॥
Vālmīki 4.64.8
विषण्णाम् वाहिनीम् दृष्ट्वा सागरस्य निरीक्षणात् ।आश्वासयामास हरीन् भय आर्तान् हरि सत्तमः ॥४-६४-८॥
Vālmīki 4.64.9
न विषादे मनः कार्यम् विषादो दोषवत्तरः ।विषादो हन्ति पुरुषम् बालम् क्रुद्ध इव उरगः ॥४-६४-९॥
Vālmīki 4.64.10
यो विषादो प्रसहते विक्रमे समुपस्थिते ।तेजसा तस्य हीनस्य पुरुष अर्थो न सिद्ध्यति ॥४-६४-१०॥
Vālmīki 4.64.11
तस्याम् रात्र्याम् व्यतीतायाम् अंगदो वानरैः सह ।हरि वृद्धैः समागम्य पुनर् मंत्रम् अमंत्रयत् ॥४-६४-११॥
Vālmīki 4.64.12
सा वानराणाम् ध्वजिनी परिवार्य अंगदम् बभौ ।वासवम् परिवार्य इव मरुताम् वाहिनी स्थिता ॥४-६४-१२॥
Vālmīki 4.64.13
को अन्यः ताम् वानरीम् सेनाम् शक्तः स्तंभयितुम् भवेत् ।अन्यत्र वालि तनयात् अन्यत्र च हनूमतः ॥४-६४-१३॥
Vālmīki 4.64.14
ततः तान् हरि वृद्धान् च तत् च सैन्यम् अरिन्दमः ।अनुमान्य अंगदः श्रीमान् वाक्यम् अर्थवत् अब्रवीत् ॥४-६४-१४॥
Vālmīki 4.64.15
क इदानीम् महातेजा लंघयिष्यति सागरम् ।कः करिष्यति सुग्रीवम् सत्य सन्धम् अरिन्दमम् ॥४-६४-१५॥
Vālmīki 4.64.16
को वीरो योजन शतम् लंघयेत प्लवंगमाः ।इमान् च यूथपान् सर्वान् मोचयेत् को महाभयात् ॥४-६४-१६॥
Vālmīki 4.64.17
कस्य प्रसादात् दारान् च पुत्रान् चैव गृहाणि च ।इतो निवृत्ताः पश्येम सिद्ध अर्थाः सुखिनो वयम् ॥४-६४-१७॥
Vālmīki 4.64.18
कस्य प्रसादात् रामम् च लक्ष्मणम् च महाबलम् ।अभिगच्छेम संहृष्टाः सुग्रीवम् च महाबलम् ॥४-६४-१८॥
Vālmīki 4.64.19
यदि कश्चित् समर्थो वः सागर प्लवने हरिः ।स ददातु इह नः शीघ्रम् पुण्याम् अभय दक्षिणाम् ॥४-६४-१९॥
Vālmīki 4.64.20
अंगदस्य वचः श्रुत्वा न कश्चित् किंचित् अब्रवीत् ।स्तिमिता इव अभवत् सर्वा सा तत्र हरि वाहिनी ॥४-६४-२०॥
Vālmīki 4.64.21
पुनर् एव अंगदः प्राह तान् हरीन् हरि सत्तमः ।सर्वे बलवताम् श्रेष्ठा भवन्तो दृढ विक्रमाः ।व्यपदेश्य कुले जाताः पूजिताः च अपि अभीक्ष्णशः ॥४-६४-२१॥
Vālmīki 4.64.22
न हि वो गमने संगः कदाचित् अपि कस्यचित् भवेत् ।ब्रुवध्वम् यस्य या शक्तिः प्लवने प्लवगर्षभाः ॥४-६४-२२॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷