🪷 किष्किन्धाकाण्ड · Sarga 19

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 19 · 28 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.19local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.19.1
स वानर महाराजः शयानः शर पीडितः ।प्रत्युक्तो हेतुमद् वाक्यैः न उत्तरम् प्रत्यपद्यत ॥४-१९-१॥
Vālmīki 4.19.2
अश्मभिः परिभिन्न अंगः पादपैर् आहतो भृशम् ।राम बाणेन च आक्रान्तो जीवित अंते मुमोह सः ॥४-१९-२॥
Vālmīki 4.19.3
तम् भार्या बाण मोक्षेण राम दत्तेन संयुगे ।हतम् प्लवग शार्दूलम् तारा शुश्राव वालिनम् ॥४-१९-३॥
Vālmīki 4.19.4
सा सपुत्र अप्रियम् श्रुत्वा वधम् भर्तुः सुदारुणम् ।निष्पपात भृशम् तस्मात् उद्विग्ना गिरि कंदरात् ॥४-१९-४॥
Vālmīki 4.19.5
ये ते अंगद परीवारा वानरा हि महाबलाः ।ते सकार्मुकम् आलोक्य रामम् त्रस्ताः प्रदुद्रुवुः ॥४-१९-५॥
Vālmīki 4.19.6
सा ददर्श ततः त्रस्तान् हरीन् आपततो द्रुतम् ।यूथाद् इव परिभ्रष्टान् मृगान् निहत यूथपान् ॥४-१९-६॥
Vālmīki 4.19.7
तान् उवाच समासाद्य दुःखितान् दुःखिता सती ।राम वित्रासितान् सर्वान् अनुबद्धान् इव इषुभिः ॥४-१९-७॥
Vālmīki 4.19.8
वानरा राज सिंहस्य यस्य यूयम् पुरः सराः ।तम् विहाय सुवित्रस्ताः कस्माद् द्रवत दुर्गताः ॥४-१९-८॥
Vālmīki 4.19.9
राज्य हेतोः स चेत् भ्राता भ्रात्रा कॄरेण पातितः ।रामेण प्रसृतैः दूरात् मार्गणैः दूर पातिभिः ॥४-१९-९॥
Vālmīki 4.19.10
कपि पत्न्या वचः श्रुत्वा कपयः काम रूपिणः ।प्राप्त कालम् अविश्लिष्टम् ऊचुर् वचनम् अंगनाम् ॥४-१९-१०॥
Vālmīki 4.19.11
जीवपुत्रे निवर्तस्व पुत्रम् रक्षस्व च अन्दगम् ।अंतको राम रूपेण हत्वा नयति वालिनम् ॥४-१९-११॥
Vālmīki 4.19.12
क्षिप्तान् वृक्षान् समाविध्य विपुलाः च शिलाः तथा ।वाली वज्र समैर् बाणैर् वज्रेण इव निपातितः ॥४-१९-१२॥
Vālmīki 4.19.13
अभिभूतम् इदम् सर्वम् विद्रुतम् वानरम् बलम् ।अस्मिन् प्लवग शार्दूले हते शक्र सम प्रभे ॥४-१९-१३॥
Vālmīki 4.19.14
रक्ष्यताम् नगरम् शूरैर् अंगदः च अभिषिच्यताम् ।पदस्थम् वालिनः पुत्रम् भजिष्यन्ति प्लवंगमाः ॥४-१९-१४॥
Vālmīki 4.19.15
अथवा अरुचितम् स्थानम् इह ते रुचिरानने ।आविशन्ति हि दुर्गाणि क्षिप्रम् अद्य एव वानराः ॥४-१९-१५॥
Vālmīki 4.19.16
अभार्याः सह भार्याः च सन्ति अत्र वन चारिणः ।लुब्धेभ्यो विप्रलब्धेयः तेभ्यो नः सुमहद् भयम् ॥४-१९-१६॥
Vālmīki 4.19.17
अल्पांतर गतानाम् तु श्रुत्वा वचनम् अंगना ।आत्मनः प्रतिरूपम् सा बभाषे चारु हासिनी ॥४-१९-१७॥
Vālmīki 4.19.18
पुत्रेण मम किम् कार्यम् किम् राज्येन किम् आत्मना ।कपि सिम्हे महा भागे तस्मिन् भर्तरि नश्यति ॥४-१९-१८॥
Vālmīki 4.19.19
पाद मूलम् गमिष्यामि तस्य एव अहम् महात्मनः ।यो असौ राम प्रयुक्तेन शरेण विनिपातितः ॥४-१९-१९॥
Vālmīki 4.19.20
एवम् उक्त्वा प्रदुद्राव रुदती शोक मूर्च्छिता ।शिरः च उरः च बाहुभ्याम् दुःखेन समभिघ्नती ॥४-१९-२०॥
Vālmīki 4.19.21
सा व्रजन्ती ददर्श अथ पतिम् निपतितम् भुवि ।हन्तारम् दानव इन्द्राणाम् समरेषु अनिवर्तिनाम् ॥४-१९-२१॥
Vālmīki 4.19.22
क्षेप्तारम् पर्वत इन्द्राणाम् वज्राणाम् इव वासवम् ।महावात समाविष्टम् महामेघ औघ निःस्वनम् ॥४-१९-२२॥
Vālmīki 4.19.23
शक्रतुल्य पराक्रांतम् वृष्ट्वा इव उपरतम् घनम् ।नर्दन्तम् नर्दताम् भीमम् शूरम् शूरेण पातितम् ।शार्दूलेन आमिषस्य अर्थे मृग राजम् इव आहतम् ॥४-१९-२३॥
Vālmīki 4.19.24
अर्चितम् सर्व लोकस्य सपताकम् सवेदिकम् ।नाग हेतोः सुपर्णेन चैत्यम् उन्मथितम् यथा ॥४-१९-२४॥
Vālmīki 4.19.25
अवष्टभ्य अवतिष्ठंतम् ददर्श धनुर् ऊर्जितम् ।रामम् रामानुजम् चैव भर्तुः चैव तथा अनुजम् ॥४-१९-२५॥
Vālmīki 4.19.26
तान् अतीत्य समासाद्य भर्तारम् निहतम् रणे ।समीक्ष्य व्यथिता भूमौ संभ्रांता निपपात ह ॥४-१९-२६॥
Vālmīki 4.19.27
सुप्ता इव पुनर् उत्थाय आर्य पुत्र इति वादिनी ।रुरोद सा पतिम् दृष्ट्वा सम्वीतम् मृत्यु दामभिः ॥४-१९-२७॥
Vālmīki 4.19.28
ताम् अवेक्ष्य तु सुग्रीवः क्रोशन्तीम् कुररीम् इव ।विषादम् अगमत् कष्टम् दृष्ट्वा च अंगदम् आगतम् ॥४-१९-२८॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷