🪷 किष्किन्धाकाण्ड · Sarga 18

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 18 · 66 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.18local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.18.1
इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् ।परुषं वालिना रामो निहतेन विचेतसा ॥४-१८-१॥
Vālmīki 4.18.2
तं निष्प्रभम् इव आदित्यं मुक्त तोयम् इवाम्बुदम् ।उक्त वाक्यं हरि श्रेष्ठम् उपशांतम् इवानलम् ॥४-१८-२॥
Vālmīki 4.18.3
धर्मार्थगुण सम्पन्नम् हरीश्वरमनुत्तमम् ।अधिक्षिप्तस्तदा रामः पश्चात् वालिनम् अब्रवीत् ॥४-१८-३॥
Vālmīki 4.18.4
धर्मम् अर्थञ्च कामञ्च समयञ्च अपि लौकिकम् ।अविज्ञाय कथम् बाल्यात् माम् इह अद्य विगर्हसे ॥४-१८-४॥
Vālmīki 4.18.5
अपृष्ट्वा बुद्धि संपन्नान् वृद्धान् आचार्य संमतान् ।सौम्य वानर चापल्यात् त्वम् माम् वक्तुम् इह इच्छसि ॥४-१८-५॥
Vālmīki 4.18.6
इक्ष्वाकूणाम् इयम् भूमिः स शैल वन कानना ।मृग पक्षि मनुष्याणाम् निग्रह अनुग्रहेषु अपि ॥४-१८-६॥
Vālmīki 4.18.7
ताम् पालयति धर्मात्मा भरतः सत्यवान् ऋजुः ।धर्म काम अर्थ तत्त्वज्ञो निग्रह अनुग्रहे रतः ॥४-१८-७॥
Vālmīki 4.18.8
नयः च विनयः च उभौ यस्मिन् सत्यम् च सुस्थितम् ।विक्रमः च यथा दृष्टः स राजा देश कालवित् ॥४-१८-८॥
Vālmīki 4.18.9
तस्य धर्म कृत आदेशा वयम् अन्ये च पार्थिवः ।चरामो वसुधाम् कृत्स्नाम् धर्म संतानम् इच्छवः ॥४-१८-९॥
Vālmīki 4.18.10
तस्मिन् नृपति शार्दूल भरते धर्म वत्सले ।पालयति अखिलाम् पृथ्वीम् कः चरेत् धर्म विप्रियम् ॥४-१८-१०॥
Vālmīki 4.18.11
ते वयम् मार्ग विभ्रष्टम् स्वधर्मे परमे स्थिताः ।भरत आज्ञाम् पुरस्कृत्य निगृह्णीमो यथा विधि ॥४-१८-११॥
Vālmīki 4.18.12
त्वम् तु संक्लिष्ट धर्मः च कर्मणा च विगर्हितः ।काम तंत्र प्रधानः च न स्थितो राज वर्त्मनि ॥४-१८-१२॥
Vālmīki 4.18.13
ज्येष्ठो भ्राता पिता चैव यः च विद्याम् प्रयच्छति ।त्रयः ते पितरो ज्ञेया धर्मे च पथि वर्तिनः ॥४-१८-१३॥
Vālmīki 4.18.14
यवीयान् आत्मनः पुत्रः शिष्यः च अपि गुणोदितः ।पुत्रवत् ते त्रयः चिंत्या धर्मः चैव अत्र कारणम् ॥४-१८-१४॥
Vālmīki 4.18.15
सूक्ष्मः परम दुर्ज्ञेयः सताम् धर्मः प्लवंगम ।हृदिस्थः सर्व भूतानाम् आत्मा वेद शुभाशुभम् ॥४-१८-१५॥
Vālmīki 4.18.16
चपलः चपलैः सार्धम् वानरैः अकृत आत्मभिः ।जात्यंध इव जात्यन्धैः मंत्रयन् द्रक्ष्यसे नु किम् ॥४-१८-१६॥
Vālmīki 4.18.17
अहम् तु व्यक्तताम् अस्य वचनस्य ब्रवीमि ते ।न हि माम् केवलम् रोषात् त्वम् विगर्हितुम् अर्हसि ॥४-१८-१७॥
Vālmīki 4.18.18
तत् एतत् कारणम् पश्य यत् अर्थम् त्वम् मया हतः ।भ्रातुर् वर्तसि भार्यायाम् त्यक्त्वा धर्मम् सनातनम् ॥४-१८-१८॥
Vālmīki 4.18.19
अस्य त्वम् धरमाणस्य सुग्रीवस्य महात्मनः ।रुमायाम् वर्तसे कामात् स्नुषायाम् पाप कर्मकृत् ॥४-१८-१९॥
Vālmīki 4.18.20
तद् व्यतीतस्य ते धर्मात् काम वृत्तस्य वानर ।भ्रातृ भार्या अभिमर्शे अस्मिन् दण्डो अयम् प्रतिपादितः ॥४-१८-२०॥
Vālmīki 4.18.21
न हि लोक विरुद्धस्य लोक वृत्तात् अपेयुषः ।दण्डात् अन्यत्र पश्यामि निग्रहम् हरि यूथप ॥४-१८-२१॥
Vālmīki 4.18.22
न च ते मर्षये पापम् क्ष्त्रियो अहम् कुलोद्गतः ।औरसीम् भगिनीम् वा अपि भार्याम् वा अपि अनुजस्य यः ॥४-१८-२२॥
Vālmīki 4.18.23
प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः ।भरतः तु महीपालो वयम् तु आदेश वर्तिनः ॥४-१८-२३॥
Vālmīki 4.18.24
त्वम् च धर्मात् अतिक्रान्तः कथम् शक्यम् उपेक्षितुम् ।गुरु धर्म व्यतिक्रान्तम् प्राज्ञो धर्मेण पालयन् ॥४-१८-२४॥
Vālmīki 4.18.25
भरतः काम युक्तानाम् निग्रहे पर्यवस्थितः ।वयम् तु भरत आदेशम् विधिम् कृत्वा हरीश्वर ।त्वत् विधान् भिन्न मर्यादान् निग्रहीतुम् व्यवस्थिताः ॥४-१८-२५॥
Vālmīki 4.18.26
सुग्रीवेण च मे सख्यम् लक्ष्मणेन यथा तथा ।दार राज्य निमित्तम् च निःश्रेयसकरः स मे ॥४-१८-२६॥
Vālmīki 4.18.27
प्रतिज्ञा च मया दत्ता तदा वानर संनिधौ ।प्रतिज्ञा च कथम् शक्या मत् विधेन अनवेक्षितुम् ॥४-१८-२७॥
Vālmīki 4.18.28
तत् एभिः कारणैः सर्वैर् महद्भिः धर्म संहितैः ।शासनम् तव यत् युक्तम् तत् भवान् अनुमन्यताम् ॥४-१८-२८॥
Vālmīki 4.18.29
सर्वथा धर्म इति एव द्रष्टव्यः तव निग्रहः ।वयस्यस्य उपकर्तव्यम् धर्मम् एव अनुपश्यता ॥४-१८-२९॥
Vālmīki 4.18.30
शक्यम् त्वया अपि तत् कार्यम् धर्मम् एव अनुवर्तता ।श्रूयते मनुना गीतौ श्लोकौ चारित्र वत्सलौ।गृहीतौ धर्म कुशलैः तथा तत् चरितम् मयाअ ॥४-१८-३०॥
Vālmīki 4.18.31
राजभिः धृत दण्डाः च कृत्वा पापानि मानवाः ।निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥४-१८-३१॥
Vālmīki 4.18.32
शसनात् वा अपि मोक्षात् वा स्तेनः पापात् प्रमुच्यते ।राजा तु अशासन् पापस्य तद् आप्नोति किल्बिषम् ॥४-१८-३२॥
Vālmīki 4.18.33
आर्येण मम मान्धात्रा व्यसनम् घोरम् ईप्सितम् ।श्रमणेन कृते पापे यथा पापम् कृतम् त्वया ॥४-१८-३३॥
Vālmīki 4.18.34
अन्यैः अपि कृतम् पापम् प्रमत्तैः वसुधा अधिपैः ।प्रायश्चित्तम् च कुर्वन्ति तेन तत् शाम्यते रजः ॥४-१८-३४॥
Vālmīki 4.18.35
तत् अलम् परितापेन धर्मतः परिकल्पितः ।वधो वानरशार्दूल न वयम् स्व वशे स्थिताः ॥४-१८-३५॥
Vālmīki 4.18.36
श्रुणु च अपि अपरम् भूयः कारणम् हरिपुंगव ।तत् श्रुत्वा हि महत् वीर न मन्युम् कर्तुम् अर्हसि ॥४-१८-३६॥
Vālmīki 4.18.37
न मे तत्र मनस्तापो न मन्युः हरिपुंगव ।वागुराभिः च पाशैः च कूटैः च विविधैः नराः ॥४-१८-३७॥
Vālmīki 4.18.38
प्रतिच्छन्नाः च दृश्याः च गृह्णन्ति सुबहून् मृगान् ।प्रधावितान् वा वित्रस्तान् विस्रब्धान् अतिविष्ठितान् ॥४-१८-३८॥
Vālmīki 4.18.39
प्रमत्तान् अप्रमत्तान् वा नरा माम्स अशिनो भृशम् ।विध्यन्ति विमुखाम् च अपि न च दोषो अत्र विद्यते ॥४-१८-३९॥
Vālmīki 4.18.40
यान्ति राजर्षयः च अत्र मृगयाम् धर्म कोविदाः ।तस्मात् त्वम् निहतो युद्धे मया बाणेन वानर ।अयुध्यन् प्रतियुध्यन् वा यस्मात् शाखा मृगो हि असि ॥४-१८-४०॥
Vālmīki 4.18.41
दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च ।राजानो वानरश्रेष्ठ प्रदातारो न सम्शयः ॥४-१८-४१॥
Vālmīki 4.18.42
तान् न हिंस्यात् न च आक्रोशेन् न आक्षिपेन् न अप्रियम् वदेत् ।देवा मानुष रूपेण चरन्ति एते मही तले ॥४-१८-४२॥
Vālmīki 4.18.43
त्वम् तु धर्मम् अविज्ञाय केवलम् रोषम् आस्थितः ।विदूषयसि माम् धर्मे पितृ पैतामहे स्थितम् ॥४-१८-४३॥
Vālmīki 4.18.44
एवम् उक्तः तु रामेण वाली प्रव्यथितो भृशम् ।न दोषम् राघवे दध्यौ धर्मे अधिगत निश्चयः ॥४-१८-४४॥
Vālmīki 4.18.45
प्रत्युवाच ततो रामम् प्रांजलिर् वानरेश्वरः ।यत् त्वम् आत्थ नरश्रेष्ठ तत् थथा एव न अत्र संशयः ॥४-१८-४५॥
Vālmīki 4.18.46
प्रतिवक्तुम् प्रकृष्टे हि न अपकृष्टः तु शक्नुयात् ।यत् अयुक्तम् मया पूर्वम् प्रमादात् वाक्यम् अप्रियम् ॥४-१८-४६॥
Vālmīki 4.18.47
तत्र अपि खलु माम् दोषम् कर्तुम् न अर्हसि राघव ।त्वम् हि दृष्टार्थ तत्त्वज्ञः प्रजानाम् च हिते रतः ।कार्य कारण सिद्धौ च प्रसन्ना बुद्धिः अव्यया ॥४-१८-४७॥
Vālmīki 4.18.48
माम् अपि अवगतम् धर्मात् व्यतिक्रान्त पुरस्कृतम् ।धर्म संहितया वाचा धर्मज्ञ परिपालय ॥४-१८-४८॥
Vālmīki 4.18.49
बाष्प संरुद्ध कण्ठः तु वाली स आर्त रवः शनैः ।उवाच रामम् संप्रेक्ष्य पंकलग्न इव द्विपः ॥४-१८-४९॥
Vālmīki 4.18.50
न च आत्मानम् अहम् शोचे न ताराम् न अपि बान्धवान् ।यथा पुत्रम् गुणश्रेष्ठम् अंगदम् कनकांगदम् ॥४-१८-५०॥
Vālmīki 4.18.51
स मम अदर्शनात् दीनो बाल्यात् प्रभृति लालितः ।तटाक इव पीतांबुः उपशोषम् गमिष्यति ॥४-१८-५१॥
Vālmīki 4.18.52
बालः च अकृतबुद्धिः च एक पुत्रः च मे प्रियः ।तारेयो राम भवता रक्षणीयो महाबलः ॥४-१८-५२॥
Vālmīki 4.18.53
सुग्रीवे च अंगदे चैव विधत्स्व मतिम् उत्तमाम् ।त्वम् हि गोप्ता च शास्ता च कार्याकार्य विधौ स्थितः ॥४-१८-५३॥
Vālmīki 4.18.54
या ते नरपते वृत्तिः भरते लक्ष्मणे च या ।सुग्रीवे च अंगदे राजन् ताम् चिंतयितुम् अर्हसि ॥४-१८-५४॥
Vālmīki 4.18.55
मत् दोष कृत दोषाम् ताम् यथा ताराम् तपस्विनीम् ।सुग्रीवो न अवमन्येत तथा अवस्थातुम् अर्हसि ॥४-१८-५५॥
Vālmīki 4.18.56
त्वया हि अनुगृहीतेन शक्यम् राज्यम् उपासितुम् ।त्वत् वशे वर्तमानेन तव चित्त अनुवर्तिना ॥४-१८-५६॥
Vālmīki 4.18.57
शक्यम् दिवम् च आर्जयितुम् वसुधाम् च अपि शासितुम् ।त्वतः अहम् वधम् आकांक्षयन् वार्यमाणो अपि तारया ॥४-१८-५७॥
Vālmīki 4.18.58
सुग्रीवेण सह भ्राता द्वन्द्व युद्धम् उपागतम् ।इति उक्त्वा वानरो रामम् विरराम हरीश्वरः ॥४-१८-५८॥
Vālmīki 4.18.59
स तम् आश्वासयत् रामो वालिनम् व्यक्त दर्शनम् ।साधु सम्मतया वाचा धर्म तत्त्वार्त्ध युक्तया ॥४-१८-५९॥
Vālmīki 4.18.60
न संतापः त्वया कार्यम् एतत् अर्थम् प्लवंगम ।न वयम् भवता चिंत्या न अपि आत्मा हरिसत्तम ।वयम् भवत् विशेषेण धर्मतः कृत निश्चयाः ॥४-१८-६०॥
Vālmīki 4.18.61
दण्ड्ये यः पातयेत् दण्डम् दण्ड्यो यः च अपि दण्ड्यते ।कार्य कारण सिद्धार्थौ उभौ तौ न अवसीदतः ॥४-१८-६१॥
Vālmīki 4.18.62
तत् भवान् दण्ड सम्योगात् अस्मात् विगत कल्मषः ।गतः स्वाम् प्रकृतिम् धर्म्याम् धर्म दिष्टेन वर्त्मना ॥४-१८-६२॥
Vālmīki 4.18.63
त्यज शोकम् च मोहम् च भयम् च हृदये स्थितम् ।त्वया विधानम् हर्यग्र्य न शक्यम् अतिवर्तितुम् ॥४-१८-६३॥
Vālmīki 4.18.64
यथा त्वयि अंगदो नित्यम् वर्तते वानरेश्वरः ।तथा वर्तते सुग्रीवो मयि च अपि न संशयः ॥४-१८-६४॥
Vālmīki 4.18.65
स तस्य वाक्यम् मधुरम् महात्मनःसमाहितम् धर्म पथानुवर्तिनः ।निशम्य रामस्य रणावमर्दिनोवचः सुयुक्तम् निजगाद वानरः ॥४-१८-६५॥
Vālmīki 4.18.66
शराभितप्तेन विचेतसा मयाप्रदूषितः त्वम् यद् अजानता विभो ।इदम् महेन्द्रोपम भीम विक्रमप्रसादितः त्वम् क्षम मे नरेश्वर ॥४-१८-६६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷