🪷 किष्किन्धाकाण्ड · Sarga 17
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 17 · 54 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.17local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ततः शरेण अभिहतो रामेण रण कर्कशः ।पपात सहसा वाली निकृत्तैव पादपः ॥४-१७-१॥
स भूमौ न्यस्त सर्वांगः तप्त कांचन भूषणः ।अपतत् देव राजस्य मुक्त रश्मिर् इव ध्वजः ॥४-१७-२॥
अस्मिन् निपतिते भूमौ हरि ऋषाणाम् गणेश्वरे ।नष्ट चन्द्रम् इव व्योम न व्यराजत मेदिनी ॥४-१७-३॥
भूमौ निपतितस्य अपि तस्य देहम् महात्मनः ।न श्रीर् जहाति न प्राणा न तेजो न पराक्रमः ॥४-१७-४॥
शक्र दत्ता वरा माला कान्चनी रत्न भूषिता ।दधार हरि मुख्यस्य प्राणान् तेजः श्रियम् च सा ॥४-१७-५॥
स तया मालया वीरो हैमया हरियूथपः ।संध्यानुगत पर्यन्तः पयोधर इव अभवत् ॥४-१७-६॥
तस्य माला च देहः च मर्मघाती च यः शरः ।त्रिधा इव रचिता लक्ष्मीः पतितस्य अपि शोभते ॥४-१७-७॥
तत् अस्त्रम् तस्य वीरस्य स्वर्ग मार्ग प्रभावनम् ।राम बाणासन क्षिप्तम् आवहत् परमाम् गतिम् ॥४-१७-८॥
तम् तथा पतितम् संख्ये गत अर्चिषम् इव अनलम् ।ययातिम् इव पुण्यान्ते देव लोकात् परिच्युतम् ॥४-१७-९॥
आदित्यम् इव कालेन युगान्ते भुवि पातितम् ।महेन्द्रम् इव दुर्धर्षम् उपेन्द्रम् इव दुस्सहम् ॥४-१७-१०॥
महेन्द्र पुत्रम् पतितम् वालिनम् हेम मालिनम् ।व्यूढ उरस्कम् महाबाहुम् दीप्तास्यम् हरि लोचनम् ॥४-१७-११॥
लक्ष्मण अनुचरो रामो ददर्श उपससर्प च ।तम् तथा पतितम् वीरम् गत अर्चिष्मतम् इव अनलम् ॥४-१७-१२॥
बहुमान्य च तम् वीरम् वीक्षमाणम् शनैरिव ।उपयातौ महावीर्यौ भ्रातरौ राम लक्ष्मणौ ॥४-१७-१३॥
तम् दृष्ट्वा राघवम् वाली लक्ष्मणम् च महाबलम् ।अब्रवीत् परुषम् वाक्यम् प्रश्रितम् धर्म संहितम् ॥४-१७-१४॥
स भूमौ अल्पतेजोसुः निहतो नष्ट चेतनः ।अर्थ सहितया वाचा गर्वितम् रण गर्वितम् ॥४-१७-१५॥
त्वम् नराधिपतेः पुत्रः प्रथितः प्रिय दर्शनः ।पराङ्मुख वधम् कृत्वा को अत्र प्राप्तः त्वया गुणः ।यदहम् युद्ध सम्रब्धः त्वत् कृते निधनम् गतः ॥४-१७-१६॥
कुलीनः सत्त्व संपन्नः तेजस्वी चरितव्रतः ।रामः करुणवेदी च प्रजानाम् च हितेरतः ॥४-१७-१७॥
सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः ।इति एतत् सर्व भूतानि कथयन्ति यशो भुवि ॥४-१७-१८॥
दमः शमः क्षमा धर्मो धृति सत्यम् पराक्रमः ।पर्थिवानाम् गुणा राजन् दण्डः च अपकारिषु ॥४-१७-१९॥
तान् गुणान् संप्रधार्य अहम् अग्र्यम् च अभिजनम् तव ।तारया प्रतिषिद्धो अपि सुग्रीवेण समागतः ॥४-१७-२०॥
न माम् अन्येन संरब्धम् प्रमत्तम् वेद्धुम् अर्हसि ।इति मे बुद्धिर् उत्पन्ना बभूव अदर्शने तव ॥४-१७-२१॥
न त्वाम् विनिहत आत्मानम् धर्म ध्वजम् अधार्मिकम् ।जाने पाप समाचारम् तृणैः कूपम् इव आवृतम् ॥४-१७-२२॥
सताम् वेष धरम् पापम् प्रच्छन्नम् इव पावकम् ।न अहम् त्वाम् अभिजानामि धर्म छद्माभि संवृतम् ॥४-१७-२३॥
विषये वा पुरे वा ते यदा पापम् करोमि अहम् ।न च त्वाम् अवजाने अहं कस्मात् त्वम् हंसि अकिल्बिषम् ॥४-१७-२४॥
फल मूल अशनम् नित्यम् वानरम् वन गोचरम् ।माम् इह अप्रतियुध्यन्तम् अन्येन च समागतम् ॥४-१७-२५॥
त्वम् नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः ।लिन्गम् अपि अस्ति ते राजन् दृश्यते धर्म सम्हितम् ॥४-१७-२६॥
कः क्षत्रिय कुलेजातः श्रुतवान् नष्टसंशयः ।धर्म लिंग प्रतिच्छन्नः क्रूरम् कर्म समाचरेत् ॥४-१७-२७॥
राम राघव कुले जातो धर्मवान् इति विश्रुतः ।अभव्यो भव्य रूपेण किम् अर्थम् परिधावसे ॥४-१७-२८॥
साम दानम् क्षमा धर्मः सत्यम् धृति पराक्रमौ ।पार्थिवानाम् गुणा राजन् दण्डः च अपि अपकारिषु ॥४-१७-२९॥
वयम् वनचरा राम मृगा मूल फल अशनाः ।एषा प्रकृतिर् अस्माकम् पुरुषः त्वम् नरेश्वरः ॥४-१७-३०॥
भूमिर् हिरण्यम् रूपम् च निग्रहे कारणानि च ।तत्र कः ते वने लोभो मदीयेषु फलेषु वा ॥४-१७-३१॥
नयः च विनयः च उभौ निग्रह अनुग्रहौ अपि ।राज वृत्तिर् असंकीर्णा न नृपाः काम वृत्तयः ॥४-१७-३२॥
त्वम् तु काम प्रधानः च कोपनः च अनवस्थितः ।राज वृत्तेषु संकीर्णः शरासन परायणः ॥४-१७-३३॥
न ते अस्ति अपचितिः धर्मे न अर्थे बुद्धिर् अवस्थिता ।इन्द्रियैः काम वृत्तः सन् कृष्यसे मनुजेश्वर ॥४-१७-३४॥
हत्वा बाणेन काकुत्स्थ माम् इह अनपराधिनम् ।किम् वक्ष्यसि सताम् मध्ये कर्म कृत्वा जुगुप्सितम् ॥४-१७-३५॥
राजहा ब्रह्महा गोघ्नः चोरः प्राणिवधे रतः ।नास्तिकः परिवेत्ता च सर्वे निरय गामिनः ॥४-१७-३६॥
सूचकः च कदर्यः च मित्र्घ्नो गुरुतल्पगः ।लोकं पापात्मानम् एते गच्छन्ते न अत्र संशयः ॥४-१७-३७॥
अधार्यम् चर्म मे सद्भी रोमाणि अस्थि च वर्जितम् ।अभक्ष्याणि च मांसानि त्वत् विधैः धर्मचारिभिः ॥४-१७-३८॥
पंच पंच नखा भक्ष्या ब्रह्म क्षत्रेण राघव ।शल्यकः श्वाविधो गोधा शशः कूर्मः च पंचमः ॥४-१७-३९॥
चर्म च अस्थि च मे राजन् न स्पृशन्ति मनीषिणः ।अभक्ष्याणि च मांसानि सो अहम् पंच नखो हतः ॥४-१७-४०॥
तारया वाक्यम् उक्तो अहम् सत्यम् सर्वज्ञया हितम् ।तद् अतिक्रम्य मोहेन कालस्य वशम् आगतः ॥४-१७-४१॥
त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा ।प्रमदा शील संपूर्णा पति एव च विधर्मिणा ॥४-१७-४२॥
शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रित मानसः ।कथम् दशरथेन त्वम् जातः पापो महात्मना ॥४-१७-४३॥
छिन्न चारित्र्य कक्ष्येण सताम् धर्म अतिवर्तिना ।त्यक्त धर्म अंकुशेन अहम् निहतो राम हस्तिना ॥४-१७-४४॥
अशुभम् च अपि अयुक्तम् च सताम् च एव विगर्हितम् ।वक्ष्यसे च ईदृशम् कृत्वा सद्भिः सह समागतः ॥४-१७-४५॥
उदासीनेषु यो अस्मासु विक्रमो अयम् प्रकाशितः ।अपकारिषु ते राम न एवम् पश्यामि विक्रमम् ॥४-१७-४६॥
दृश्यमानः तु युध्येथा मया युधि नृपात्मज ।अद्य वैवस्वतम् देवम् पश्येः त्वम् निहतो मया ॥४-१७-४७॥
त्वया अदृश्येन तु रणे निहतो अहम् दुरासदः ।प्रसुप्तः पन्नगेन इव नरः पाप वशम् गतः ॥४-१७-४८॥
सुग्रीव प्रिय कामेन यद् अहम् निहतः त्वया ।माम् एव यदि पूर्वम् त्वम् एतद् अर्थम् अचोदयः ।मैथिलिम् अहम् एक आह्ना तव च आनीतवान् भवेः ॥४-१७-४९॥
राक्षसम् च दुरात्मानाम् तव भार्य अपहारिणम् ।कण्ठे बद्ध्वा प्रदद्याम् ते अनिहतम् रावणम् रणे ॥४-१७-५०॥
न्यस्ताम् सागर तोये वा पाताले वा अपि मैथिलीम् ।आनयेयम् तव आदेशात् श्वेताम् अश्वतरीम् इव ॥४-१७-५१॥
युक्तम् यत् प्रप्नुयात् राज्यम् सुग्रीवः स्वर् गते मयि ।अयुक्तम् यद् अधर्मेण त्वया अहम् निहतो रणे ॥४-१७-५२॥
कामम् एवम् विधम् लोकः कालेन विनियुज्यते ।क्षमम् चेत् भवता प्राप्तम् उत्तरम् साधु चिंत्यताम् ॥४-१७-५३॥
इति एवम् उक्त्वा परिशुष्क वक्त्रःशर अभिघातात् व्यथितो महात्मा ।समीक्ष्य रामम् रवि संनिकाशम्तूष्णीम् बभौ वानर राज सूनुः ॥४-१७-५४॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 16
- Next: Kiṣkindhā-Kāṇḍa Sarga 18 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷