🪷 किष्किन्धाकाण्ड · Sarga 16
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 16 · 39 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.16local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ताम् एवम् ब्रुवतीम् ताराम् ताराधिप निभ आननाम् ।वाली निर्भर्त्सयामास वचनम् च इदम् अब्रवीत् ॥४-१६-१॥
गर्जतो अस्य च सुसंरब्धम् भ्रातुः शत्रोर् विशेषतः ।मर्षयिष्यामि केन कारणेन वरानने ॥४-१६-२॥
अधर्षितानाम् शूराणाम् समरेषु अनिवर्तिनाम् ।धर्षणाम् अर्षणम् भीरु मरणात् अतिरिच्यते ॥४-१६-३॥
सोढुम् न च समर्थो अहम् युद्ध कामस्य संयुगे ।सुग्रीवस्य च संरंभम् हीन ग्रीवस्य गर्जतम् ॥४-१६-४॥
न च कार्यो विषादः ते राघवम् प्रति मत् कृते ।धर्मज्ञः च कृतज्ञः च कथम् पापम् करिष्यति ॥४-१६-५॥
निवर्तस्व सह स्त्रीभिः कथम् भूयो अनुगच्छसि ।सौहृदम् दर्शितम् तावत् मयि भक्तिः त्वया कृता ॥४-१६-६॥
प्रति योत्स्यामि अहम् गत्वा सुग्रीवम् जहि संभ्रमम् ।दर्पम् च अस्य विनेष्यामि न च प्राणैर् वियोक्ष्यते ॥४-१६-७॥
अहम् हि अजि स्थितस्य अस्य करिष्यामि यत् ईप्सितम् ।वृक्षैः मुष्टि प्रहारैः च पीडितः प्रति यास्यति ॥४-१६-८॥
न मे गर्वितम् आयस्तम् सहिष्यति दुरात्मवान् ।कृतम् तारे सहायत्वम् दर्शितम् सौहृदम् मयि ॥४-१६-९॥
शापिता असि मम प्राणैः निवर्तस्व जनेन च ।अलम् जित्वा निवर्तिष्ये तम् अहम् भ्रातरम् रणे ॥४-१६-१०॥
तम् तु तारा परिष्वज्य वालिनम् प्रिय वादिनी ।चकार रुदती मन्दम् दक्षिणा सा प्रदक्षिणम् ॥४-१६-११॥
ततः स्वस्त्ययनम् कृत्वा मंत्रवित् विजय एषिणी ।अंतःपुरम् सह स्त्रीभिः प्रविष्टा शोक मोहिता ॥४-१६-१२॥
प्रविष्टायाम् तु तारायाम् सह स्त्रीभिः स्वम् आलयम् ।नगर्या निर्ययौ क्रुद्धो महा सर्प इव श्वसन् ॥४-१६-१३॥
स निःश्वस्य महारोषो वाली परम वेगवान् ।सर्वतः चारयन् दृष्टिम् शत्रु दर्शन कांक्षया ॥४-१६-१४॥
स ददर्श ततः श्रीमान् सुग्रीवम् हेम पिङ्गलम् ।सुसंवीतम् अवष्टब्धम् दीप्यमानम् इव अनलम् ॥४-१६-१५॥
तम् स दृष्ट्वा महाबाहुः सुग्रीवम् पर्यवस्थितम् ।गाढम् परिदधे वासो वाली परम कोपिनः ॥४-१६-१६॥
स वाली गाढ संवीतो मुष्टिम् उद्यम्य वीर्यवान् ।सुग्रीवम् एव अभिमुखो ययौ योद्धुम् कृत क्षणः ॥४-१६-१७॥
श्लिष्टम् मुष्टिम् समुद्यम्य संरब्धतरम् आगतः ।सुग्रीवो अपि समुद्दिश्य वालिनम् हेम मालिनम् ॥४-१६-१८॥
तम् वाली क्रोध ताम्राक्षः सुग्रीवम् रण कोविदम् ।आपतंतम् महा वेगम् इदम् वचनम् अब्रवीत् ॥४-१६-१९॥
एष मुष्टिर् महान् बद्धो गाढः सुनियत अंगुलिः ।मया वेग विमुक्तः ते प्राणान् आदाय यास्यति ॥४-१६-२०॥
एवम् उक्तः तु सुग्रीवः क्रुद्धो वालिनम् अब्रवीत् ।तव च एष हरन् प्राणान् मुष्टिः पततु मूर्धनि ॥४-१६-२१॥
ताडितः तेन तम् क्रुद्धः समभिक्रम्य वेगतः ।अभवत् शोणित उद्गारी सापीड इव पर्वतः ॥४-१६-२२॥
सुग्रीवेण तु निःशंकम् सालम् उत्पाट्य तेजसा ।गात्रेषु अभिहतो वाली वज्रेण इव महा गिरिः ॥४-१६-२३॥
स तु वृक्षेण निर्भग्नः साल ताडन विह्वलः ।गुरु भार भर आक्रान्ता नौः ससार्था इव सागरे ॥४-१६-२४॥
तौ भीम बल विक्रान्तौ सुपर्ण सम वेगिनौ ।प्रयुद्धौ घोर वपुषौ चन्द्र सूर्यौ इव अंबरे ॥४-१६-२५॥
परस्परम् अमित्र घ्नौ च्छिद्र अन्वेषण तत्परौ ।ततो अवर्धत वाली तु बल वीर्य समन्वितः ॥४-१६-२६॥
सूर्य पुत्रो महावीर्यः सुग्रीवः परिहीयत ।वालिना भग्न दर्पः तु सुग्रीवो मन्द विक्रमः ॥४-१६-२७॥
वालिनम् प्रति सामर्षो दर्शयामास राघवम् ।वृक्षैः स शाखैः शिखरैः वज्र कोटि निभैः नखैः ॥४-१६-२८॥
मुष्टिभिः जानुभिः पद्भिः बाहुभिः च पुनः पुनः ।तयोः युद्द्धम् अभूत् घोरम् वृत्र वासवोः इव ॥४-१६-२९॥
तौ शोणितात्कौ युध्येताम् वानारौ वन् चारिणौ ।मेघौ इव महा शब्दैः तर्जमानौ परस्परम् ॥४-१६-३०॥
हीयमानम् अथ अपश्यत् सुग्रीवम् वानरेश्वरम् ।प्रेक्षमाणम् दिशः च एव राघवः स मुहुर् मुहुर् ॥४-१६-३१॥
ततो रामो महातेजा आर्तम् दृष्ट्वा हरीश्वरम् ।स शरम् वीक्षते वीरो वालिनो वध कांक्षया ॥४-१६-३२॥
ततो धनुषि संधाय शरम् आशी विष उपमम् ।पूरयामास तत् चापम् काल चक्रम् इव अन्तकः ॥४-१६-३३॥
तस्य ज्यातल घोषेण त्रस्ताः पत्ररथेश्वराः ।प्रदुद्रुवुर् मृगाः च एव युगांत इव मोहिताः ॥४-१६-३४॥
मुक्तस्तु वज्र निर्घोषः प्रदीप्त अशनि संनिभः ।राघवेण महा बाणो वालि वक्षसि पातितः ॥४-१६-३५॥
ततः तेन महातेजा वीर्य युक्तः कपीश्वरः ।वेगेन अभिहतो वाली निपपात मही तले ॥४-१६-३६॥
इन्द्र ध्वज इव उद्धूत पौर्ण मास्याम् महीतले ।अश्वयुक् समये मासि गत सत्त्वो विचेतनः ।बाष्प संरुद्ध कण्ठस्तु वाली च आर्त स्वरः शनैः ॥४-१६-३७॥
नरोत्तमः काल युगांतकोपमम् शरोत्तमम् कांचन रूप्यभूषितम् ।ससर्ज दीप्तम् तम् अमित्र मर्दनम् स धूममग्निम् मुखतो यथा हरः ॥४-१६-३८॥
अथ उक्षितः शोणित तोय विस्रवैःसुपुष्पित अशोक इव अचलोद्गतः ।विचेतनो वासव सूनुर् आहवेप्रभ्रञ्शित इन्द्र ध्वजवत् क्षितिम् गतः ॥४-१६-३९॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 15
- Next: Kiṣkindhā-Kāṇḍa Sarga 17 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷