🪷 किष्किन्धाकाण्ड · Sarga 20

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 20 · 26 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 4.20.1
राम चाप विसृष्टेन शरेण अंतकरेण तम् ।दृष्ट्वा विनिहतम् भूमौ तारा ताराधिप आनना ॥४-२०-१॥
Vālmīki 4.20.2
सा समासाद्य भर्तारम् पर्यष्वजत भामिनी ।इषुणा अभिहतम् दृष्ट्वा वालिनम् कुंजरोपमम् ॥४-२०-२॥
Vālmīki 4.20.3
वानरम् पर्वत इन्द्र आभम् शोक संतप्त मानसा ।तारा तरुम् इव उन्मूलम् पर्यदेवयत् आतुरा ॥४-२०-३॥
Vālmīki 4.20.4
रणे दारुण विक्रान्त प्रवीर प्लवताम् वर ।किम् इदीनाम् पुरो भागाम् अद्य त्वम् न अभिभाषसे ॥४-२०-४॥
Vālmīki 4.20.5
उत्तिष्ठ हरि शार्दूल भजस्व शयन उत्तमम् ।न एवम् विधाः शेरते हि भूमौ नृपति सत्तमाः ॥४-२०-५॥
Vālmīki 4.20.6
अतीव खलु ते कांता वसुधा वसुधाधिप ।गत असुर् अपि ताम् गात्रैः माम् विहाय निषेवसे ॥४-२०-६॥
Vālmīki 4.20.7
व्यक्तम् अद्य त्वया वीर धर्मतः संप्रवर्तता ।किष्किंधा इव पुरी रम्या स्वर्ग मार्गे विनिर्मिता ॥४-२०-७॥
Vālmīki 4.20.8
यानि अस्माभिः त्वया सार्धम् वनेषु मधु गंधिषु ।विहृतानि त्वया काले तेषाम् उपरमः कृतः ॥४-२०-८॥
Vālmīki 4.20.9
निरानंदा निराशा अहम् निमग्ना शोक सागरे ।त्वयि पंचत्वम् आपन्ने महायूथप यूथपे ॥४-२०-९॥
Vālmīki 4.20.10
हृदयम् सुस्थिरम् मह्यम् दृष्ट्वा विनिहतम् भुवि ।यन् न शोक अभिसंतप्तम् स्फुटते अद्य सहस्रधा ॥४-२०-१०॥
Vālmīki 4.20.11
सुग्रीवस्य त्वया भार्या हृता स च विवासितः ।यत् तत् तस्य त्वया व्युष्टिः प्राप्ता इयम् प्लवगाधिप ॥४-२०-११॥
Vālmīki 4.20.12
निःश्रेयस परा मोहात् त्वया च अहम् विगर्हिता ।या एषा अब्रुवम् हितम् वाक्यम् वानरेन्द्र हित एषिणी ॥४-२०-१२॥
Vālmīki 4.20.13
रूप यौवन दृप्तानाम् दक्षिणानाम् च मानद ।नूनम् अप्सरसाम् आर्य चित्तानि प्रमथिष्यसि ॥४-२०-१३॥
Vālmīki 4.20.14
कालो निःसंशयो नूनम् जीवित अंतकरः तव ।बलात् येन अवपन्नो असि सुग्रीवस्य अवशो वशम् ॥४-२०-१४॥
Vālmīki 4.20.15
अस्थाने वालिनम् हत्वा युध्यमानम् परेण च ।न संतप्यति काकुत्स्थः कृत्वा सुगर्हितम् ॥४-२०-१५॥
Vālmīki 4.20.16
वैधव्यम् शोक संतापम् कृपणम् अकृपणा सती ।अदुह्ख उपचिता पूर्वम् वर्तयिष्यामि अनाथवत् ॥४-२०-१६॥
Vālmīki 4.20.17
लालितः च अंगदो वीरः सुकुमारः सुखोचितः ।वत्स्यते काम् अवस्थाम् मे पितृव्ये क्रोध मूर्च्छिते ॥४-२०-१७॥
Vālmīki 4.20.18
कुरुष्व पितरम् पुत्र सुदृष्टम् धर्म वत्सलम् ।दुर्लभम् दर्शनम् तस्य तव वत्स भविष्यति ॥४-२०-१८॥
Vālmīki 4.20.19
समाश्वासय पुत्रम् त्वम् संदेशम् संदिशस्व मे ।मूर्ध्नि च एनम् समाघ्राय प्रवासम् प्रस्थितो हि असि ॥४-२०-१९॥
Vālmīki 4.20.20
रामेण हि महत् कर्म कृतम् त्वाम् अभिनिघ्नता ।आनृण्यम् तु गतम् तस्य सुग्रीवस्य प्रतिश्रवे ॥४-२०-२०॥
Vālmīki 4.20.21
सकामो भव सुग्रीव रुमाम् त्वम् प्रतिपत्स्यसे ।भुंक्ष्व राज्यम् अनुद्विग्नः शस्तो भ्राता रिपुः तव ॥४-२०-२१॥
Vālmīki 4.20.22
किम् माम् एवम् प्रलपतीम् प्रियाम् त्वम् न अभिभाषसे ।इमाः पश्य वरा बह्वयः भार्याः ते वानरेश्वर ॥४-२०-२२॥
Vālmīki 4.20.23
तस्या विलपितम् श्रुत्वा वानर्यः सर्वतः च ताः ।परिगृह्य अंगदम् दीना दुह्ख आर्ताः परिचुक्रुशुः ॥४-२०-२३॥
Vālmīki 4.20.24
किम् अंगदम् स अंगद वीर बाहोविहाय यातो असि अद्य चिरम् प्रवासम् ।न युक्तम् एवम् गुण संनिकृष्टम्विहाय पुत्रम् प्रिय पुत्रम् प्रिय चारु वेषम् ॥४-२०-२४॥
Vālmīki 4.20.25
यदि अप्रियम् किंचिद् असंप्रधार्यकृतम् मया स्यात् तव दीर्घ बाहो ।क्षमस्व मे तत् हरि वम्श नाथव्रजामि मूर्ध्ना तव वीर पादौ ॥४-२०-२५॥
Vālmīki 4.20.26
तथा तु तारा करुणम् रुदंतीभर्तुः समीपे सह वानरीभिः ।व्यवस्यत प्रायम् अनिन्द्य वर्णाउपोपवेष्टुम् भुवि यत्र वाली ॥४-२०-२६॥

Navigation

Continue with Kiṣkindhā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷