🪷 किष्किन्धाकाण्ड · Sarga 21
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 21 · 16 ślokas
🪷 Devanāgarī Ślokas
ततो निपतिताम् ताराम् च्युताम् ताराम् इव अंबरात् ।शनैः आश्वासयामास हनूमान् हरि यूथपः ॥४-२१-१॥
गुण दोष कृतम् जंतुः स्वकर्म फल हेतुकम् ।अव्यग्रः तद् अवाप्नोति सर्वम् प्रेत्य शुभ अशुभम् ॥४-२१-२॥
शोच्या शोचसि कम् शोच्यम् दीनम् दीना अनुकंपसे ।कः च कस्य अनुशोच्यो अस्ति देहे अस्मिन् बुद्बुद उपमे ॥४-२१-३॥
अंगदः तु कुमारो अयम् द्रष्टव्यो जीव पुत्रया ।आयत्या च विधेयानि समर्थानि अस्य चिन्तय ॥४-२१-४॥
जानासि अनियताम् एवम् भूतानाम् आगतिम् गतिम् ।तस्मात् शुभम् हि कर्तव्यम् पण्डितेन इह लौकिकम् ॥४-२१-५॥
यस्मिन् हरि सहस्राणि शतानि नियुतानि च ।वर्तयन्ति कृत आशानि सो अयम् दिष्टांतम् आगतः ॥४-२१-६॥
यद् अयम् न्याय दृष्ट अर्थः साम दान क्षमा परः ।गतो धर्म जिताम् भूमिम् न एनम् शोचितुम् अर्हसि ॥४-२१-७॥
सर्वे च हरि शार्दूलाः पुत्रः च अयम् तव अंगदः ।हरि ऋक्ष पति राज्यम् च त्वत् सनाथम् अनिन्दिते ॥४-२१-८॥
तौ इमौ शोक संतप्तौ शनैः प्रेरय भामिनि ।त्वया परिगृहीतो अयम् अंगदः शास्तु मेदिनीम् ॥४-२१-९॥
संततिः च यथा दृष्टा कृत्यम् यत् च अपि सांप्रतम् ।राज्ञः तत् क्रियताम् सर्वम् एष कालस्य निश्चयः ॥४-२१-१०॥
संस्कार्यो हरि राजः तु अंगदः च अभिषिच्यताम् ।सिंहासन गतम् पुत्रम् पश्यन्ती शान्तिम् एष्यसि ॥४-२१-११॥
सा तस्य वचनम् श्रुत्वा भर्तृ व्यसन पीडिता ।अब्रवीत् उत्तरम् तारा हनूमन्तम् अवस्थितम् ॥४-२१-१२॥
अंगद प्रतिरूपाणाम् पुत्राणाम् एकतः शतम् ।हतस्य अपि अस्य वीरस्य गात्र संश्लेषणम् वरम् ॥४-२१-१३॥
न च अहम् हरि राज्यस्य प्रभवामि अंगदस्य वा ।पितृव्यः तस्य सुग्रीवः सर्व कार्येषुइ अनंतरः ॥४-२१-१४॥
न हि एषा बुद्धिः आस्थेया हनूमन् अंगदम् प्रति ।पिता हि बंधुः पुत्रस्य न माता हरि सत्तम ॥४-२१-१५॥
न हि मम हरि राज संश्रयात्क्षमतरम् अस्ति परत्र च इह वा ।अभिमुख हत वीर सेवितम्शयनम् इदम् मम सेवितुम् क्षमम् ॥४-२१-१६॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 20
- Next: Kiṣkindhā-Kāṇḍa Sarga 22 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Kiṣkindhā-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷