🪷 किष्किन्धाकाण्ड · Sarga 22
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 22 · 32 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.22local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
वीक्षमाणः तु मंदासुः सर्वतो मंदम् उच्छ्वसन् ।आदौ एव तु सुग्रीवम् ददर्श अनुजम् अग्रतः ॥४-२२-१॥
तम् प्राप्त विजयम् वाली सुग्रीवम् प्लवग ईश्वरम् ।आभाष्य व्यक्तया वाचा सस्नेहम् इदम् अब्रवीत् ॥४-२२-२॥
सुग्रीव दोषेण न माम् गन्तुम् अर्हसि किल्बिषात् ।कृष्यमाणम् भविष्येण बुद्धि मोहेन माम् बलात् ॥४-२२-३॥
युगपद् विहितम् तात न मन्ये सुखम् अवयोः ।सौहार्दम् भ्रातृ युक्तम् हि तद् इदम् जातम् अन्यथा ॥४-२२-४॥
प्रतिपद्य त्वम् अद्य एव राज्यम् एषाम् वन ओकसाम् ।माम् अपि अद्य एव गच्छंतम् विद्धि वैवस्वत क्षयम् ॥४-२२-५॥
जीवितम् च हि राज्यम् च श्रियम् च विपुलाम् इमाम् ।प्रजहामि एष वै तूर्णम् अहम् च अगर्हितम् यशः ॥४-२२-६॥
अस्याम् त्वम् अहम् अवस्थायाम् वीर वक्ष्यामि यद् वचः ।यदि अपि असुकरम् राजन् कर्तुम् एव तद् अर्हसि ॥४-२२-७॥
सुखार्हम् सुख संवृद्धम् बालम् एनम् अबालिशम् ।बाष्प पूर्ण मुखम् पश्य भूमौ पतितम् अंगदम् ॥४-२२-८॥
मम प्राणैः प्रियतरम् पुत्रम् पुत्रम् इव औरसम् ।मया हीनम् अहीनार्थम् सर्वतः परिपालय ॥४-२२-९॥
त्वम् अपि अस्य पिता दाता च परित्राता च सर्वतः ।भयेषु अभयदः चैव यथा अहम् प्लवगेश्वर ॥४-२२-१०॥
एष तारात्मजः श्रीमान् त्वया तुल्य पराक्रमः ।रक्षसाम् च वधे तेषाम् अग्रतः ते भविष्यति ॥४-२२-११॥
अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे ।करिष्यति एष तारेयः तरस्वी तरुणो अंगदः ॥४-२२-१२॥
सुषेण दुहिता च इयम् अर्थ सूक्ष्म विनिश्चये ।औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥४-२२-१३॥
यद् एष साधु इति ब्रूयात् कार्यम् तन् मुक्त संशयम् ।न हि तारा मतम् किंचित् अन्यथा परिवर्तते ॥४-२२-१४॥
राघवस्य च ते कार्यम् कर्तव्यम् अविशंकया ।स्यात् अधर्मो हि अकरणे त्वाम् च हिंस्यात् अमानितः ॥४-२२-१५॥
इमाम् च मालाम् आधत्स्व दिव्याम् सुग्रीव कांचनीम् ।उदारा श्रीः स्थिता हि अस्याम् संप्रजह्यात् मृते मयि ॥४-२२-१६॥
इति एवम् उक्तः सुग्रीवो वालिना भ्रातृ सौहृदात् ।हर्षम् त्यक्त्वा पुनर् दीनो ग्रह ग्रस्त इव उडु राट् ॥४-२२-१७॥
तत् वालि वचनात् शान्तः कुर्वन् युक्तम् अतंद्रितः ।जग्राह सो अभ्यनुज्ञातो मालाम् ताम् चैव कांचनीम् ॥४-२२-१८॥
ताम् मालाम् कांचनीम् दत्त्वा वाली दृष्ट्वा आत्मजम् स्थितम् ।संसिद्धः प्रेत्य भावाय स्नेहात् अंगदम् अब्रवीत् ॥४-२२-१९॥
देश कालौ भजस्व अद्य क्षममाणः प्रिय अप्रिये ।सुख दुःख सहः काले सुग्रीव वशगो भव ॥४-२२-२०॥
यथा हि त्वम् महाबाहो लालितः सततम् मया ।न तथा वर्तमानम् त्वाम् सुग्रीवो बहु मन्यते ॥४-२२-२१॥
ना अस्य अमित्रैः गतम् गच्छेः मा शत्रुभिः अरिंदम ।भर्तुः अर्थ परो दान्तः सुग्रीव वशगो भव ॥४-२२-२२॥
न च अतिप्रणयः कार्यः कर्तव्यो अप्रणयः च ते ।उभयम् हि महादोषम् तस्मात् अंतर दृक् भव ॥४-२२-२३॥
इति उक्त्वा अथ विवृत्त अक्षः शर संपीडितो भृशम् ।विवृतैः दशनैः भीमैः बभूव उत्क्रान्त जीवितः ॥४-२२-२४॥
ततो विचुक्रुशुर् तत्र वानरा हत यूथपाः ।परिदेवयमानाः ते सर्वे प्लवग सत्तमाः ॥४-२२-२५॥
किष्किन्धा हि अथ शून्या च स्वर् गते वानरेश्वरे ।उद्यानानि च शून्यानि पर्वताः कानानि च ॥४-२२-२६॥
हते प्लवग शार्दूले निष् प्रभा वानराः कृताः ।यस्य वेगेन महता काननानि वनानि च ॥४-२२-२७॥
पुष्प ओघेण अनुबद्धन्ते करिष्यति तत् अद्य कहः ।येन दत्तम् महत् युद्धम् गन्धर्वस्य महात्मनः ॥४-२२-२८॥
गोलभस्य महाबाहुः दश वर्षाणि पंच च ।न एव रात्रौ न दिवसे तत् युद्धम् उपशाम्यति ॥४-२२-२९॥
ततः षोडशमे वर्षे गोलभो विनिपातितः ।तम् हत्वा दुर्विनीतिम् तु वाली दंष्ट्र करालवान् ।सर्वा अभयम् करः अस्माकम् कथम् एष निपातितः ॥४-२२-३०॥
हते तु वीरे प्लवगाधिपे तदाप्लवंगमाः तत्र न शर्म लेभिरे ।वने चराः सिंह युते महावनेयथा हि गावो निहते गवाम् पतौ ॥४-२२-३१॥
ततः तु तारा व्यसन अर्णव प्लुतामृतस्या भर्तुर् वदनम् समीक्ष्य सा ।जगाम भूमिम् परिरभ्य वालिनम्महा द्रुमम् छिन्नम् इव आश्रिता लता ॥४-२२-३२॥
Navigation
- ← Previous: Kiṣkindhā-Kāṇḍa Sarga 21
- Next: Kiṣkindhā-Kāṇḍa Sarga 23 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷