🪷 किष्किन्धाकाण्ड · Sarga 23

Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 23 · 30 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 4.23local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 4.23.1
ततः समुपजिघ्रंती कपि राजस्य तत् मुखम् ।पतिम् लोकश्रुता तारा मृतम् वचनम् अब्रवीत् ॥४-२३-१॥
Vālmīki 4.23.2
शेषे त्वम् विषमे दुःखम् अकृत्वा वचनम् मम ।उपल उपचिते वीर सुदुःखे वसुधा तले ॥४-२३-२॥
Vālmīki 4.23.3
मत्तः प्रियतरा नूनम् वानरेन्द्र मही तव ।शेषे हि ताम् परिष्वज्य माम् च न प्रतिभाषसे ॥४-२३-३॥
Vālmīki 4.23.4
सुग्रीवस्य वशम् प्राप्तो विधिः एष भवत्य अहो ।सुग्रीव एव विक्रांतो वीर साहसिक प्रिय ॥४-२३-४॥
Vālmīki 4.23.5
ऋक्ष वानर मुख्याः त्वाम् बलिनम् पर्युपासते ।तेषाम् विलपितम् कृच्छ्रम् अंगदस्य च शोचतः ॥४-२३-५॥
Vālmīki 4.23.6
मम च इमा गिरः श्रुत्वा किम् त्वम् न प्रतिबुध्यसे ।इदम् तत् वीर शयनम् तत्र शेषे हतो युधि ॥४-२३-६॥
Vālmīki 4.23.7
शायिता निहता यत्र त्वया एव रिपवः पुरा ।विशुद्ध सत्त्व अभिजन प्रिययुद्ध मम प्रिय ॥४-२३-७॥
Vālmīki 4.23.8
माम् अनाथाम् विहाय एकाम् गतः त्वम् असि मानद ।शूराय न प्रदातव्या कन्या खलु विपश्चिता ॥४-२३-८॥
Vālmīki 4.23.9
शूर भार्याम् हताम् पश्य सद्यो माम् विधवाम् कृताम् ।अवभग्नः च मे मानो भग्ना मे शाश्वती गतिः ॥४-२३-९॥
Vālmīki 4.23.10
अगाधे च निमग्ना अस्मि विपुले शोक सागरे ।अश्म सारमयम् नूनम् इदम् मे हृदयम् दृढम् ॥४-२३-१०॥
Vālmīki 4.23.11
भर्तारम् निहतम् दृष्ट्वा यत् न अद्य शतधा गतम् ।सुहृत् चैव हि भर्ता च प्रकृत्या च मम प्रियः ॥४-२३-११॥
Vālmīki 4.23.12
प्रहारे च पराक्रान्तः शूरः पंचत्वम् आगतः ।पति हीना तु या नारी कामम् भवतु पुत्रिणी ॥४-२३-१२॥
Vālmīki 4.23.13
धन धान्य समृद्धा अपि विधवा इति उच्यते जनैः ।स्व गात्र प्रभवे वीर शेषे रुधिर मण्डले ॥४-२३-१३॥
Vālmīki 4.23.14
कृमि राग परिस्तोमे स्वकीये शयने यथा ।रेणु शोणित संवीतम् गात्रम् तव समंततः ॥४-२३-१४॥
Vālmīki 4.23.15
परिरब्धुम् न शक्नोमि भुजाभ्याम् प्लवगर्षभ ।कृत कृत्यो अद्य सुग्रीवो वैरे अस्मिन् अतिदारुणे ॥४-२३-१५॥
Vālmīki 4.23.16
यस्य राम विमुक्तेन हृतम् एक इषुणा भयम् ।शरेण हृदि लग्नेन गात्र संस्पर्शने तव ॥४-२३-१६॥
Vālmīki 4.23.17
वार्यामि त्वाम् निरीक्षन्ती त्वयि पंचत्वम् आगते ।उद्बबर्ह शरम् नीलः तस्य गात्र गतम् तदा ॥४-२३-१७॥
Vālmīki 4.23.18
गिरि गह्वर संलीनम् दीप्तम् आशी विषम् यथा ।तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः ॥४-२३-१८॥
Vālmīki 4.23.19
अस्त मस्तक संरुद्धो रश्मिः दिनकरात् इव ।पेतुः क्षतज धाराः तु व्रणेभ्यः तस्य सर्वशः ॥४-२३-१९॥
Vālmīki 4.23.20
ताम्र गैरिक संपृक्ता धारा इव धरा धरात् ।अवकीर्णम् विमार्जन्ती भर्तारम् रण रेणुना ॥४-२३-२०॥
Vālmīki 4.23.21
अस्रैः नयनजैः शूरम् सिषेच अस्त्र समाहतम् ।रुधिरोक्षित सर्वान्गम् दृष्ट्वा विनिहतम् पतिम् ॥४-२३-२१॥
Vālmīki 4.23.22
उवाच तारा पिंगाक्षम् पुत्रम् अंगदम् अंगना ।अवस्थाम् पश्चिमाम् पश्य पितुः पुत्र सुदारुणाम् ॥४-२३-२२॥
Vālmīki 4.23.23
संप्रसक्तस्य वैरस्य गतो अन्तः पाप कर्मणा ।बाल सूर्योज्ज्वल तनुम् प्रयातम् यम सादनम् ॥४-२३-२३॥
Vālmīki 4.23.24
अभिवादय राजानम् पितरम् पुत्र मानदम् ।एवम् उक्तः समुत्थाय जग्राह चरणौ पितुः ॥४-२३-२४॥
Vālmīki 4.23.25
भुजाभ्याम् पीन वृताभ्याम् अंगदो अहम् इति ब्रुवन् ।अभिवादयमानम् त्वाम् अंगदम् त्वम् यथा पुरा ॥४-२३-२५॥
Vālmīki 4.23.26
दीर्घ आयुर् भव पुत्र इति किम् अर्थम् न अभिभाषसे ।अहम् पुत्र सहाया त्वाम् उपासे गत चेतनम् ।सिंहेन पातितम् सद्यो गौः स वत्सा इव गो वृषम् ॥४-२३-२६॥
Vālmīki 4.23.27
इष्ट्वा संग्राम यज्ञेन राम प्रहरण अंभसा ।अस्मिन् अवभृथे स्नातः कथम् पत्न्या मया विना ॥४-२३-२७॥
Vālmīki 4.23.28
या दत्ता देव राजेन तव तुष्टेन संयुगे ।शात कौम्भीम् प्रियाम् मालाम् ताम् ते पश्यामि न इह किम् ॥४-२३-२८॥
Vālmīki 4.23.29
राज्यश्रीः न जहाति त्वाम् गत असुम् अपि मानद ।सूर्यस्य आवर्तमानस्य शैल राजम् इव प्रभा ॥४-२३-२९॥
Vālmīki 4.23.30
न मे वचः पथ्यम् इदम् त्वया कृतम्न च अस्मि शक्ता हि निवारणे तव ।हता सपुत्रा अस्मि हतेन संयुगेसह त्वया श्रीः विजहाति माम् अपि ॥४-२३-३०॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷