🪷 किष्किन्धाकाण्ड · Sarga 1
Kiṣkindhā-Kāṇḍa · The Book of Kiṣkindhā · Sarga 1 · 130 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 4.1local sarga route with all Sanskrit ślokasKiṣkindhā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
स ताम् पुष्करिणीम् गत्वा पद्म उत्पल झषाकुलाम् ।रामः सौमित्रि सहितो विललाप अकुलेन्द्रियः ॥४-१-१॥
तत्र दृष्ट्वैवा ताम् हर्षात् इन्द्रियाणि चकम्पिरे ।स कामवशम् आपन्नः सौमित्रिम् इदम् अब्रवीत् ॥४-१-२॥
सौमित्रे शोभते पम्पा वैदूर्य विमल उदका ।फुल्ल पद्म उत्पलवती शोभिता विविधैः द्रुमैः ॥४-१-३॥
सौमित्रे पश्य पम्पायाः काननम् शुभ दर्शनम् ।यत्र राजन्ति शैला वा द्रुमाः स शिखरा इव ॥४-१-४॥
माम् तु शोकाभि सन्तप्तम् आधयः पीडयन्ति वै ।भरतस्य च दुःखेन वैदेह्या हरणेन च ॥४-१-५॥
शोकार्तस्य अपि मे पम्पा शोभते चित्र कानना ।व्यवकीर्णा बहु विधैः पुष्पैः शीतोदका शिवा ॥४-१-६॥
नलिनैः अपि संछन्ना हि अत्यर्थ शुभ दर्शना ।सर्प व्याल अनुचरिता मृग द्विज समाकुला ॥४-१-७॥
अधिकम् प्रविभाति एतत् नील पीतम् तु शाद्वलम् ।द्रुमाणाम् विविधैः पुष्पैः परिस्तोमैः इव अर्पितम् ॥४-१-८॥
पुष्प भार समृद्धानि शिखराणि समन्ततः ।लताभिः पुष्पित अग्राभिः उपगूढानि सर्वतः ॥४-१-९॥
सुख अनिलोऽयम् सौमित्रे कालः प्रचुर मन्मथः ।गन्धवान् सुरभिर् मासो जात पुष्प फल द्रुमः ॥४-१-१०॥
पश्य रूपाणि सौमित्रे वनानाम् पुष्प शालिनाम् ।सृजताम् पुष्प वर्षाणि वर्षम् तोयमुचाम् इव ॥४-१-११॥
प्रस्तरेषु च रम्येषु विविधाः कानन द्रुमाः ।वायु वेग प्रचलिताः पुष्पैः अवकिरन्ति गाम् ॥४-१-१२॥
पतितैः पतमानैः च पादपस्थैः च मारुतः ।कुसुमैः पश्य सौमित्रे क्रीडतीव समन्ततः ॥४-१-१३॥
विक्षिपन् विविधाः शाखा नगानाम् कुसुमोत्कटाः ।मारुतः चलित स्थानैः षट्पदैः अनुगीयते ॥४-१-१४॥
मत्त कोकिल सन्नादैः नर्तयन् इव पादपान् ।शैल कन्दर निष्क्रान्तः प्रगीत इव च अनिलः ॥४-१-१५॥
तेन विक्षिपता अत्यर्थम् पवनेन समन्ततः ।अमी संसक्त शाखाग्रा ग्रथिता इव पादपाः ॥४-१-१६॥
स एव सुख संस्पर्शो वाति चन्दन शीतलः ।गन्धम् अभ्यवहन् पुण्यम् श्रम अपनयो अनिलः ॥४-१-१७॥
अमी पवन विक्षिप्ता विनन्दन्ती इव पादपाः ।षट्पदैः अनुकूजद्भिः वनेषु मधु गन्धिषु ॥४-१-१८॥
गिरि प्रस्थेषु रम्येषु पुष्पवद्भिः मनोरमैः ।संसक्त शिखरा शैला विराजन्ति महाद्रुमैः ॥४-१-१९॥
पुष्प संछन्न शिखरा मारुतः उत्क्षेप चंचला ।अमी मधुकरोत्तंसाः प्रगीत इव पादपाः ॥४-१-२०॥
सुपुष्पितांस्तु पश्य एतान् कर्णिकारान् समन्ततः ।हाटक प्रति संच्छन्नान् नरान् पीतांबरान् इव ॥४-१-२१॥
अयम् वसन्तः सौमित्रे नाना विहग नादितः ।सीतया विप्रहीणस्य शोक सन्दीपनो मम ॥४-१-२२॥
माम् हि शोक समाक्रान्तम् संतापयति मन्मथः ।हृष्टम् प्रवदमानश्च समाह्वयति कोकिलः ॥४-१-२३॥
एष दाअत्यूहको हृष्टो रम्ये माम् वन निर्झरे ।प्रणदन् मन्मथाविष्टम् शोचयिष्यति लक्ष्मण ॥४-१-२४॥
श्रुत्वा एतस्य पुरा शब्दम् आश्रमस्था मम प्रिया ।माम् आहूय प्रमुदिता परमम् प्रत्यनन्दत ॥४-१-२५॥
एवम् विचित्राः पतगा नाना राव विराविणः ।वृक्ष गुल्म लताः पश्य संपतन्ति समन्ततः॥४-१-२६॥
विमिश्रा विहगाः पुंभिः आत्म व्यूह अभिनन्दिताः ।भृङ्गराज प्रमुदिताः सौमित्रे मधुर स्वराः ॥४-१-२७॥
अस्याः कूले प्रमुदिताः संघशः शकुनास्त्विह ।दात्यूहरति विक्रन्दैः पुंस्कोकिल रुतैः अपि ॥४-१-२८॥
स्वनन्ति पादपाः च इमे माम् अनङ्ग प्रदीपकाः ।अशोक स्तबक अङ्गारः षट्पद स्वन निस्वनः ॥४-१-२९॥
माम् हि पल्लव ताम्रार्चिः वसन्ताग्निः प्रधक्ष्यति ।न हि ताम् सूक्ष्मपक्ष्माक्षीम् सुकेशीम् मृदु भाषिणीम् ॥४-१-३०॥
अपश्यतो मे सौउमित्रे जीवितेऽस्ति प्रयोजनम् ।अयम् हि रुचिरः तस्याः कालो रुचिर काननः ॥४-१-३१॥
कोकिलाकुल सीमान्तः दयिताया मम अनघः ।मन्मध आयास संभूतो वसन्त गुण वर्धितः ॥४-१-३२॥
अयम् माम् धक्ष्यति क्षिप्रम् शोकाग्निः न चिरादिव ।अपश्यत ताम् वनिताम् पश्यतो रुचिर द्रुमान् ॥४-१-३३॥
मम अयम् आत्मप्रभवो भूयस्त्वम् उपयास्यति ।अदृश्यमाना वैदेही शोकम् वर्धयती इह मे ॥४-१-३४॥
दृश्यमानो वसन्तः च स्वेद संसर्ग दूषकः ।माम् हि सा मृगशाबाक्षी चिन्ता शोक बलात्कृतम् ॥४-१-३५॥
संतापयति सौमित्रे कृइरः चैत्र वनानिलः ।अमी मयूराः शोभन्ते प्रनृत्यन्तः ततः ततः ॥४-१-३६॥
स्त्वैः पक्षैः पवन उद्धूतैः गवाक्षैः स्फाटिकैः इव ।शिखिनीभिः परिवृतास्त एते मद मूर्छिताः ॥४-१-३७॥
मन्मथ अभिपरीतस्य मम मन्मथ वर्धनाः ।पश्य लक्ष्णम नृत्यन्तम् मयूरम् उपनृत्यति ॥४-१-३८॥
शिखिनी मन्मथ आर्तैः एषा भर्तारम् गिरि सानुनि ।ताम् एव मनसा रामाम् मयुरोऽपि अनुधावति ॥४-१-३९॥
वितत्य रुचिरौ पक्षौ रुतैः उपहसन् इव ।मयूरस्य वने नूनम् रक्षसा न हृता प्रिया ॥४-१-४०॥
तस्मात् नृत्यति रम्येषु वनेषु सह कान्तया ।मम त्वयम् विना वासः पुष्पमासे सुदुःसहः ॥४-१-४१॥
पश्य लक्ष्मण संरागः तिर्यक् योनिगतेषु अपि ।यदेषा शिखिनी कामात् भर्तारम् अभिवर्तते ॥४-१-४२॥
माम् अपि एवम् विशालाक्षी जानकी जात संभ्रमा ।मदनेन अभिवर्तेत यदि न अपहृता भवेत् ॥४-१-४३॥
पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे ।पुष्प भार समृद्धानाम् वनानाम् शिशिरात्यये ॥४-१-४४॥
रुचिराणि अपि पुष्पाणि पादपानाम् अतिश्रिया ।निष्फलानि महीम् यान्ति समम् मधुकरोत्करैः ॥४-१-४५॥
नदन्ति कावम् मुदिताः शकुना सङ्घशः कलम् ।आह्वयन्त इव अन्योन्यम् काम उन्मादकरा मम ॥४-१-४६॥
वसन्तो यदि तत्र अपि यत्र मे वसति प्रिया ।नूनम् परवशा सीता सा अपि शोच्यति अहम् यथा ॥४-१-४७॥
नूनम् न तु वसन्तः तम् देशम् स्पृशति यत्र सा ।कथम् हि असित पद्माक्षी वर्तयेत् सा मया विना ॥४-१-४८॥
अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया ।किम् करिष्यति सुश्रोणी सा तु निर् भर्त्सिता परैः ॥४-१-४९॥
श्यामा पद्म पलाशाक्षी मृदु भाषा च मेम् प्रिया ।नूनम् वसन्तम् आसाद्य परित्यक्ष्यति जीवितम् ॥४-१-५०॥
दृढम् हि हृदये बुधिः मम संप्रतिवर्तते ।न अलम् वर्तयितुम् सीता साध्वी मत् विरहम् गता ॥४-१-५१॥
मयि भावो हि वैदेह्याः तत्त्वतो विनिवेशितः ।मम अपि भावः सीतायाम् सर्वधा विनिवेशितः ॥४-१-५२॥
एष पुष्पवहो वायुः सुख स्पर्शो हिमावहः ।ताम् विचिन्तयतः कान्ताम् पावक प्रतिमो मम ॥४-१-५३॥
सदा सुखम् अहम् मन्ये यम् पुरा सह सीताया ।मारुतः स विना सीताम् शोक संजनओ मम ॥४-१-५४॥
ताम् विन अथ विहङ्गो असौ पक्षी प्रणदितः तदा ।वायसः पादपगतः प्रहृष्टम् अभि कूजति ॥४-१-५५॥
एष वै तत्र वैदेह्या विहगः प्रतिहारकः ।पक्षी माम् तु विशालाक्ष्याः समीपम् उपनेष्यति ॥४-१-५६॥
पश्य लक्ष्मण संनादम् वने मद विवर्धनम् ।पुष्पित अग्रेषु वृक्षेषु द्विजानाम् अवकूजताम् ॥४-१-५७॥
विक्षिप्ताम् पवनेन एताम् असौ तिलक मञ्जरीम् ।षट्पदः सहसा अभ्येति मद उद्धूताम् इव प्रियाम् ॥४-१-५८॥
कामिनाम् अयम् अत्यन्तम् अशोकः शोक वर्धनः ।स्तबकैः पवन उत्क्षिप्तैः तर्जयन् इव माम् स्थितः ॥४-१-५९॥
अमी लक्ष्मण दृश्यन्ते चूताः कुसुम शालिनः ।विभ्रम उत्सिक्त मनसः स अङ्गरागा नरा इव ॥४-१-६०॥
सौमित्रे पश्य पम्पायाः चित्रासु वन राजिषु ।किंनरा नरशार्दूल विचरन्ति ततः ततः ॥४-१-६१॥
इमानि शुभ गन्धीनि पश्य लक्ष्मण सर्वशः ।नलिनानि प्रकाशन्ते जले तरुण सूर्य वत् ॥४-१-६२॥
एषा प्रसन्न सलिला पद्म नील उत्पलायुता ।हंस कारण्डव आकीर्णा पम्पा सौगन्धिका युता ॥४-१-६३॥
जले तरुण सूर्याभैः षट्पद आहत केसरैः ।पन्कजैः शोभते पम्पा समन्तात् अभिसंवृता ॥४-१-६४॥
चक्रवाक युता नित्यम् चित्र प्रस्थ वनान्तरा ।मातंग मृग यूथैः च शोभते सलिल अर्थिभिः ॥४-१-६५॥
पवन आहत वेगाभिः ऊर्मिभिः विमले अंभसि ।पन्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ॥४-१-६६॥
पद्म पत्र विशालाक्षीम् सततम् प्रिय पन्कजाम् ।अपश्यतो मे वैदेहीम् जीवितम् न अभिरोचते ॥४-१-६७॥
अहो कामस्य वामत्वम् यो गताम् अपि दुर्लभाम् ।स्मारयिष्यति कल्याणीम् कल्याण तर वादिनीम् ॥४-१-६८॥
शक्यो धारयितुम् कामो भवेत् अभ्यागतो मया ।यदि भूयो वसन्तो माम् न हन्यात् पुष्पित द्रुमः ॥४-१-६९॥
यानि स्म रमणीयानि तया सह भवन्ति मे ।तानि एव अरमणीयानि जायन्ते मे तया विना ॥४-१-७०॥
पद्मकोश पलाशानि द्रष्टुम् दृष्टिः हि मन्यते ।सीताया नेत्र कोशाभ्याम् सदृशान् इति लक्ष्मण ॥४-१-७१॥
पद्म केसर संसृष्टो वृक्षान्तर विनिःसृतः ।निःश्वास इव सीताया वाति वायुः मनोहरः ॥४-१-७२॥
सौमित्रे पश्य पम्पाया दक्षिणे गिरि सानुषु ।पुष्पितान् कर्णिकारस्य यष्टिम् परम शोभिताम् ॥४-१-७३॥
अधिकम् शैल राजोऽयम् धातुभिः तु विभूषितः ।विचित्रम् सृजते रेणुम् वायु वेग विघट्टितम् ॥४-१-७४॥
गिरि प्रस्थास्तु सौमित्रे सर्वतः संप्रपुष्पितैः ।निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ॥४-१-७५॥
पम्पा तीर रुहाः च इमे संसक्ता मधु गन्धिनः ।मालती मल्लिका पद्म करवीराः च पुष्पिताः ॥४-१-७६॥
केतक्यः सिन्धुवाराः च वासन्त्यः च सुपुष्पिताः ।माधव्यो गन्धपूर्णाः च कुंदगुल्माः च सर्वशः ॥४-१-७७॥
चिरिबिल्वा मधूकाः च वञ्जुला वकुलाः तथा ।चम्पकाः तिलकाः च एव नागवृक्षाः च पुष्पिताः ॥४-१-७८॥
पद्मकाः च एव शोभन्ते नील अशोकाः ।च पुष्पिताःलोध्राः च गिरि पृष्ठेषु सिंह केसर पिन्जराः ॥४-१-७९॥
अन्कोलाः च कुरण्टाः च पूर्णकाः पारिभद्रकाः ।चूताः पाटलयः च अपि कोविदाराः च पुष्पिताः ॥४-१-८०॥
मुचुकुंद अर्जुनाः च एव दृश्यन्ते गिरिसानुषुकेतक उद्दालकाः ।च एव शिरीषाः शिंशुपा धवाः ॥४-१-८१॥
शाल्मल्यः किंशुकाः च एव रक्ताः कुरवकाः तथा ।तिनिशा नक्तमालाः च चंदनाः स्यंदनाः तथा ॥४-१-८२॥
हिन्तालः तिलकाः च एव नाग वृक्षाः च पुष्पिताः ।पुष्पितान् पुष्पित अग्राभिः लताभिः परिवेष्टितान् ॥४-१-८३॥
द्रुमान् पश्य इह सौमित्रे पम्पाया रुचिरान् बहून् ।वात विक्षिप्त विटपान् यथा आसन्नान् द्रुमान् इमान् ॥४-१-८४॥
लताः समनुवर्तन्ते मत्ता इव वर स्त्रियः ।पादपात् पादपम् गच्छन् शैलात् शैलम् वनात् वनम् ॥४-१-८५॥
वाति न एक रस आस्वाद सम्मोदित इव अनिलः ।केचित् पर्याप्त कुसुमाः पादपा मधु गन्धिनः ॥४-१-८६॥
केचित् मुकुल संवीताः श्याम वर्णा इव आबभुः ।इदम् मृष्टम् इदम् स्वादु प्रफुल्लम् इदम् इत्यपि ॥४-१-८७॥
राग युक्तो मधुकरः कुसुमेषु आवलीयते।निलीय पुनर् उत्पत्य सहसा अन्यत्र गच्छति ।मधु लुब्धो मधुकरः पंपा तीर द्रुमेषु असौ ॥४-१-८८॥
इयम् कुसुम सन्घातैः उपस्तीर्णा सुखा कृता ।स्वयम् निपतितैः भूमिः शयन प्रस्तरैः इव ॥४-१-८९॥
विविधा विविधैः पुष्पैः तैः एव नगसानुषु ।विस्तेएर्णाः पीत रक्ताभा सौमित्रे प्रस्तराः कृताः ॥४-१-९०॥
हिमान्ते पश्य सौमित्रे वृक्षाणाम् पुष्प संभवम् ।पुष्प मासे हि तरवः संघर्षात् इव पुष्पिताः ॥४-१-९१॥
आह्वयन्त इव अन्योन्यम् नगाः षट्पद नादिताः ।कुसुमोत्तंस विटपाः शोभन्ते बहु लक्ष्मण ॥४-१-९२॥
एष कारण्डवः पक्षी विगाह्या सलिलम् शुभम् ।रमते कान्ताया सार्थम् कामम् उद्दीपयन् इव ॥४-१-९३॥
मंदकिन्यास्तु यदिदम् रूपम् एतन् मनोररम् ।स्थाने जगति विख्याता गुणाः तस्या मनोरमाः ॥४-१-९४॥
यदि दृश्येत सा साध्वी यदि च इह वसेम हि ।स्पृहयेयम् न शक्राय न अयोध्यायै रघूत्तम ॥४-१-९५॥
न हि एवम् रमणीयेषु शाद्वलेषु तया सह ।रमतो मे भवेत् चिन्ता न स्पृहा अन्येषु वा भवेत् ॥४-१-९६॥
अमी हि विविधैः पुष्पैः तरवो रुचिर च्छदाः ।कानने अस्मिन् विना कान्ताम् चित्तम् उत्पादयन्ति मे ॥४-१-९७॥
पश्य शीत जलाम् च इमाम् सौमित्रे पुष्कर आयुताम् ।चक्रवाक अनुचरिताम् कारण्डव निषेविताम् ॥४-१-९८॥
प्लवैः क्रौञ्चैः च संपूर्णाम् महा मृग निषेविताम् ।अधिकम् शोभते पम्पा विकूजद्भिः विहङ्गमैः ॥४-१-९९॥
दीपयन्ती इव मे कामम् विविधा मुदिता द्विजाः ।श्यामाम् चन्द्र मुखीम् स्मृत्वा प्रियाम् पद्म निभ ईक्षणाम् ॥४-१-१००॥
पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान् ।माम् पुनः मृग शबाक्षी वैदेह्या विरहीकृतम् ।व्यधयन्तीव मे चित्तम् संचरन्तः ततः ततः ॥४-१-१०१॥
अस्मिन् सानुनि रम्ये हि मत्त द्विज गणाकुले ।पश्य अयम् यदि ताम् कन्ताम् ततः स्वस्ति भवेत् मम ॥४-१-१०२॥
जीवेयम् खलु सौमित्रे मया सह सुमध्यमा ।सेवेत यदि वैदेही पम्पायाः पवनम् शुभम् ॥४-१-१०३॥
पद्म सौगन्धिक वहम् शिवम् शोक विनाशनम् ।धन्या लक्ष्मण सेवन्ते पम्पाया वन मरुतम् ॥४-१-१०४॥
श्यमा पद्म पलाशाक्षी प्रिया विरहिता मया ।कथम् धरयति प्राणान् विवशा जनकात्मजा ॥४-१-१०५॥
किम् नु वक्ष्यामि धर्मज्ञम् राजानम् सत्य वादिनम् ।जनकम् पृष्ट सीतम् तम् कुशलम् जन संसदि ॥४-१-१०६॥
या मम् अनुगता मन्दम् पित्रा प्रस्थापितुम् वनम् ।सीता धर्मम् समास्थय क्व नु सा वर्तते प्रिया ॥४-१-१०७॥
तया विहीनः कृपणः कथम् लक्ष्मण धारये ।य माम् अनुगता रज्यात् भ्रष्टम् विहत चेतसम् ॥४-१-१०८॥
तत् चारु अञ्चित पद्माक्षम् सुगन्धि शुभम् अव्रणम् ।अपश्यतो मुखम् तस्याः सीदति इव मतिः मम ॥४-१-१०९॥
स्मित हास्यान्तर युतम् गुणवत् मधुरम् हितम् ।वैदेह्याः वाक्यम् अतुलम् कदा श्रोष्यामि लक्ष्मण ॥४-१-११०॥
प्राप्य दुःखम् वने श्यामा माम् मन्मध विकर्शितम् ।नष्ट दुःखेव हृष्टेव साध्वी साधु अभ्यभाषत ॥४-१-१११॥
किम् नु वक्ष्यामि अयोध्यायाम् कौसल्याम् हि नृपात्मज ।क्व सा स्नुषा इति पृच्छन्तीम् कथम् च अति मनस्विनीम् ॥४-१-११२॥
गच्छ लक्ष्मण पश्य त्वम् भरतम् भ्रातृउ वत्सलम् ।न हि अहम् जीवितुम् शक्तः ताम् ऋते जनकात्मजम् ॥४-१-११३॥
इति रामम् महात्मानम् विलपन्तम् अनाथ वत् ।उवाच लक्ष्मणो भ्राता वचनम् युक्तम् अव्ययम् ॥४-१-११४॥
संस्थम्भ राम भद्रम् ते मा शुचः पुरुषोत्तम ।न ईदृइशानाम् मतिः मन्दा भवति अकलुषात्मनाम् ॥४-१-११५॥
स्मृत्वा वियोगजम् दुःखम् त्यज स्नेहम् प्रिये जने ।अति स्नेह परिष्वन्गात् वर्तिः अर्द्रा अपि दह्यते ॥४-१-११६॥
यदि गच्छति पतालम् ततो अभ्यऽधिकम् एव वा ।सर्वधा रावणः तात न भविष्यति राघव ॥४-१-११७॥
प्रवृत्तिः लभ्यताम् तावत् तस्य पापस्य रक्षसः ।ततः हास्यति वा सीताम् निधनम् वा गमिष्यति ॥४-१-११८॥
यदि याति दितेः गर्भम् रावणः सह सीताया ।तत्र अपि एनम् हनिष्यामि न चेत् दास्यति मैथिलीम् ॥४-१-११९॥
स्वास्थ्यम् भद्रम् भजस्व आर्यः त्यजताम् कृपणा मतिः ।अर्थो हि नष्ट कार्यार्थैः न अयत्ने न अधिगम्यते ॥४-१-१२०॥
उत्साहो बलवान् आर्य नास्ति उत्साहात् परम् बलम् ।सः उत्साहस्य हि लोकेषु न किंचित् अपि दुर्लभम् ॥४-१-१२१॥
उत्साहवन्तः पुरुषा न अवसीदन्ति कर्मसु ।उत्साह मत्रम् आश्रित्य सीताम् प्रतिलप्स्याम् जनकीम् ॥४-१-१२२॥
त्यज्य काम वृत्तत्वम् शोकम् सम् न्यस्य पृष्टतः ।महात्मानम् कृतात्मानम् आत्मानम् न अवबुध्यसे ॥४-१-१२३॥
एवम् संबोधितः तेन शोकोपहत चेतनः ।त्य्ज्य शोकम् च मोहम् च रामो धैर्यम् उपागमत् ॥४-१-१२४॥
सोऽभ्य अतिक्रामत् अव्यग्रः ताम् अचिन्त्य पराक्रमः ।रामः पम्पाम् सु रुचिराम् रम्याम् पारिप्लव द्रुमान् ॥४-१-१२५॥
निरीक्षमाणः सहसा महात्मा सर्वम् वनम् निर्झर कन्दराम् च ।उद्विग्न चेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ॥४-१-१२६॥
तम् मत्त मातङ्ग विलास गामी गच्छन्तम् अव्यग्र मनाः महात्मा ।स लक्ष्मणो राघवम् अप्रमत्तो ररक्ष धर्मेण बलेन च एव ॥४-१-१२७॥
तौ ऋष्यमूकस्य समीप चारी चरन् ददर्श अद्भुत दर्शनीयौ ।शाखा मृगाणाम् अधिपः तरस्वी वितत्रसे नैव चिचेष्ट चेष्टाम् ॥४-१-१२८॥
स तौ महात्मा गज मन्द गामि शखा मृगः तत्र चिरन् चरन्तौ ।दृष्ट्वा विषादम् परमम् जगाम चिन्ता परीतो भय भार मग्नः ॥४-१-१२९॥
तम् आश्रमम् पुण्य सुखम् शरण्यम् सदैव शाखा मृग सेवितान्तम् ।त्रस्ताः च दृष्ट्वा हरयोः अभिजग्मुः महौजसौ राघव लक्ष्मणौ तौ ॥४-१-१३०॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 75
- Next: Kiṣkindhā-Kāṇḍa Sarga 2 →
- Kiṣkindhā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷