🪷 अरण्यकाण्ड · Sarga 75

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 75 · 30 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.75local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.75.1
दिवम् तु तस्याम् यातायाम् शबर्याम् स्वेन तेजसा ।लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥३-७५-१॥
Vālmīki 3.75.2
चिंतयित्वा तु धर्मात्मा प्रभावम् तम् महात्मनाम् ।हित कारिणम् एक अग्रम् लक्ष्मणम् राघवो अब्रवीत् ॥३-७५-२॥
Vālmīki 3.75.3
दृष्टो मया आश्रमः सौम्य बहु आश्चर्यः कृतआत्मनाम् ।विश्वस्त मृग शार्दूलो नाना विहग सेवितः ॥३-७५-३॥
Vālmīki 3.75.4
सप्तानाम् च समुद्राणाम् तेषाम् तीर्थेषु लक्ष्मण ।उपस्पृष्टम् च विधिवत् पितरः च अपि तर्पिताः ॥३-७५-४॥
Vālmīki 3.75.5
प्रणष्टम् अशुभम् यत् नः कल्याणम् समुपस्थितम् ।तेन तु एतत् प्रहृष्टम् मे मनो लक्ष्मण संप्रति ॥३-७५-५॥
Vālmīki 3.75.6
हृदये हि नर व्याघ्र शुभम् आविर्भविष्यति ।तत् आगच्छ गमिष्यावः पंपाम् ताम् प्रिय दर्शनाम् ॥३-७५-६॥
Vālmīki 3.75.7
ऋष्यमूको गिरिः यत्र न अति दूरे प्रकाशते ।यस्मिन् वसति धर्मात्मा सुग्रीवो अंशुमतः सुतः ॥३-७५-७॥
Vālmīki 3.75.8
नित्यम् वालि भयात् त्रस्तः चतुर्भिः सह वानरैः ।अहम् त्वरे च तम् द्रष्टुम् सुग्रीवम् वानरर्षभम् ॥३-७५-८॥
Vālmīki 3.75.9
तत् अधीनम् हि मे कार्यम् सीतायाः परिमार्गणम् ।इति ब्रुवाणम् तम् वीरम् सौमित्रिः इदम् अब्रवीत् ॥३-७५-९॥
Vālmīki 3.75.10
गच्छावः त्वरितम् तत्र मम अपि त्वरते मनः ।आश्रमात् तु ततः तस्मात् निष्क्रम्य स विशाम् पतिः ॥३-७५-१०॥
Vālmīki 3.75.11
आजगाम ततः पंपाम् लक्ष्मणेन सहप्रभुः ।समीक्षमाणः पुष्प आढ्यम् सर्वतो विपुल द्रुमम् ॥३-७५-११॥
Vālmīki 3.75.12
कोयष्टिभिः च अर्जुनकैः शत पत्रैः च कीरकैः ।एतैः च अन्यैः च बहुभिः नादितम् तत् वनम् महत् ॥३-७५-१२॥
Vālmīki 3.75.13
स रामो विविधान् वृक्षान् सरांसि विविधानि च ।पश्यन् काम अभिसंतप्तो जगाम परमम् ह्रदम् ॥३-७५-१३॥
Vālmīki 3.75.14
स ताम् आसाद्य वै रामो दूरात् पानीय वाहिनीम् ।मतंग सरसम् नाम ह्रदम् समवगाहत ॥३-७५-१४॥
Vālmīki 3.75.15
तत्र जग्मतुः अव्यग्रौ राघवौ हि समाहितौ ।स तु शोक समाविष्टो रामो दशरथात्मजः ॥३-७५-१५॥
Vālmīki 3.75.16
विवेश नलिनीम् रम्याम् पंकजैः च समावृताम् ।तिलकाशोकपुंनागबकुलोद्दालकाशिनीम् - यद्वा -तिलक अशोक पुन्नाग बकुल उद्दाल काशिनीम् ॥३-७५-१६॥
Vālmīki 3.75.17
रम्य उपवन संबाधाम् पद्म संपीडित उदकाम् ।स्फटिक उपम तोय आढ्याम् श्लक्ष्ण वालुक संतताम् ॥३-७५-१७॥
Vālmīki 3.75.18
मत्स्य कच्छप संबाधाम् तीरस्थ द्रुम शोभिताम् ।सखीभिः इव संयुक्ताम् लताभिः अनुवेष्टिताम् ॥३-७५-१८॥
Vālmīki 3.75.19
किंनरोरगगन्धर्वयक्षराक्षससेविताम् -यद्वा - ।किन्नर उरग गन्धर्व यक्ष राक्षस सेविताम् ।नाना द्रुम लता आकीर्णाम् शीत वारि निधिम् शुभाम् ॥३-७५-१९॥
Vālmīki 3.75.20
पद्म सौगन्धिकैः ताम्राम् शुक्लाम् कुमुद मण्डलैः ।नीलाम् कुवलय उद् घाटैः बहु वर्णाम् कुथाम् इव ॥३-७५-२०॥
Vālmīki 3.75.21
अरविन्द उत्पलवतीम् पद्म सौगन्धिक आयुताम् ।पुष्पित आम्र वणोपेताम् बर्हिण उद् घुष्ट नादिताम् ॥३-७५-२१॥
Vālmīki 3.75.22
स ताम् दृष्ट्वा ततः पंपाम् रामः सौमित्रिणा सह ।विललाप च तेजस्वी कामात् दशरथात्मजः ॥३-७५-२२॥
Vālmīki 3.75.23
तिलकैः बीज पूरैः च वटैः शुक्ल द्रुमैः तथा ।पुष्पितैः करवीरैः च पुन्नागैः च सु पुष्पितैः ॥३-७५-२३॥
Vālmīki 3.75.24
मालती कुंद गुल्मैः च भण्डीरैः निचुलैः तथा ।अशोकैः सप्त पर्णैः च केतकैः अतिमुक्तकैः ॥३-७५-२४॥
Vālmīki 3.75.25
अन्यैः च विविधैः वृक्षैः प्रमदा इव उपशोभिताम् ।अस्याः तीरे तु पूर्व उक्तः पर्वतो धातु मण्डितः ॥३-७५-२५॥
Vālmīki 3.75.26
ऋश्यमूक इति ख्यातः चित्र पुष्पित पादपः ।हरेः ऋक्षरजो नाम्नः पुत्रः तस्य महात्मनः ॥३-७५-२६॥
Vālmīki 3.75.27
अध्यास्ते तु महावीर्यः सुग्रीव इति विश्रुतः ।सुग्रीवम् अभिगच्छ त्वम् वानरेन्द्रम् नरर्षभ ॥३-७५-२७॥
Vālmīki 3.75.28
इति उवाच पुनः वाक्यम् लक्ष्मणम् सत्य विक्रमम् ।कथम् मया विना सीताम् शक्यम् लक्ष्मण जीवितुम् ॥३-७५-२८॥
Vālmīki 3.75.29
इति एवम् उक्त्वा मदन अभिपीडितःस लक्ष्मणम् वाक्यम् अनन्य चेतनः ।विवेश पंपाम् नलिनी मनो रमाम्तम् उत्तमम् शोकम् उदीरयाणः ॥३-७५-२९॥
Vālmīki 3.75.30
क्रमेण गत्वा प्रविलोकयन् वनम्ददर्श पंपाम् शुभ दर्श काननाम् ।अनेक नाना विध पक्षि संकुलाम्विवेश रामः सह लक्ष्मणेन ॥३-७५-३०॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷