🪷 अरण्यकाण्ड · Sarga 74
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 74 · 35 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.74local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तौ कबन्धेन तम् मार्गम् पम्पाया दर्शितम् वने ।आतस्थतुः दिशम् गृह्य प्रतीचीम् नृ वर आत्मजौ ॥३-७४-१॥
तौ शैलेषु आचित अनेकान् क्षौद्र कल्प फल द्रुमान् ।वीक्षन्तौ जग्मतुः द्रष्टुम् सुग्रीवम् राम लक्ष्मणौ ॥३-७४-२॥
कृत्वा च शैल पृष्ठे तु तौ वासम् रघु नन्दनौ ।पंपायाः पश्चिमम् तीरम् राघवौ उपतस्थतुः ॥३-७४-३॥
तौ पुष्करिण्याः पंपायाः तीरम् आसाद्य पश्चिमम् ।अपश्यताम् ततः तत्र शबर्या रम्यम् आश्रमम् ॥३-७४-४॥
तौ तम् आश्रमम् आसाद्य द्रुमैः बहुभिः आवृतम् ।सु रम्यम् अभिवीक्षन्तौ शबरीम् अभ्युपेयतुः ॥३-७४-५॥
तौ दृष्ट्वा तु तदा सिद्धा समुत्थाय कृतांजलिः ।पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः ॥३-७४-६॥
पाद्यम् आचमनीयम् च सर्वम् प्रददात् यथा विधि ।ताम् उवाच ततो रामः श्रमणीम् धर्म संस्थिताम् ॥३-७४-७॥
कच्चित् ते निर्जिता विघ्नाः कच्चित् ते वर्धते तपः ।कच्चित् ते नियतः कोप आहारः च तपोधने ॥३-७४-८॥
कच्चित् ते नियमाः प्राप्ताः कच्चित् ते मनसः सुखम् ।कच्चित् ते गुरु शुश्रूषा सफला चारु भाषिणि ॥३-७४-९॥
रामेण तापसी पृष्ठा सा सिद्धा सिद्ध सम्मता ।शशंस शबरी वृद्धा रामाय प्रति अवस्थिता ॥३-७४-१०॥
अद्य प्राप्ता तपः सिद्धिः तव संदर्शनात् मया ।अद्य मे सफलम् जन्म गुरवः च सुपूजिताः ॥३-७४-११॥
अद्य मे सफलम् तप्तम् स्वर्गः चैव भविष्यति ।त्वयि देव वरे राम पूजिते पुरुषर्षभ ॥३-७४-१२॥
तव अहम् चक्षुषा सौम्य पूता सौम्येन मानद ।गमिष्याम्यक्षयांलोकांस्वत्प्रसादादरिन्दम - यद्वा -गमिष्यामि अक्षयान् लोकान् त्वत् प्रसादात् अरिंदम ॥३-७४-१३॥
चित्रकूटम् त्वयि प्राप्ते विमानैः अतुल प्रभैः ।इतः ते दिवम् आरूढा यान् अहम् पर्यचारिषम् ॥३-७४-१४॥
तैः च अहम् उक्ता धर्म ज्ञैः महाभागैः महर्षिभिः ।आगमिष्यति ते रामः सु पुण्यम् इमम् आश्रमम् ॥३-७४-१५॥
स ते प्रतिग्रहीतव्यः सौमित्रि सहितो अतिथिः ।तम् च दृष्ट्वा वरान् लोकान् अक्षयान् त्वम् गमिष्यसि ॥३-७४-१६॥
एवम् उक्ता महाभागैः तदा अहम् पुरुषर्षभ ।मया तु विविधम् वन्यम् संचितम् पुरुषर्षभ ॥३-७४-१७॥
तव अर्थे पुरुषव्याघ्र पम्पायाः तीर संभवम् ।एवम् उक्तः स धर्मात्मा शबर्या शबरीम् इदम् ॥३-७४-१८॥
राघवः प्राह विज्ञाने ताम् नित्यम् अबहिष्कृताम् ।दनोः सकाशात् तत्त्वेन प्रभावम् ते महात्मनः ॥३-७४-१९॥
श्रुतम् प्रत्यक्षम् इच्छामि संद्रष्टुम् यदि मन्यसे ।एतत् तु वचनम् श्रुत्वा राम वक्त्रात् विनिःसृतम् ॥३-७४-२०॥
शबरी दर्शयामास तौ उभौ तत् वनम् महत् ।पश्य मेघ घन प्रख्यम् मृग पक्षि समाकुलम् ॥३-७४-२१॥
मतंग वनम् इति एव विश्रुतम् रघुनंदन ।इह ते भावित आत्मानो गुरवो मे महाद्युते ।जुहवान् चक्रिरे नीडम् मंत्रवत् मंत्र पूजितम् ॥३-७४-२२॥
इयम् प्रत्यक् स्थली वेदी यत्र ते मे सुसत्कृताः ।पुष्प उपहारम् कुर्वन्ति श्रमात् उद् वेपिभिः करैः ॥३-७४-२३॥
तेषाम् तपः प्रभावेन पश्य अद्य अपि रघूत्तम ।द्योतयन्ति दिशः सर्वाः श्रिया वेद्यः अतुल प्रभाः ॥३-७४-२४॥
अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः - यद्वा -अशक्नुवद्भिः तैः गन्तुम् उपवास श्रम आलसैः ।चिन्तिते अभ्यागतान् पश्य समेतान् सप्त सागरान् ॥३-७४-२५॥
कृत अभिषेकैः तैः न्यस्ता वल्कलाः पादपेषु इह ।अद्य अपि न विशुष्यन्ति प्रदेशे रघुनंदन ॥३-७४-२६॥
देव कार्याणि कुर्वद्भिः यानि इमानि कृतानि वै ।पुष्पैः कुवलयैः सार्थम् म्लानत्वम् न तु यान्ति वै ॥३-७४-२७॥
कृत्स्नम् वनम् इदम् दृष्टम् श्रोतव्यम् च श्रुतम् त्वया ।तत् इच्छामि अभ्यनुज्ञाता त्यक्ष्यामि एतत् कलेवरम् ॥३-७४-२८॥
तेषाम् इच्छामि अहम् गन्तुम् समीपम् भावित आत्मनाम् ।मुनीनाम् आश्रमो येषाम् अहम् च परिचारिणी ॥३-७४-२९॥
धर्मिष्ठम् तु वचः श्रुत्वा राघवः सह लक्ष्मणः ।प्रहर्सम् अतुलम् लेभे आश्चर्यम् इदम् च अब्रवीत् ॥३-७४-३०॥
ताम् उवाच ततो रामः शबरी संश्रित व्रताम् ।अर्चितो अहम् त्वया भद्रे गच्छ कामम् यथा सुखम् ॥३-७४-३१॥
इति एवम् उक्ता जटिला चीर कृष्ण अजिन अंबरा ।अनुज्ञाता तु रामेण हुत्वा आत्मानम् हुत अशने ॥३-७४-३२॥
ज्वलत् पावक संकाशा स्वर्गम् एव जगाम सा ।दिव्यम् आभरण संयुक्ता दिव्य माल्य अनुलेपना ॥३-७४-३३॥
दिव्य अंबर धरा तत्र बभूव प्रिय दर्शन ।विराजयन्ती तम् देशम् विद्युत् सौदामिनी यथा ॥३-७४-३४॥
यत्र ते सुकृत आत्मानो विहरन्ति महर्षयः ।तत् पुण्यम् शबरी स्थानम् जगाम आत्म समाधिना ॥३-७४-३५॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 73
- Next: Araṇya-Kāṇḍa Sarga 75 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷