🪷 अरण्यकाण्ड · Sarga 73
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 73 · 46 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.73local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
दर्शयित्वा रामाय सीतायाः प्रैमार्गने ।वाक्यम् अन्वर्थम् अर्थज्ञः कबंधः पुनः अब्रवीत् ॥३-७३-१॥
एष राम शिवः पंथा यत्र एते पुष्पिता द्रुमाः ।प्रतीचीम् दिशम् आश्रित्य प्रकाशन्ते मनो रमाः ॥३-७३-२॥
जंबू प्रियाल पनसाः प्लक्ष न्यग्रोध तिंदुकाः ।अश्वत्थाः कर्णिकाराः च चूताः च अन्ये च पादपाः ॥३-७३-३॥
धन्वना नाग वृक्षा तिलका नक्तमालकाः ।नील अशोक कदंबाः च करवीराः च पुष्पिताः ॥३-७३-४॥
अग्निमुखा अशोकाः च सुरक्ताः परिभद्रकाः ।तान् आरुह्य अथवा भूमौ पातयित्वा च तान् बलात् ॥३-७३-५॥
फलानि अमृत कल्पानि भक्षयित्वा गमिष्यथः ।तत् अतिक्रम्य काकुत्स्थ वनम् पुषित पादपम् ॥३-७३-६॥
नंदन प्रतिमम् तु अन्यत् कुरवः उत्तरा इव ।सर्व काल फला यत्र पादपा मधुर स्रवाः ॥३-७३-७॥
सर्वे च ऋतवः तत्र वने चैत्ररथे यथा ।फल भार नताः तत्र महा विटप धारिणः ॥३-७३-८॥
शोबन्ते सर्वतः तत्र मेघ पर्वत संनिभाः ।तान् आरुह्य अथवा भूमौ पातैत्वा यथा सुखम् ॥३-७३-९॥
फलानि अमृत कल्पानि लक्षमणः ते प्रदास्यति ।चङ्क्रमंतौ वरान् शैलान् शैलात् शैलम् वनात् वनम् ॥३-७३-१०॥
ततः पुष्करिणीम् वीरौ पंपाम् नाम गमिष्यथः ।अशर्कराम् अविभ्रंशाम् सम तीर्थम् अशैवलाम् ॥३-७३-११॥
राम संजात वालूकाम् कमल उत्पल शोभिताम् ।तत्र हंसाः प्लवाः क्रौङ्चाः कुरराः चैव राघव ॥३-७३-१२॥
वल्गु स्वरा निकूजन्ति पंपा सलिल गोचराः ।न उद्विजन्ते नरान् दृष्ट्वा वधस्य अकोविदाः शुभाः ॥३-७३-१३॥
घृत पिण्ड उपमान् स्थूलान् तान् द्विजान् भक्षयिष्यथः ।रोहितान् वक्र तुण्डान् च नल मीनान् च राघव ॥३-७३-१४॥
पंपायाम् इषुभिः मत्स्यान् तत्र राम वरान् हतान् ।निस्त्वक्पक्षानयसतप्तानकृशान्नैककण्टकान् - यद्वा -निः त्वक् पक्षान् अयस तप्तान् अकृशान् न अनेक कण्टकान् ॥३-७३-१५॥
तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति ।भृशम् तान् खादतो मत्स्यान् पंपायाः पुष्प संचये ॥३-७३-१६॥
पद्म गन्धि शिवम् वारि सुख शीतम् अनामयम् ।उद्धृत्य स तदा अक्लिष्टम् रूप्य स्फटिक सन्निभम् ॥३-७३-१७॥
अथ पुष्कर पर्णेन लक्ष्मणः पाययिष्यति ।स्थूलान् गिरि गुहा शय्यान् वानरान् वन चारिणः ॥३-७३-१८॥
साय आह्ने विचरन् राम दर्शयिष्यति लक्ष्मणः ।अपाम् लोभात उपावृत्तान् वृषभान् इव नर्दतः ॥३-७३-१९॥
रूप अन्वितान् च पंपायाम् द्रक्ष्यसि त्वम् नरोत्तम ।साय अह्ने विचरन् राम विटपीन् माल्य धारिणः ॥३-७३-२०॥
शिव उदकम् च पंपायाम् दृष्ट्वा शोकम् विहास्यसि ।सु मनोभिः चितान् तत्र तिलकान् नक्त मालकान् ॥३-७३-२१॥
उत्पलानि च फुल्लानि पंकजानि च राघव ।न तानि कश्चित् माल्यानि तत्र आरोपयिता नरः ॥३-७३-२२॥
न च वै म्लानताम् यान्ति न च शीर्यन्ति राघव ।मतंग शिष्याः तत्र आसन् ऋषयः सुसमाहितः ॥३-७३-२३॥
तेषाम् भार अभितप्तानाम् वन्यम् आहरताम् गुरोः ।ये प्रपेतुः महीम् तूर्णम् शरीरात् स्वेद बिन्दवः ॥३-७३-२४॥
तानि माल्यानि जातानि मुनीनाम् तपसा तदा ।स्वेद बिन्दु समुत्थानि न विनश्यन्ति राघव ॥३-७३-२५॥
तेषाम् गतानाम् अद्य अपि दृश्यते परिचारिणी ।श्रमणी शबरी नाम काकुत्स्थ चिर जीविनी ॥३-७३-२६॥
त्वाम् तु धर्मे स्थिता नित्यम् सर्व भूत नमस्कृतम् ।दृष्ट्वा देव उपमम् राम स्वर्ग लोकम् गमिष्यति ॥३-७३-२७॥
ततः तत् राम पंपायाः तीरम् आश्रित्य पश्चिमम् ।आश्रम स्थानम् अतुलम् गुह्यम् काकुत्स्थ पश्यसि ॥३-७३-२८॥
न तत्र आक्रमितुम् नागाः शक्नुवन्ति तद् आश्रमे ।ऋषेः तस्य मतंगस्य विधानात् तत् च काननम् ॥३-७३-२९॥
मातंग वनम् इति एव विश्रुतम् रघुनंदन ।तस्मिन् नंदन संकाशे देव अरण्य उपमे वने ॥३-७३-३०॥
नाना विहग संकीर्णे रंस्यसे राम निर्वृतः ।ऋष्यमूकः तु पंपायाः पुरस्तात् पुष्पित द्रुमः ॥३-७३-३१॥
सु दुःख आरोहणः च एव शिशु नाग अभिरक्षितः ।उदारो ब्रह्मणा चैव पूर्व काले विनिर्मितः ॥३-७३-३२॥
शयानः पुरुषो राम तस्य शैलस्य मूर्धनि ।यत् स्वप्ने लभते वित्तम् तत् प्रबुद्धो अधिगच्छति ॥३-७३-३३॥
यः तु एनम् विषम आचारः पाप कर्मा अधिरोहति ।तत्र एव प्रहरन्ति एनम् सुप्तम् आदाय राक्षसाः ॥३-७३-३४॥
तत्र अपि शिशु नागानाम् आक्रंदः श्रूयते महान् ।क्रीडताम् राम पंपायाम् मतंग आश्रम वासिनाम् ॥३-७३-३५॥
सिक्ता रुधिर धाराभिः संहत्य परम द्विपाः ।प्रचरन्ति पृथक् कीर्णा मेघ वर्णाः तरस्विनः ॥३-७३-३६॥
ते तत्र पीत्वा पानीयम् विमलम् चारु शोभनम् ।अत्यन्त सुख संस्पर्शम् सर्व गन्ध समन्वितम् ॥३-७३-३७॥
निवृत्ताः सम्विगाहन्ते वनानि वन गोचराः ।ऋक्षाम् च द्विपिनः चैव नील कोमलक प्रभान् ॥३-७३-३८॥
रुरून् अपेता अपजयान् दृष्ट्वा शोकम् प्रहास्यसि ।राम तस्य तु शैलस्य महती शोभते गुहा ॥३-७३-३९॥
शिला पिधाना काकुत्स्थ दुःखम् च अस्याः प्रवेशनम् ।तस्या गुहायाः प्राक् द्वारे महान् शीत उदको ह्रदः ॥३-७३-४०॥
बहु मूल फलो रम्यो नाना नग समाकुलः ।तस्याम् वसति सुग्रीवः चतुर्भिः सह वानरैः ॥३-७३-४१॥
कदाचित् शिखरे तस्य पर्वतस्य अपि तिष्ठते ।कबंधः तु अनुशास्य एवम् तौ उभौ राम लक्ष्मणौ ॥३-७३-४२॥
स्रग्वी भास्कर वर्ण आभः खे व्यरोचत वीर्यवान् ।तम् तु ख स्थम् महाभागम् कबंधम् राम लक्ष्मणौ ॥३-७३-४३॥
प्रस्थितौ त्वम् व्रजस्व इति वाक्यम् ऊचतुः अन्तिके ।गम्यताम् कार्य सिद्धि अर्थम् इति तौ अब्रवीत् च सः ॥३-७३-४४॥
सुप्रीतौ तौ अनुज्ञाप्य कबंधः प्रस्थितः तदा ॥३-७३-४५॥
स तत् कबंधः प्रतिपद्य रूपम्वृतः श्रिया भास्कर सर्व देहः ।निदर्शयन् रामम् अवेक्ष्य ख स्थःसख्यम् कुरुष्व इति तदा अभ्युवाच ॥३-७३-४६॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 72
- Next: Araṇya-Kāṇḍa Sarga 74 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷