🪷 अरण्यकाण्ड · Sarga 72
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 72 · 27 ślokas
🪷 Devanāgarī Ślokas
एवम् उक्तौ तु तौ वीरौ कबन्धेन नर ईश्वरौ ।गिरि प्रदरम् आसाद्य पावकम् विससर्जतुः ॥३-७२-१॥
लक्ष्मणः तु महा उल्काभिः ज्वलिताभिः समन्ततः ।चिताम् आदीपयामास सा प्रजज्वाल सर्वतः ॥३-७२-२॥
तत् शरीरम् कबन्धस्य घृत पिण्ड उपमम् महत् ।मेदसा पच्यमानस्य मन्दम् दहति पावकः ॥३-७२-३॥
स विधूय चिताम् आशु विधूमो अग्निर् इव उत्थितः ।अरजे वाससी बिभ्रत् मालाम् दिव्याम् महाबलः ॥३-७२-४॥
ततः चिताया वेगेन भास्वरो विरज अंबरः ।उत्पपात आशु संहृष्टः सर्व प्रत्यंग भूषणः ॥३-७२-५॥
विमाने भास्वरे तिष्ठन् हंस युक्ते यशस् करे ।प्रभया च महातेजा दिशो दश विराजयन् ॥३-७२-६॥
सो अन्तरिक्ष गतो वाक्यम् कबन्धो रामम् अब्रवीत् ।शृणु राघव तत्त्वेन यथा सीमाम् अवाप्स्यसि ॥३-७२-७॥
राम षड् युक्तयो लोके याभिः सर्वम् विमृश्यते ।परिमृष्टो दश अन्तेन दश आभागेन सेव्यते ॥३-७२-८॥
दश आभाग गतो हीनः त्वम् राम सह लक्ष्मणः ।यत् कृते व्यसनम् प्राप्तम् त्वया दार प्रधर्षणम् ॥३-७२-९॥
तत् अवश्यम् त्वया कार्यः स सुहृत् सुहृदाम् वर ।अकृत्वा न हि ते सिद्धिम् अहम् पश्यामि चिन्तयन् ॥३-७२-१०॥
श्रूयताम् राम वक्ष्यामि सुग्रीवो नाम वानरः ।भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्र सूनुना ॥३-७२-११॥
ऋष्यमूके गिरि वरे पंपा पर्यन्त शोभिते ।निवसति आत्मवान् वीरः चतुर्भिः सह वानरैः ॥३-७२-१२॥
वानरेन्द्रो महावीर्यः तेजोवान् अमित प्रभः ।सत्य संधो विनीतः च धृतिमान् मतिमान् महान् ॥३-७२-१३॥
दक्षः प्रगल्भो द्युतिमान् महा बल पराक्रमः ।भ्राता विवासितो वीर राज्य हेतो महात्मना ॥३-७२-१४॥
स ते सहायो मित्रम् च सीतायाः परिमार्गणे ।भविष्यति हि ते राम मा च शोके मनः कृधाः ॥३-७२-१५॥
भवितव्यम् हि यत् च अपि न तत् शक्यम् इह अन्यथा ।कर्तुम् इक्ष्वाकु शार्दूल कालो हि दुर्रक्रमः ॥३-७२-१६॥
गच्छ शीघ्रम् इतो वीर सुग्रीवम् तम् महाबलम् ।वयस्यम् तम् कुरु क्षिप्रम् इतो गत्वा अद्य राघव ॥३-७२-१७॥
अद्रोहाय समागम्य दीप्यमाने विभावसौ ।न च ते सो अवमन्तव्यः सुग्रीवो वानर अधिपः ॥३-७२-१८॥
कृतज्ञः काम रूपी च सहाय अर्थी च वीर्यवान् ।शक्तौ हि अद्य युवाम् कर्तुम् कार्यम् तस्य चिकीर्षितम् ॥३-७२-१९॥
कृतार्थो वा अकृतार्थो वा तव कृत्यम् करिष्यति ।स ऋक्षरजसः पुत्रः पंपाम् अटति शन्कितः ॥३-७२-२०॥
भास्करस्य औरसः पुत्रो वालिना कृत किल्बिषः ।संनिधाय आयुधम् क्षिप्रम् ऋष्यमूक आलयम् कपिम् ॥३-७२-२१॥
कुरु राघव सत्येन वयस्यम् वन चारिणम् ।स हि स्थानानि सर्वाणि कार्त्स्न्येन कपि कुंजरः ॥३-७२-२२॥
नर मांस अशिनाम् लोके नैपुण्यात् अधिगच्छति ।न तस्य अविदितम् लोके किंचित् अस्ति हि राघव ॥३-७२-२३॥
यावत् सूर्यः प्रतपति सहस्रांशुः अरिन्दम ।स नदीः विपुलान् शैलान् गिरि दुर्गाणि कंदरान् ॥३-७२-२४॥
अन्विष्य वानरैः सार्धम् पत्नीम् ते अधिगमिष्यति ।वानरान् च महाकायान् प्रेषयिष्यति राघव ॥३-७२-२५॥
दिशो विचेतुम् ताम् सीताम् त्वत् वियोगेन शोचयतीम् ।अन्वेष्यति वरारोहाम् मैथिलीम् रावण आलये ॥३-७२-२६॥
स मेरु शृंग अग्र गताम् अनिंदिताम्प्रविश्य पाताल तले अपि वा आश्रिताम् ।प्लवंगमानाम् ऋषभः तव प्रियाम्निहत्य रक्षाम्सि पुनः प्रदास्यति ॥३-७२-२७॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 71
- Next: Araṇya-Kāṇḍa Sarga 73 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Araṇya-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷