🪷 अरण्यकाण्ड · Sarga 71
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 71 · 34 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.71local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
पुरा राम महाबाहो महाबल पराक्रम ।रूपम् आसीत् मम अचिंत्यम् त्रिषु लोकेषु विश्रुतम् ॥३-७१-१॥
यथा सूर्यस्य सोमस्य शक्रस्य च यथा वपुः ।सो अहम् रूपम् इदम् कृत्वा लोक वित्रासनम् महत् ॥३-७१-२॥
ऋषीन् वन गतान् राम त्रासयामि ततः ततः ।ततः स्थूलशिरा नाम महर्षिः कोपितो मया ॥३-७१-३॥
संचिन्वन् विविधम् वन्यम् रूपेण अनेन धर्षितः ।तेन अहम् उक्तः प्रेक्ष्य एवम् घोर शाप अभिधायिना ॥३-७१-४॥
एतत् एव नृशंसम् ते रूपम् अस्तु विगर्हितम् ।स मया याचितः क्रुद्धः शापस्य अन्तो भवेत् इति ॥३-७१-५॥
अभिशाप कृतस्य इति तेन इदम् भाषितम् वचः ।यदा छित्त्वा भुजौ रामः त्वाम् दहेत् विजने वने ॥३-७१-६॥
तदा त्वम् प्राप्स्यसे रूपम् स्वम् एव विपुलम् शुभम् ।श्रिया विराजितम् पुत्रम् दनोः त्वम् विद्धि लक्ष्मण ॥३-७१-७॥
इन्द्र कोपात् इदम् रूपम् प्राप्तम् एवम् रण आजिरे ।अहम् हि तपसा उग्रेण पितामहम् अतोषयम् ॥३-७१-८॥
दीर्घम् आयुः स मे प्रादात् ततो माम् विभ्रमो अस्पृशत् ।दीर्घम् आयुः मया प्राप्तम् किम् मे शक्रः करिष्यति ॥३-७१-९॥
इति एवम् बुद्धिम् आस्थाय रणे शक्रम् अधर्षयम् ।तस्य बाहु प्रमुक्तेन वज्रेण शत पर्वणा ॥३-७१-१०॥
सक्थिनी च शिरः चैव शरीरे संप्रवेशितम् ।स मया याच्यमानः सन् न आनयत् यम सादनम् ॥३-७१-११॥
पितामह वचः सत्यम् तत् अस्ति इति मम अब्रवीत् ।अनाहारः कथम् शक्तो भग्न सक्थि शिरो मुखः ॥३-७१-१२॥
वज्रेण अभिहतः कालम् सु दीर्घम् अपि जीवितुम् ।स एवम् उक्तः मे शक्रो बाहू योजनम् आयतौ ॥३-७१-१३॥
तदा च आस्यम् च मे कुक्षौ तीक्ष्ण दंष्ट्रम् अकल्पयत् ।सो अहम् भुजाभ्याम् दीर्घाभ्याम् संकृष्य अस्मिन् वने चरान् ॥३-७१-१४॥
सिंह द्विपि मृग व्याघ्रान् भक्षयामि समंततः ।स तु माम् अब्रवीत् इन्द्रो यदा रामः स लक्ष्मणः ॥३-७१-१५॥
छेत्स्यते समरे बाहू तदा स्वर्गम् गमिष्यसि ।अनेन वपुषा तात वने अस्मिन् राजसत्तम ॥३-७१-१६॥
यत् यत् पश्यामि सर्वस्य ग्रहणम् साधु रोचये ।अवश्यम् ग्रहणम् रामो मन्ये अहम् समुपैष्यति ॥३-७१-१७॥
इमाम् बुद्धिम् पुरस्कृत्य देह न्यास कृत श्रमः ।स त्वम् रामो असि भद्रम् ते न अहम् अन्येन राघव ॥३-७१-१८॥
शक्यो हन्तुम् यथा तत्त्वम् एवम् उक्तम् महर्षिणा ।अहम् हि मति साचिव्यम् करिष्यामि नर ऋषभ ॥३-७१-१९॥
मित्रम् चैव उपदेक्ष्यामि युवाभ्याम् संस्कृतो अग्निना ।एवम् उक्तः तु धर्मात्मा दनुना तेन राघवः ॥३-७१-२०॥
इदम् जगाद वचनम् लक्ष्मणस्य उपशृण्वतः ।रावणेन हृता सीता मम भार्या यशस्विनी ॥३-७१-२१॥
निष्क्रांतस्य जनस्थानात् सह भ्रात्रा यथा सुखम् ।नाम मात्रम् तु जानामि न रूपम् तस्य रक्षसः ॥३-७१-२२॥
निवासम् वा प्रभावम् वा वयम् तस्य न विद्महे ।शोक आर्तानाम् अनाथानाम् एवम् विपरिधावताम् ॥३-७१-२३॥
कारुण्यम् सदृशम् कर्तुम् उपकारे च वर्तताम् ।काष्ठानि आनीय भग्नानि काले शुष्काणि कुंजरैः ॥३-७१-२४॥
धक्ष्यामः त्वाम् वयम् वीर श्वभ्रे महति कल्पिते ।स त्वम् सीताम् समाचक्ष्व येन वा यत्र वा हृता ॥३-७१-२५॥
कुरु कल्याणम् अत्यर्थम् यदि जानासि तत्त्वतः ।एवम् उक्तः तु रामेण वाक्यम् दनुः अनुत्तमम् ॥३-७१-२६॥
प्रोवाच कुशलो वक्तुम् वक्तारम् अपि राघवम् ।दिव्यम् अस्ति न मे ज्ञानम् न अभिजानामि मैथिलीम् ॥३-७१-२७॥
यः ताम् ज्ञास्यति तम् वक्ष्ये दग्धः स्वम् रूपम् आस्थितः ।यो अभिजानाति तद् रक्षः तद् वक्ष्ये राम तत् परम् ॥३-७१-२८॥
अदग्धस्य हि विज्ञातुम् शक्तिः अस्ति न मे प्रभो ।राक्षसम् तम् महावीर्यम् सीता येन हृता तव ॥३-७१-२९॥
विज्ञानम् हि महत् भ्रष्टम् शाप दोषेण राघव ।स्वकृतेन मया प्राप्तम् रूपम् लोक विगर्हितम् ॥३-७१-३०॥
किम् तु यावत् न याति अस्तम् सविता श्रान्त वाहनः ।तावत् माम् अवटे क्षिप्त्वा दह राम यथा विधि ॥३-७१-३१॥
दग्धः त्वया अहम् अवटे न्यायेन रघुनंदन ।वक्ष्यामि तम् महावीर यः तम् वेत्स्यति राक्षसम् ॥३-७१-३२॥
तेन सख्यम् च कर्तव्यम् न्याय्य वृत्तेन राघव ।कल्पयिष्यति ते प्रीतः साहाय्यम् लघु विक्रमः ॥३-७१-३३॥
न हि तस्य अस्ति अविज्ञातम् त्रिषु लोकेषु राघव ।सर्वान् परिवृतो लोकान् पुरा वै कारण अन्तरे ॥३-७१-३४॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 70
- Next: Araṇya-Kāṇḍa Sarga 72 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷