🪷 अरण्यकाण्ड · Sarga 70
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 70 · 19 ślokas
🪷 Devanāgarī Ślokas
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ राम लक्ष्मणौ ।बाहु पाश परिक्षिप्तौ कबन्धो वाक्यम् अब्रवीत् ॥३-७०-१॥
तिष्ठतः किम् नु माम् दृष्ट्वा क्षुधा आर्तम् क्षत्रिय ऋषभौ ।आहार अर्थम् तु सन्दिष्टौ दैवेन गत चेतसौ ॥३-७०-२॥
तत् श्रुत्वा लक्ष्मणो वाक्यम् प्राप्त कालम् हितम् तदा ।उवाच आर्तिम् समापन्नो विक्रमे कृत निश्चयः ॥३-७०-३॥
त्वाम् च माम् च पुरा तूर्णम् आदत्ते राक्षस अधमः ।तस्मात् असिभ्याम् अस्य आशु बाहू चिन्दावहे गुरू ॥३-७०-४॥
भिषणो अयम् महाकायो राक्षसो भुज विक्रमः ।लोकम् हि अति जितम् कृत्वा हि अवाम् हन्तुम् इह इच्छति ॥३-७०-५॥
निश्चेष्टानाम् वधो राजन् कुत्स्तितो जगती पतेः ।क्रतु मध्य उपनीतानाम् पशूनाम् इव राघव ॥३-७०-६॥
एतत् संजल्पितम् श्रुत्वा तयोः क्रुद्धः तु राक्षसः ।विदार्य आस्यम् ततो रौद्रम् तौ भक्षयितुम् आरभत् ॥३-७०-७॥
ततः तौ देश कालज्ञौ खड्गाभ्याम् एव राघवौ ।अच्छिन्दताम् सुसंहृष्टौ बाहू तस्य अंस देशतः ॥३-७०-८॥
दक्षिणो दक्षिणम् बाहुम् असक्तम् असिना ततः ।चिच्छेद रामो वेगेन सव्यम् वीरः तु लक्ष्मणः ॥३-७०-९॥
स पपात महाबाहुः चिन्न बाहुः महा स्वनः ।खम् च गाम् च दिशः चैव नादयन् जलदो यथा ॥३-७०-१०॥
स निकृत्तौ भुजौ दृष्ट्वा शोणित ओघ परिप्लुतः ।दीनः पप्रच्छ तौ वीरौ कौ युवाम् इति दानवः ॥३-७०-११॥
इति तस्य ब्रुवाणस्य लक्ष्मणः शुभ लक्षणः ।शशंस तस्य काकुत्स्थम् कबंधस्य महाबलः ॥३-७०-१२॥
अयम् इक्ष्वाकु दायादो रामो नाम जनैः श्रुतः ।तस्य एव अवरजम् विद्धि भ्रातरम् माम् च लक्ष्मणम् ॥३-७०-१३॥
मात्रा प्रतिहतो राज्ये रामः प्रवाजितो वनम् ।मया सह चरति एष भार्यया च महत् वनम् ॥३-७०-१४॥
अस्य देव प्रभावस्य वसतो विजने वने ।रक्षसा अपहृता भार्या याम् इच्छन्तौ इह आगतौ ॥३-७०-१५॥
त्वम् तु को वा किम् अर्थम् वा कबन्ध सदृशो वने ।आस्येन उरसि दीप्तेन भग्न जन्घो विचेष्टसे ॥३-७०-१६॥
एवम् उक्तः कबंधः तु लक्ष्मणेन उत्तरम् वचः ।उवाच परम प्रीतः तत् इन्द्र वचनम् स्मरन् ॥३-७०-१७॥
स्वागतम् वाम् नरव्याघ्रौ दिष्ट्या पश्यामि वाम् अहम् ।दिष्ट्या च इमौ निकृत्तौ मे युवाभ्याम् बाहु बन्धनौ ॥३-७०-१८॥
विरूपम् यत् च मे रूपम् प्राप्तम् हि अविनयात् यथा ।तत् मे शृणु नरव्याघ्र तत्त्वतः शंसतः तव ॥३-७०-१९॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 69
- Next: Araṇya-Kāṇḍa Sarga 71 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Araṇya-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷